Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Hymns of the Regions
Śrīmad Bhāgavatam
›
Canto 5
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
तथा
च
भद्रश्रवा
नाम
धर्मसुतस्तत्कुलपतयः
पुरुषा
भद्राश्ववर्षे
साक्षाद्भगवतो
वासुदेवस्य
प्रियां
तनुं
धर्ममयीं
हयशीर्षाभिधानां
परमेण
समाधिना
सन्निधाप्येदमभिगृणन्त
उपधावन्ति
2
▾
Meaning
Keep
ॐ
नमो
भगवते
धर्मायात्मविशोधनाय
नम
इति
3
▾
Meaning
Keep
अहो
विचित्रं
भगवद्विचेष्टितं
घ्नन्तं
जनोऽयं
हि
मिषन्न
पश्यति
।
ध्यायन्नसद्यर्हि
विकर्म
सेवितुं
निर्हृत्य
पुत्रं
पितरं
जिजीविषति
4
▾
Meaning
Keep
वदन्ति
विश्वं
कवयः
स्म
नश्वरं
पश्यन्ति
चाध्यात्मविदो
विपश्चितः
।
तथापि
मुह्यन्ति
तवाज
मायया
सुविस्मितं
कृत्यमजं
नतोऽस्मि
तम्
5
▾
Meaning
Keep
विश्वोद्भवस्थाननिरोधकर्म
ते
ह्यकर्तुरङ्गीकृतमप्यपावृतः
।
युक्तं
न
चित्रं
त्वयि
कार्यकारणे
सर्वात्मनि
व्यतिरिक्ते
च
वस्तुतः
6
▾
Meaning
Keep
वेदान्
युगान्ते
तमसा
तिरस्कृतान्
रसातलाद्यो
नृतुरङ्गविग्रहः
।
प्रत्याददे
वै
कवयेऽभियाचते
तस्मै
नमस्तेऽवितथेहिताय
इति
7
▾
Meaning
Keep
हरिवर्षे
चापि
भगवान्
नरहरिरूपेणास्ते
तद्रूपग्रहणनिमित्तमुत्तरत्राभिधास्ये
तद्दयितं
रूपं
महापुरुषगुणभाजनो
महाभागवतो
दैत्यदानवकुलतीर्थीकरणशीलाचरितः
प्रह्लादोऽव्यवधानानन्यभक्तियोगेन
सह
तद्वर्षपुरुषैरुपास्ते
इदं
चोदाहरति
8
▾
Meaning
Keep
ॐ
नमो
भगवते
नरसिंहाय
नमस्तेजस्तेजसेआविराविर्भव
वज्रनख
वज्रदंष्ट्र
कर्माशयान्
रन्धय
रन्धय
तमो
ग्रस
ग्रस
ॐ
स्वाहा
।
अभयम
भयमात्मनि
भूयिष्ठा
ॐ
क्ष्रौम्
9
▾
Meaning
Keep
स्वस्त्यस्तु
विश्वस्य
खलः
प्रसीदतां
ध्यायन्तु
भूतानि
शिवं
मिथो
धिया
।
मनश्च
भद्रं
भजतादधोक्षजे
आवेश्यतां
नो
मतिरप्यहैतुकी
10
▾
Meaning
Keep
मागारदारात्मजवित्तबन्धुषु
सङ्गो
यदि
स्याद्भगवत्प्रियेषु
नः
।
यः
प्राणवृत्त्या
परितुष्ट
आत्मवान्
सिद्ध्यत्यदूरान्न
तथेन्द्रियप्रियः
11
▾
Meaning
Keep
यत्सङ्गलब्धं
निजवीर्यवैभवं
तीर्थं
मुहुः
संस्पृशतां
हि
मानसम्
।
हरत्यजोऽन्तःश्रुतिभिर्गतोऽङ्गजं
को
वै
न
सेवेत
मुकुन्दविक्रमम्
12
▾
Meaning
Keep
यस्यास्ति
भक्तिर्भगवत्यकिञ्चना
सर्वैर्गुणैस्तत्र
समासते
सुराः
।
हरावभक्तस्य
कुतो
महद्गुणा
मनोरथेनासति
धावतो
बहिः
13
▾
Meaning
Keep
हरिर्हि
साक्षाद्भगवान्
शरीरिणा-
मात्मा
