Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Coming Down of the Ganga, and Siva's Praise
Śrīmad Bhāgavatam
›
Canto 5
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
तत्र
भगवतः
साक्षाद्यज्ञलिङ्गस्य
विष्णोर्विक्रमतो
वामपादाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणा-
न्तःप्रविष्टा
या
बाह्यजलधारा
तच्चरणपङ्कजा-
वनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगदघ-
मलापहोपस्पर्शनामला
साक्षाद्भगवत्पदी-
त्यनुपलक्षितवचोऽभिधीयमानातिमहता
कालेन
युगसहस्रोपलक्षणेन
दिवो
मूर्धन्यवततार
यत्तद्विष्णुपदमाहुः
2
▾
Meaning
Keep
यत्र
ह
वाव
वीरव्रत
औत्तानपादिः
परमभागवतो-
ऽस्मत्कुलदेवताचरणारविन्दोदकमिति
यामनुसवन-
मुत्कृष्यमाणभगवद्भक्तियोगेन
दृढं
क्लिद्यमानान्तर्हृदय
औत्कण्ठ्यविवशामीलितलोचनयुगलकुड्मल-
विगलितामलबाष्पकलयाभिव्यज्यमानरोमपुलक-
कुलकोऽधुनापि
परमादरेण
शिरसा
बिभर्ति
3
▾
Meaning
Keep
ततः
सप्त
ऋषयस्तत्प्रभावाभिज्ञा
यां
ननु
तपसआत्यन्तिकी
सिद्धिरेतावती
भगवति
सर्वात्मनि
वासुदेवेऽनुपरतभक्तियोगलाभेनैवोपेक्षितान्यार्थात्मगतयो
मुक्तिमिवागतां
मुमुक्षव
इव
सबहुमानमद्यापि
जटाजूटैरुद्वहन्ति
4
▾
Meaning
Keep
ततोऽनेकसहस्रकोटिविमानानीकसङ्कुलदेवयानेना-
वतरन्तीन्दुमण्डलमावार्य
ब्रह्मसदने
निपतति
5
▾
Meaning
Keep
तत्र
चतुर्धा
भिद्यमाना
चतुर्भिर्नामभिश्चतुर्दिश-
मभिस्पन्दन्ती
नदनदीपतिमेवाभिनिविशति
सीतालकनन्दा
चक्षुर्भद्रेति
6
▾
Meaning
Keep
सीता
तु
ब्रह्मसदनात्केसराचलादि
गिरिशिखरेभ्यो-
ऽधोऽधःप्रस्रवन्ती
गन्धमादनमूर्धसु
पतित्वान्तरेण
भद्राश्ववर्षं
प्राच्यां
दिशि
क्षारसमुद्रमभिप्रविशति
7
▾
Meaning
Keep
एवं
माल्यवच्छिखरान्निष्पतन्ती
ततोऽनुपरतवेगा
केतुमालमभिचक्षुः
प्रतीच्यां
दिशि
सरित्पतिं
प्रविशति
8
▾
Meaning
Keep
भद्रा
चोत्तरतो
मेरुशिरसो
निपतिता
गिरिशिखरा-
द्गिरिशिखरमतिहाय
शृङ्गवतः
शृङ्गादवस्यन्दमाना
उत्तरांस्तु
कुरूनभित
उदीच्यां
दिशि
जलधि-
मभिप्रविशति
9
▾
Meaning
Keep
तथैवालकनन्दा
दक्षिणेन
ब्रह्मसदनाद्बहूनि
गिरिकूटान्यतिक्रम्य
हेमकूटाद्धैमकूटान्यति-
रभसतररंहसा
लुठयन्ती
भारतमभिवर्षं
दक्षिणस्यां
दिशि
जलधिमभिप्रविशति
यस्यां
स्नानार्थं
चागच्छतः
पुंसः
पदे
पदेऽश्वमेधराजसूयादीनां
फलं
न
दुर्लभमिति
10
▾
Meaning
Keep
अन्ये
च
नदा
नद्यश्च
वर्षे
वर्षे
सन्ति
बहुशो
मेर्वादिगिरिदुहितरः
शतशः
11
▾
Meaning
Keep
तत्रापि
भारतमेव
वर्षं
कर्मक्षेत्रमन्यान्यष्ट-
वर्षाणि
स्वर्गिणां
पुण्यशेषोपभोगस्थानानि
भौमानि
स्वर्गपदानि
व्यपदिशन्ति
12
▾
