Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Palanquin and the King
Śrīmad Bhāgavatam
›
Canto 5
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथ
सिन्धुसौवीरपते
रहूगणस्य
व्रजत
इक्षुमत्यास्तटे
तत्कुलपतिना
शिबिकावाहपुरुषा-
न्वेषणसमये
दैवेनोपसादितः
स
द्विजवर
उपलब्ध
एष
पीवा
युवा
संहननाङ्गो
गोखरवद्धुरं
वोढुमलमिति
पूर्वविष्टिगृहीतैः
सह
गृहीतः
प्रसभमतदर्ह
उवाह
शिबिकां
स
महानुभावः
2
▾
Meaning
Keep
यदा
हि
द्विजवरस्येषुमात्रावलोकानुगतेर्न
समाहिता
पुरुषगतिस्तदा
विषमगतां
स्वशिबिकां
रहूगण
उपधार्य
पुरुषानधिवहत
आह
हे
वोढारः
साध्वतिक्रमत
किमिति
विषममुह्यते
यानमिति
3
▾
Meaning
Keep
अथ
त
ईश्वरवचः
सोपालम्भमुपाकर्ण्योपायतुरीया-
च्छङ्कितमनसस्तं
विज्ञापयां
बभूवुः
4
▾
Meaning
Keep
न
वयं
नरदेव
प्रमत्ता
भवन्नियमानुपथाः
साध्वेव
वहामः
अयमधुनैव
नियुक्तोऽपि
न
द्रुतं
व्रजति
नानेन
सह
वोढुमु
ह
वयं
पारयाम
इति
5
▾
Meaning
Keep
सांसर्गिको
दोष
एव
नूनमेकस्यापि
सर्वेषां
सांसर्गिकाणां
भवितुमर्हतीति
निश्चित्य
निशम्य
कृपणवचो
राजा
रहूगण
उपासित-
वृद्धोऽपि
निसर्गेण
बलात्कृत
ईषदुत्थित-
मन्युरविस्पष्टब्रह्मतेजसं
जातवेदसमिव
रजसाऽऽवृतमतिराह
6
▾
Meaning
Keep
अहो
कष्टं
भ्रातर्व्यक्तमुरुपरिश्रान्तो
दीर्घमध्वानमेक
एव
ऊहिवान्
सुचिरं
नातिपीवा
न
संहननाङ्गो
जरसा
चोपद्रुतो
भवान्
सखे
नो
एवापर
एते
सङ्घट्टिन
इति
बहुविप्रलब्धोऽप्यविद्यया
रचितद्रव्यगुणकर्माशयस्वचरमकलेवरेऽवस्तुनि
संस्थानविशेषेऽहं
ममेत्यनध्यारोपितमिथ्याप्रत्ययो
ब्रह्मभूतस्तूष्णीं
शिबिकां
पूर्ववदुवाह
7
▾
Meaning
Keep
अथ
पुनः
स्वशिबिकायां
विषमगतायां
प्रकुपित
उवाच
रहूगणः
किमिदमरे
त्वं
जीवन्मृतो
मां
कदर्थीकृत्य
भर्तृशासनमतिचरसि
प्रमत्तस्य
च
ते
करोमि
चिकित्सां
दण्डपाणिरिव
जनताया
यथा
प्रकृतिं
स्वां
भजिष्यस
इति
8
▾
Meaning
Keep
एवं
बह्वबद्धमपि
भाषमाणं
नरदेवाभिमानं
रजसा
तमसानुविद्धेन
मदेन
तिरस्कृताशेषभगवत्प्रियनिकेतं
पण्डितमानिनं
स
भगवान्
ब्राह्मणो
ब्रह्मभूतसर्वभूतसुहृदात्मा
योगेश्वरचर्यायां
नातिव्युत्पन्नमतिं
स्मयमान
इव
विगतस्मय
इदमाह
9
▾
Meaning
Keep
त्वयोदितं
व्यक्तमविप्रलब्धं
भर्तुः
स
मे
स्याद्यदि
वीर
भारः
।
गन्तुर्यदि
स्यादधिगम्यमध्वा
पीवेति
राशौ
न
विदां
प्रवादः
10
▾
Meaning
Keep
स्थौल्यं
कार्श्यं
व्याधय
आधयश्च
क्षुत्तृड्भयं
कलिरिच्छा
जरा
च
।
निद्रा
रतिर्मन्युरहं
मदः
शुचो
देहेन
जातस्य
हि
मे
न
सन्ति
11
▾
Meaning
Keep
जीवन्मृतत्वं
नियमेन
