Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Birth and Reign of Rsabha
Śrīmad Bhāgavatam
›
Canto 5
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथ
ह
तमुत्पत्त्यैवाभिव्यज्यमानभगवल्लक्षणं
साम्योपशमवैराग्यैश्वर्यमहाविभूतिभिरनुदिन-
मेधमानानुभावं
प्रकृतयः
प्रजा
ब्राह्मणा
देवताश्चावनितलसमवनायातितरां
जगृधुः
2
▾
Meaning
Keep
तस्य
ह
वा
इत्थं
वर्ष्मणा
वरीयसा
बृहच्छ्लोकेन
चौजसा
बलेन
श्रिया
यशसा
वीर्यशौर्याभ्यां
च
पिता
ऋषभ
इतीदं
नाम
चकार
3
▾
Meaning
Keep
तस्य
हीन्द्रः
स्पर्धमानो
भगवान्
वर्षे
न
ववर्ष
तदवधार्य
भगवानृषभदेवो
योगेश्वरःप्रहस्यात्मयोगमायया
स्ववर्षमजनाभं
नामाभ्यवर्षत्
4
▾
Meaning
Keep
नाभिस्तु
यथाभिलषितं
सुप्रजस्त्वमवरुध्याति-
प्रमोदभरविह्वलो
गद्गदाक्षरया
गिरा
स्वैरं
गृहीतनरलोकसधर्मं
भगवन्तं
पुराणपुरुषं
मायाविलसितमतिर्वत्स
तातेति
सानुराग-
मुपलालयन्
परां
निर्वृतिमुपगतः
5
▾
Meaning
Keep
विदितानुरागमापौरप्रकृतिजनपदो
राजा
नाभिरात्मजं
समयसेतुरक्षायामभिषिच्य
ब्राह्मणेषूपनिधाय
सह
मेरुदेव्या
विशालायां
प्रसन्ननिपुणेन
तपसा
समाधियोगेन
नरनारायणाख्यं
भगवन्तं
वासुदेवमुपासीनः
कालेन
तन्महिमानमवाप
6
▾
Meaning
Keep
यस्य ह पाण्डवेय श्लोकावुदाहरन्ति -
को नु तत्कर्म राजर्षेर्नाभेरन्वाचरेत्पुमान् ।
अपत्यतामगाद्यस्य हरिः शुद्धेन कर्मणा
7
▾
Meaning
Keep
ब्रह्मण्योऽन्यः
कुतो
नाभेर्विप्रा
मङ्गलपूजिताः
।
यस्य
बर्हिषि
यज्ञेशं
दर्शयामासुरोजसा
8
▾
Meaning
Keep
अथ
ह
भगवान्
ऋषभदेवः
स्ववर्षं
कर्मक्षेत्र-
मनुमन्यमानः
प्रदर्शितगुरुकुलवासो
लब्धवरै-
र्गुरुभिरनुज्ञातो
गृहमेधिनां
धर्माननुशिक्षमाणो
जयन्त्यामिन्द्रदत्तायामुभयलक्षणं
कर्म
समाम्नायाम्नातमभियुञ्जन्नात्मजानामात्मसमानानां
शतं
जनयामास
9
▾
Meaning
Keep
येषां
खलु
महायोगी
भरतो
ज्येष्ठः
श्रेष्ठगुण
आसीद्येनेदं
वर्षं
भारतमिति
व्यपदिशन्ति
10
▾
Meaning
Keep
तमनु
कुशावर्त
इलावर्तो
ब्रह्मावर्तो
मलयः
केतुर्भद्रसेन
इन्द्रस्पृग्विदर्भः
कीकट
इति
नव
नवतिप्रधानाः
11
▾
Meaning
Keep
कविर्हविरन्तरिक्षः
प्रबुद्धः
पिप्पलायनः
।
आविर्होत्रोऽथ
द्रुमिलश्चमसः
करभाजनः
12
▾
Meaning
Keep
इति
भागवतधर्मदर्शना
नव
महाभागवतास्तेषां
सुचरितं
भगवन्
महिमोपबृंहितं
वसुदेवनारदसंवाद-
मुपशमायनमुपरिष्टाद्वर्णयिष्यामः
13
▾
Meaning
Keep
यवीयांस
एकाशीतिर्जायन्तेयाः
पितुरादेशकरा
महाशालीना
महाश्रोत्रिया
यज्ञशीलाः
कर्मविशुद्धा
ब्राह्मणा
बभूवुः
14
▾
Meaning
Keep
भगवान्
ऋषभसंज्ञ
आत्मतन्त्रः
स्वयं
नित्यनिवृत्तानर्थ-
परम्परः
केवलानन्दानुभव
ईश्वर
एव
विपरीतवत्कर्मा-
ण्यारभमाणः
कालेनानुगतं
धर्ममाचरणेनोपशिक्षय-
न्नतद्विदां
सम
उपशान्तो
मैत्रः
कारुणिको
धर्मार्थयशः-
प्रजानन्दामृतावरोधेन
गृहेषु
लोकं
नियमयत्
15
▾
Meaning
Keep
यद्यच्छीर्षण्याचरितं
तत्तदनुवर्तते
लोकः
16
▾
Meaning
Keep
यद्यपि
स्वविदितं
सकलधर्मं
ब्राह्मं
गुह्यं
ब्राह्मणै-
र्दर्शितमार्गेण
सामादिभिरुपायैर्जनतामनुशशास
17
▾
Meaning
Keep
द्रव्यदेशकालवयःश्रद्धर्त्विग्विविधोद्देशोपचितैः
सर्वैरपि
क्रतुभिर्यथोपदेशं
शतकृत्व
इयाज
18
▾
Meaning
Keep
भगवतर्षभेण
परिरक्ष्यमाण
एतस्मिन्
वर्षे
न
कश्चन
पुरुषो
वाञ्छत्यविद्यमानमिवात्मनोऽन्यस्मात्
कथञ्चन
किमपि
कर्हिचिदवेक्षते
भर्तर्यनुसवनं
विजृम्भितस्नेहातिशयमन्तरेण
19
▾
Meaning
Keep
स
कदाचिदटमानो
भगवान्
ऋषभो
ब्रह्मावर्तगतो
ब्रह्मर्षिप्रवरसभायां
प्रजानां
निशामयन्तीना-
मात्मजानवहितात्मनः
प्रश्रयप्रणयभरसुयन्त्रिता-
नप्युपशिक्षयन्निति
होवाच
Previous
←
Nabhi's Sacrifice and the Promise of a Son
Next
What Rsabha Told His Sons
→