झषाणामिव
तोयमीप्सितम्
।
हित्वा
महांस्तं
यदि
सज्जते
गृहे
तदा
महत्त्वं
वयसा
दम्पतीनाम्
14
▾
Meaning
Keep
तस्माद्रजोरागविषादमन्यु-
मानस्पृहाभयदैन्याधिमूलम्
।
हित्वा
गृहं
संसृतिचक्रवालं
नृसिंहपादं
भजताकुतोभयमिति
15
▾
Meaning
Keep
केतुमालेऽपि
भगवान्
कामदेवस्वरूपेण
लक्ष्म्याः
प्रियचिकीर्षया
प्रजापतेर्दुहितॄणां
पुत्राणां
तद्वर्षपतीनां
पुरुषायुषाहोरात्रपरिसङ्ख्यानानां
यासां
गर्भा
महापुरुष-
महास्त्रतेजसोद्वेजितमनसां
विध्वस्ता
व्यसवः
संवत्सरान्ते
विनिपतन्ति
16
▾
Meaning
Keep
अतीव
सुललितगतिविलासविलसितरुचिरहास-
लेशावलोकलीलया
किञ्चिदुत्तम्भितसुन्दरभ्रूमण्डल-
सुभगवदनारविन्दश्रिया
रमां
रमयन्निन्द्रियाणि
रमयते
17
▾
Meaning
Keep
तद्भगवतो
मायामयं
रूपं
परमसमाधियोगेन
रमादेवी
संवत्सरस्य
रात्रिषु
प्रजापतेर्दुहितृभि-
रुपेताहःसु
च
तद्भर्तृभिरुपास्ते
इदं
चोदाहरति
18
▾
Meaning
Keep
ॐ
ह्रां
ह्रीं
ह्रूं
ॐ
नमो
भगवते
हृषीकेशाय
सर्वगुणविशेषैर्विलक्षितात्मने
आकूतीनां
चित्तीनां
चेतसां
विशेषाणां
चाधिपतये
षोडशकलायच्छन्दो
मयायान्नमयायामृतमयाय
सर्वमयाय
सहसे
ओजसे
बलाय
कान्ताय
कामाय
नमस्ते
उभयत्र
भूयात्
19
▾
Meaning
Keep
स्त्रियो
व्रतैस्त्वा
हृषीकेश्वरं
स्वतो
ह्याराध्य
लोके
पतिमाशासतेऽन्यम्
।
तासां
न
ते
वै
परिपान्त्यपत्यं
प्रियं
धनायूंषि
यतोऽस्वतन्त्राः
20
▾
Meaning
Keep
स
वै
पतिः
स्यादकुतोभयः
स्वयं
समन्ततः
पाति
भयातुरं
जनम्
।
स
एक
एवेतरथा
मिथो
भयं
नैवात्मलाभादधि
मन्यते
परम्
21
▾
Meaning
Keep
या
तस्य
ते
पादसरोरुहार्हणं
निकामयेत्साखिलकामलम्पटा
।
तदेव
रासीप्सितमीप्सितोऽर्चितो
यद्भग्नयाच्ञा
भगवन्
प्रतप्यते
22
▾
Meaning
Keep
मत्प्राप्तयेऽजेशसुरासुरादय-
स्तप्यन्त
उग्रं
तप
ऐन्द्रिये
धियः
।
ऋते
भवत्पादपरायणान्न
मां
विन्दन्त्यहं
त्वद्धृदया
यतोऽजित
23
▾
Meaning
Keep
स
त्वं
ममाप्यच्युत
शीर्ष्णि
वन्दितं
कराम्बुजं
यत्त्वदधायि
सात्वताम्
।
बिभर्षि
मां
लक्ष्म
वरेण्य
मायया
क
ईश्वरस्येहितमूहितुं
विभुरिति
24
▾
Meaning
Keep
रम्यके
च
भगवतः
प्रियतमं
मात्स्यमवताररूपं
तद्वर्षपुरुषस्य
मनोः
प्राक्प्रदर्शितं
स
इदानीमपि
महता
भक्तियोगेनाराधयतीदं
चोदाहरति
25
▾
Meaning
Keep
ॐ
नमो
भगवते
मुख्यतमाय
नमः
सत्त्वायप्राणायौजसे
सहसे
बलाय
महामत्स्याय
नम
इति
26
▾
Meaning
Keep
अन्तर्बहिश्चाखिललोकपालकै-
