।
उद्यानानि चातितरां मन इन्द्रियानन्दिभिःकुसुमफलस्तबकसुभगकिसलयावनतरुचिर-विटपविटपिनां लताङ्गालिङ्गितानां श्रीभिःसमिथुनविविधविहङ्गमजलाशयानाममल-जलपूर्णानां झषकुलोल्लङ्घनक्षुभितनीरनीरज-कुमुदकुवलयकह्लारनीलोत्पललोहितशतपत्रादिवनेषु कृतनिकेतनानामेकविहाराकुलमधुर-विविधस्वनादिभिरिन्द्रियोत्सवैरमरलोकश्रिय-मतिशयितानि
नो एवैतत्साक्षात्कारो भूमिदानस्य यत्तद्भगवत्यशेष-जीवनिकायानां जीवभूतात्मभूते परमात्मनि वासुदेवेतीर्थतमे पात्र उपपन्ने परया श्रद्धया परमादरसमाहित-मनसा सम्प्रतिपादितस्य साक्षादपवर्गद्वारस्ययद्बिलनिलयैश्वर्यम्