राजन्
आद्यन्तवद्यद्विकृतस्य
दृष्टम्
।
स्वस्वाम्यभावो
ध्रुव
ईड्य
यत्र
तर्ह्युच्यतेऽसौ
विधिकृत्ययोगः
12
▾
Meaning
Keep
विशेषबुद्धेर्विवरं
मनाक्च
पश्याम
यन्न
व्यवहारतोऽन्यत्
।
क
ईश्वरस्तत्र
किमीशितव्यं
तथापि
राजन्
करवाम
किं
ते
13
▾
Meaning
Keep
उन्मत्तमत्तजडवत्स्वसंस्थां
गतस्य
मे
वीर
चिकित्सितेन
।
अर्थः
कियान्
भवता
शिक्षितेन
स्तब्धप्रमत्तस्य
च
पिष्टपेषः
14
▾
Meaning
Keep
एतावदनुवादपरिभाषया
प्रत्युदीर्य
मुनिवर
उपशमशील
उपरतानात्म्यनिमित्त
उपभोगेन
कर्मारब्धं
व्यपनयन्
राजयानमपि
तथोवाह
15
▾
Meaning
Keep
स
चापि
पाण्डवेय
सिन्धुसौवीरपतिस्तत्त्व-
जिज्ञासायां
सम्यक्
श्रद्धयाधिकृताधिकार-
स्तद्धृदयग्रन्थिमोचनं
द्विजवच
आश्रुत्य
बहु
योगग्रन्थसम्मतं
त्वरयावरुह्य
शिरसा
पादमूलमुपसृतः
क्षमापयन्
विगत-
नृपदेवस्मय
उवाच
16
▾
Meaning
Keep
कस्त्वं
निगूढश्चरसि
द्विजानां
बिभर्षि
सूत्रं
कतमोऽवधूतः
।
कस्यासि
कुत्रत्य
इहापि
कस्मात्
क्षेमाय
नश्चेदसि
नोत
शुक्लः
17
▾
Meaning
Keep
नाहं
विशङ्के
सुरराजवज्रा-
न्न
त्र्यक्षशूलान्न
यमस्य
दण्डात्
।
नाग्न्यर्कसोमानिलवित्तपास्त्रा-
च्छङ्के
भृशं
ब्रह्मकुलावमानात्
18
▾
Meaning
Keep
तद्ब्रूह्यसङ्गो
जडवन्निगूढ-
विज्ञानवीर्यो
विचरस्यपारः
।
वचांसि
योगग्रथितानि
साधो
न
नः
क्षमन्ते
मनसापि
भेत्तुम्
19
▾
Meaning
Keep
अहं
च
योगेश्वरमात्मतत्त्व-
विदां
मुनीनां
परमं
गुरुं
वै
।
प्रष्टुं
प्रवृत्तः
किमिहारणं
तत्
साक्षाद्धरिं
ज्ञानकलावतीर्णम्
20
▾
Meaning
Keep
स
वै
भवांल्लोकनिरीक्षणार्थमव्यक्तलिङ्गो
विचरत्यपिस्वित्
।
योगेश्वराणां
गतिमन्धबुद्धिः
कथं
विचक्षीत
गृहानुबन्धः
21
▾
Meaning
Keep
दृष्टः
श्रमः
कर्मत
आत्मनो
वै
भर्तुर्गन्तुर्भवतश्चानुमन्ये
।
यथासतोदानयनाद्यभावात्
समूल
इष्टो
व्यवहारमार्गः
22
▾
Meaning
Keep
स्थाल्यग्नितापात्पयसोऽभिताप-
स्तत्तापतस्तण्डुलगर्भरन्धिः
।
देहेन्द्रियास्वाशयसन्निकर्षा-
त्तत्संसृतिः
पुरुषस्यानुरोधात्
23
▾
Meaning
Keep
शास्ताभिगोप्ता
नृपतिः
प्रजानां
यः
किङ्करो
वै
न
पिनष्टि
पिष्टम्
।
स्वधर्ममाराधनमच्युतस्य
यदीहमानो
विजहात्यघौघम्
24
▾
Meaning
Keep
तन्मे
भवान्
नरदेवाभिमान-
मदेन
तुच्छीकृतसत्तमस्य
।
कृषीष्ट
मैत्री
दृशमार्तबन्धो
यथा
तरे
सदवध्यानमंहः
25
▾
Meaning
Keep
न
विक्रिया
विश्वसुहृत्सखस्य
साम्येन
वीताभिमतेस्तवापि
।
महद्विमानात्स्वकृताद्धि
मादृ-
ङ्नङ्क्ष्यत्यदूरादपि
शूलपाणिः
Previous
←
Jada Bharata and the Goddess
Next
The Mind Is the Mark
→