तदानीमपि पार्श्ववर्तिनमात्मजमिवानुशोचन्त-मभिवीक्षमाणो मृग एवाभिनिवेशितमना विसृज्यलोकमिमं सह मृगेण कलेवरं मृतमनु न मृतजन्मा-नुस्मृतिरितरवन्मृगशरीरमवाप
अहो कष्टं भ्रष्टोऽहमात्मवतामनुपथाद्यद्विमुक्त-समस्तसङ्गस्य विविक्तपुण्यारण्यशरणस्यात्मवतआत्मनि सर्वेषामात्मनां भगवति वासुदेवेतदनुश्रवणमननसङ्कीर्तनाराधनानुस्मरणा-भियोगेनाशून्यसकलयामेन कालेन समावेशितंसमाहितं कार्त्स्न्येन मनस्तत्तु पुनर्ममाबुधस्या-रान्मृगसुतमनु परिसुस्राव