Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Mind Is the Mark
Śrīmad Bhāgavatam
›
Canto 5
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अकोविदः
कोविदवादवादान्
वदस्यथो
नातिविदां
वरिष्ठः
।
न
सूरयो
हि
व्यवहारमेनं
तत्त्वावमर्शेन
सहामनन्ति
2
▾
Meaning
Keep
तथैव
राजन्नुरुगार्हमेध-
वितानविद्योरुविजृम्भितेषु
।
न
वेदवादेषु
हि
तत्त्ववादः
प्रायेण
शुद्धो
नु
चकास्ति
साधुः
3
▾
Meaning
Keep
न
तस्य
तत्त्वग्रहणाय
साक्षा-
द्वरीयसीरपि
वाचः
समासन्
।
स्वप्ने
निरुक्त्या
गृहमेधिसौख्यं
न
यस्य
हेयानुमितं
स्वयं
स्यात्
4
▾
Meaning
Keep
यावन्मनो
रजसा
पूरुषस्य
सत्त्वेन
वा
तमसा
वानुरुद्धम्
।
चेतोभिराकूतिभिरातनोति
निरङ्कुशं
कुशलं
चेतरं
वा
5
▾
Meaning
Keep
स
वासनात्मा
विषयोपरक्तो
गुणप्रवाहो
विकृतः
षोडशात्मा
।
बिभ्रत्पृथङ्नामभि
रूपभेद-
मन्तर्बहिष्ट्वं
च
पुरैस्तनोति
6
▾
Meaning
Keep
दुःखं
सुखं
व्यतिरिक्तं
च
तीव्रं
कालोपपन्नं
फलमाव्यनक्ति
।
आलिङ्ग्य
मायारचितान्तरात्मा
स्वदेहिनं
संसृतिचक्रकूटः
7
▾
Meaning
Keep
तावानयं
व्यवहारः
सदाविः
क्षेत्रज्ञसाक्ष्यो
भवति
स्थूलसूक्ष्मः
।
तस्मान्मनो
लिङ्गमदो
वदन्ति
गुणागुणत्वस्य
परावरस्य
8
▾
Meaning
Keep
गुणानुरक्तं
व्यसनाय
जन्तोः
क्षेमाय
नैर्गुण्यमथो
मनः
स्यात्
।
यथा
प्रदीपो
घृतवर्तिमश्नन्
शिखाः
सधूमा
भजति
ह्यन्यदा
स्वम्
।
पदं
तथा
गुणकर्मानुबद्धं
वृत्तीर्मनः
श्रयतेऽन्यत्र
तत्त्वम्
9
▾
Meaning
Keep
एकादशासन्मनसो
हि
वृत्तय
आकूतयः
पञ्च
धियोऽभिमानः
।
मात्राणि
कर्माणि
पुरं
च
तासां
वदन्ति
हैकादश
वीर
भूमीः
10
▾
Meaning
Keep
गन्धाकृतिस्पर्शरसश्रवांसि
विसर्गरत्यर्त्यभिजल्पशिल्पाः
।
एकादशं
स्वीकरणं
ममेति
शय्यामहं
द्वादशमेक
आहुः
11
▾
Meaning
Keep
द्रव्यस्वभावाशयकर्मकालै-
रेकादशामी
मनसो
विकाराः
।
सहस्रशः
शतशः
कोटिशश्च
क्षेत्रज्ञतो
न
मिथो
न
स्वतः
स्युः
12
▾
Meaning
Keep
क्षेत्रज्ञ
एता
मनसो
विभूती-
र्जीवस्य
मायारचितस्य
नित्याः
।
आविर्हिताः
क्वापि
तिरोहिताश्च
शुद्धो
विचष्टे
ह्यविशुद्धकर्तुः
13
▾
Meaning
Keep
क्षेत्रज्ञ
आत्मा
पुरुषः
पुराणः
साक्षात्स्वयंज्योतिरजः
परेशः
।
नारायणो
भगवान्
वासुदेवः
स्वमाययाऽऽत्मन्यवधीयमानः
14
▾
Meaning
Keep
यथानिलः
स्थावरजङ्गमाना-
मात्मस्वरूपेण
निविष्ट
ईशेत्
।
एवं
परो
भगवान्
वासुदेवः
क्षेत्रज्ञ
आत्मेदमनुप्रविष्टः
15
▾
Meaning
Keep
न
यावदेतां
तनुभृन्नरेन्द्र
विधूय
मायां
वयुनोदयेन
।
विमुक्तसङ्गो
जितषट्सपत्नो
वेदात्मतत्त्वं
भ्रमतीह
तावत्
16
▾
Meaning
Keep
न
यावदेतन्मन
आत्मलिङ्गं
संसारतापावपनं
जनस्य
।
यच्छोकमोहामयरागलोभ-
वैरानुबन्धं
ममतां
विधत्ते
17
▾
Meaning
Keep
भ्रातृव्यमेनं
तददभ्रवीर्य-
मुपेक्षयाध्येधितमप्रमत्तः
।
गुरोर्हरेश्चरणोपासनास्त्रो
जहि
व्यलीकं
स्वयमात्ममोषम्
Previous
←
The Palanquin and the King
Next
The Dust of the Feet of the Great
→