Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Dust of the Feet of the Great
Śrīmad Bhāgavatam
›
Canto 5
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
नमो
नमः
कारणविग्रहाय
स्वरूपतुच्छीकृतविग्रहाय
।
नमोऽवधूतद्विजबन्धुलिङ्ग-
निगूढनित्यानुभवाय
तुभ्यम्
2
▾
Meaning
Keep
ज्वरामयार्तस्य
यथागदं
सत्
निदाघदग्धस्य
यथा
हिमाम्भः
।
कुदेहमानाहिविदष्टदृष्टेः
ब्रह्मन्
वचस्तेऽमृतमौषधं
मे
3
▾
Meaning
Keep
तस्माद्भवन्तं
मम
संशयार्थं
प्रक्ष्यामि
पश्चादधुना
सुबोधम्
।
अध्यात्मयोगग्रथितं
तवोक्त-
माख्याहि
कौतूहलचेतसो
मे
4
▾
Meaning
Keep
यदाह
योगेश्वर
दृश्यमानं
क्रियाफलं
सद्व्यवहारमूलम्
।
न
ह्यञ्जसा
तत्त्वविमर्शनाय
भवानमुष्मिन्
भ्रमते
मनो
मे
5
▾
Meaning
Keep
अयं
जनो
नाम
चलन्
पृथिव्यां
यः
पार्थिवः
पार्थिव
कस्य
हेतोः
।
तस्यापि
चाङ्घ्र्योरधिगुल्फजङ्घा-
जानूरुमध्योरशिरोधरांसाः
6
▾
Meaning
Keep
अंसेऽधि
दार्वी
शिबिका
च
यस्यां
सौवीरराजेत्यपदेश
आस्ते
।
यस्मिन्
भवान्
रूढनिजाभिमानो
राजास्मि
सिन्धुष्विति
दुर्मदान्धः
7
▾
Meaning
Keep
शोच्यानिमांस्त्वमधिकष्टदीनान्
विष्ट्या
निगृह्णन्
निरनुग्रहोऽसि
।
जनस्य
गोप्तास्मि
विकत्थमानो
न
शोभसे
वृद्धसभासु
धृष्टः
8
▾
Meaning
Keep
यदा
क्षितावेव
चराचरस्य
विदाम
निष्ठां
प्रभवं
च
नित्यम्
।
तन्नामतोऽन्यद्व्यवहारमूलं
निरूप्यतां
सत्क्रिययानुमेयम्
9
▾
Meaning
Keep
एवं
निरुक्तं
क्षितिशब्दवृत्त-
मसन्निधानात्परमाणवो
ये
।
अविद्यया
मनसा
कल्पितास्ते
येषां
समूहेन
कृतो
विशेषः
10
▾
Meaning
Keep
एवं
कृशं
स्थूलमणुर्बृहद्य-
दसच्च
सज्जीवमजीवमन्यत्
।
द्रव्यस्वभावाशयकालकर्म-
नाम्नाजयावेहि
कृतं
द्वितीयम्
11
▾
Meaning
Keep
ज्ञानं
विशुद्धं
परमार्थमेक-
मनन्तरं
त्वबहिर्ब्रह्म
सत्यम्
।
प्रत्यक्प्रशान्तं
भगवच्छब्दसंज्ञं
यद्वासुदेवं
कवयो
वदन्ति
12
▾
Meaning
Keep
रहूगणैतत्तपसा
न
याति
न
चेज्यया
निर्वपणाद्
गृहाद्वा
।
नच्छन्दसा
नैव
जलाग्निसूर्यै-
र्विना
महत्पादरजोऽभिषेकम्
13
▾
Meaning
Keep
यत्रोत्तमश्लोकगुणानुवादः
प्रस्तूयते
ग्राम्यकथाविघातः
।
निषेव्यमाणोऽनुदिनं
मुमुक्षो-
र्मतिं
सतीं
यच्छति
वासुदेवे
14
▾
Meaning
Keep
अहं
पुरा
भरतो
नाम
राजा
विमुक्तदृष्टश्रुतसङ्गबन्धः
।
आराधनं
भगवत
ईहमानो
मृगोऽभवं
मृगसङ्गाद्धतार्थः
15
▾
Meaning
Keep
सा
मां
स्मृतिर्मृगदेहेऽपि
वीर
कृष्णार्चनप्रभवा
नो
जहाति
।
अथो
अहं
जनसङ्गादसङ्गो
विशङ्कमानोऽविवृतश्चरामि
16
▾
Meaning
Keep
तस्मान्नरोऽसङ्गसुसङ्गजात-
ज्ञानासिनेहैव
विवृक्णमोहः
।
हरिं
तदीहाकथनश्रुताभ्यां
लब्धस्मृतिर्यात्यतिपारमध्वनः
Previous
←
The Mind Is the Mark
Next
The Forest of Becoming
→