अथ कस्यचिद्द्विजवरस्याङ्गिरःप्रवरस्य शमदमतपः-स्वाध्यायाध्ययनत्यागसन्तोषतितिक्षाप्रश्रयविद्या-नसूयात्मज्ञानानन्दयुक्तस्यात्मसदृशश्रुतशीलाचार-रूपौदार्यगुणा नवसोदर्या अङ्गजा बभूवुर्मिथुनं चयवीयस्यां भार्यायाम्
।
यदा तु परत आहारं कर्मवेतनत ईहमानःस्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तदपिकरोति किन्तु न समं विषमं न्यूनमधिकमितिवेद कणपिण्याकफलीकरणकुल्माषस्थाली-पुरीषादीन्यप्यमृतवदभ्यवहरति