रदृष्टरूपो
विचरस्युरुस्वनः
।
स
ईश्वरस्त्वं
य
इदं
वशेऽनय-
न्नाम्ना
यथा
दारुमयीं
नरः
स्त्रियम्
27
▾
Meaning
Keep
यं
लोकपालाः
किल
मत्सरज्वरा
हित्वा
यतन्तोऽपि
पृथक्समेत्य
च
।
पातुं
न
शेकुर्द्विपदश्चतुष्पदः
सरीसृपं
स्थाणु
यदत्र
दृश्यते
28
▾
Meaning
Keep
भवान्युगान्
तार्णव
ऊर्मिमालिनि
क्षोणीमिमामोषधिवीरुधां
निधिम्
।
मया
सहोरु
क्रमतेऽज
ओजसा
तस्मै
जगत्प्राणगणात्मने
नम
इति
29
▾
Meaning
Keep
हिरण्मयेऽपि
भगवान्
निवसति
कूर्मतनुं
बिभ्राणस्तस्य
तत्प्रियतमां
तनुमर्यमा
सह
वर्षपुरुषैः
पितृगणाधिपतिरुपधावति
मन्त्रमिमं
चानुजपति
30
▾
Meaning
Keep
ॐ
नमो
भगवते
अकूपाराय
सर्वसत्त्वगुणविशेषणायानुपलक्षितस्थानाय
नमो
वर्ष्मणे
नमो
भूम्ने
नमो
नमोऽवस्थानाय
नमस्ते
31
▾
Meaning
Keep
यद्रूपमेतन्निजमाययार्पितमर्थस्वरूपं
बहुरूपरूपितम्
।
संख्या
न
यस्यास्त्ययथोपलम्भनात्तस्मै
नमस्तेऽव्यपदेशरूपिणे
32
▾
Meaning
Keep
जरायुजं
स्वेदजमण्डजोद्भिदं
चराचरं
देवर्षिपितृभूतमैन्द्रियम्
।
द्यौः
खं
क्षितिः
शैलसरित्समुद्र-
द्वीपग्रहर्क्षेत्यभिधेय
एकः
33
▾
Meaning
Keep
यस्मिन्नसङ्ख्येयविशेषनामरूपाकृतौ
कविभिः
कल्पितेयम्
।
संख्या
यया
तत्त्वदृशापनीयते
तस्मै
नमः
सांख्यनिदर्शनाय
ते
इति
34
▾
Meaning
Keep
उत्तरेषु
च
कुरुषु
भगवान्
यज्ञपुरुषः
कृतवराहरूप
आस्ते
तं
तु
देवी
हैषा
भूः
सह
कुरुभिरस्खलितभक्तियोगेनोपधावति
इमां
च
परमामुपनिषदमावर्तयति
35
▾
Meaning
Keep
ॐ
नमो
भगवतेमन्त्रतत्त्वलिङ्गाय
यज्ञक्रतवे
महाध्वरावयवाय
महापुरुषाय
नमः
कर्मशुक्लाय
त्रियुगाय
नमस्ते
36
▾
Meaning
Keep
यस्य
स्वरूपं
कवयो
विपश्चितो
गुणेषु
दारुष्विव
जातवेदसम्
।
मथ्नन्ति
मथ्ना
मनसा
दिदृक्षवो
गूढं
क्रियार्थैर्नम
ईरितात्मने
37
▾
Meaning
Keep
द्रव्यक्रियाहेत्वयनेशकर्तृभि-
र्मायागुणैर्वस्तुनिरीक्षितात्मने
।
अन्वीक्षयाङ्गातिशयात्मबुद्धिभि-
र्निरस्तमायाकृतये
नमो
नमः
38
▾
Meaning
Keep
करोति
विश्वस्थितिसंयमोदयं
यस्येप्सितं
नेप्सितमीक्षितुर्गुणैः
।
माया
यथायो
भ्रमते
तदाश्रयं
ग्राव्णो
नमस्ते
गुणकर्मसाक्षिणे
39
▾
Meaning
Keep
प्रमथ्य
दैत्यं
प्रतिवारणं
मृधे
यो
मां
रसाया
जगदादिसूकरः
।
कृत्वाग्रदंष्ट्रे
निरगादुदन्वतः
क्रीडन्निवेभः
प्रणतास्मि
तं
विभुमिति
Previous
←
The Coming Down of the Ganga, and Siva's Praise
Next
Kimpurusa and Bharata
→