Meaning
Keep
एषु
पुरुषाणामयुतपुरुषायुर्वर्षाणां
देवकल्पानां
नागायुतप्राणानां
वज्रसंहननबलवयोमोदप्रमुदित-
महासौरतमिथुनव्यवायापवर्गवर्षधृतैकगर्भकलत्राणां
तत्र
तु
त्रेतायुगसमः
कालो
वर्तते
13
▾
Meaning
Keep
यत्र
ह
देवपतयः
स्वैः
स्वैर्गणनायकैर्विहितमहार्हणाः
सर्वर्तुकुसुमस्तबकफलकिसलयश्रियानऽऽम्यमानविटपलताविटपिभिरुपशुम्भमानरुचिरकाननाश्रमायतनवर्षगिरिद्रोणीषु
तथा
चामलजलाशयेषु
विकचविविधनववनरुहामोदमुदितराजहंसजलकुक्कुटकारण्डवसारसचक्रवाकादिभिर्मधुकर
निकराकृतिभिरुपकूजितेषु
जलक्रीडादिभिर्विचित्रविनोदैः
सुललितसुरसुन्दरीणां
काम
कलिलविलासहासलीलावलोकाकृष्टमनोदृष्टयः
स्वैरं
विहरन्ति
14
▾
Meaning
Keep
नवस्वपि
वर्षेषु
भगवान्
नारायणो
महापुरुषः
पुरुषाणां
तदनुग्रहायात्मतत्त्वव्यूहेनात्मनाद्यापि
सन्निधीयते
15
▾
Meaning
Keep
इलावृते
तु
भगवान्
भव
एक
एव
पुमान्
न
ह्यन्य-
स्तत्रापरो
निर्विशति
भवान्याः
शापनिमित्तज्ञो
यत्प्रवेक्ष्यतः
स्त्रीभावस्तत्पश्चाद्वक्ष्यामि
Hymn
16
▾
Meaning
Keep
भवानीनाथैः
स्त्रीगणार्बुदसहस्रैरवरुध्यमानो
भगवतश्चतुर्मूर्तेर्महापुरुषस्य
तुरीयां
तामसीं
मूर्तिं
प्रकृतिमात्मनः
सङ्कर्षणसंज्ञामात्मसमाधि-
रूपेण
सन्निधाप्यैतदभिगृणन्
भव
उपधावति
17
▾
Meaning
Keep
श्रीभगवानुवाच ।
ॐ नमो भगवते महापुरुषाय सर्वगुणसंख्यानायानन्तायाव्यक्ताय नम इति
18
▾
Meaning
Keep
भजे
भजन्यारणपादपङ्कजं
भगस्य
कृत्स्नस्य
परं
परायणम्
।
भक्तेष्वलं
भावितभूतभावनं
भवापहं
त्वा
भवभावमीश्वरम्
19
▾
Meaning
Keep
न
यस्य
मायागुणचित्तवृत्तिभि-
र्निरीक्षतो
ह्यण्वपि
दृष्टिरज्यते
।
ईशे
यथा
नोऽजितमन्युरंहसां
कस्तं
न
मन्येत
जिगीषुरात्मनः
20
▾
Meaning
Keep
असद्दृशो
यः
प्रतिभाति
मायया
क्षीबेव
मध्वासवताम्रलोचनः
।
न
नागवध्वोऽर्हण
ईशिरे
ह्रिया
यत्पादयोः
स्पर्शनधर्षितेन्द्रियाः
21
▾
Meaning
Keep
यमाहुरस्य
स्थितिजन्मसंयमं
त्रिभिर्विहीनं
यमनन्तमृषयः
।
न
वेद
सिद्धार्थमिव
क्वचित्स्थितं
भूमण्डलं
मूर्धसहस्रधामसु
22
▾
Meaning
Keep
यस्याद्य
आसीद्गुणविग्रहो
महान्
विज्ञानधिष्ण्यो
भगवानजः
किल
।
यत्सम्भवोऽहं
त्रिवृता
स्वतेजसा
वैकारिकं
तामसमैन्द्रियं
सृजे
23
▾
Meaning
Keep
एते
वयं
यस्य
वशे
महात्मनः
स्थिताः
शकुन्ता
इव
सूत्रयन्त्रिताः
।
महानहं
वैकृततामसेन्द्रियाः
सृजाम
सर्वे
यदनुग्रहादिदम्
24
▾
Meaning
Keep
यन्निर्मितां
कर्ह्यपि
कर्मपर्वणीं
मायां
जनोऽयं
गुणसर्गमोहितः
।
न
वेद
निस्तारणयोगमञ्जसा
तस्मै
नमस्ते
विलयोदयात्मने
Previous
←
Jambudvipa and Mount Meru
Next
The Hymns of the Regions
→