Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Dolphin of Lights
Śrīmad Bhāgavatam
›
Canto 5
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथ
तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो
यत्तद्विष्णोः
परमं
पदमभिवदन्ति
यत्र
ह
महा-
भागवतो
ध्रुव
औत्तानपादिरग्निनेन्द्रेण
प्रजापतिना
कश्यपेन
धर्मेण
च
समकालयुग्भिः
सबहुमानं
दक्षिणतः
क्रियमाण
इदानीमपि
कल्पजीविना-
माजीव्य
उपास्ते
तस्येहानुभाव
उपवर्णितः
2
▾
Meaning
Keep
स
हि
सर्वेषां
ज्योतिर्गणानां
ग्रहनक्षत्रादीना-
मनिमिषेणाव्यक्तरंहसा
भगवता
कालेन
भ्राम्यमाणानां
स्थाणुरिवावष्टम्भ
ईश्वरेण
विहितः
शश्वदवभासते
3
▾
Meaning
Keep
यथा
मेढीस्तम्भ
आक्रमणपशवः
संयोजिता-
स्त्रिभिस्त्रिभिः
सवनैर्यथास्थानं
मण्डलानि
चरन्त्येवं
भगणा
ग्रहादय
एतस्मिन्नन्तर्बहिर्योगेन
कालचक्र
आयोजिता
ध्रुवमेवावलम्ब्य
वायुनोदीर्यमाणा
आकल्पान्तं
परिचङ्क्रमन्ति
नभसि
यथा
मेघाः
श्येनादयो
वायुवशाः
कर्मसारथयः
परिवर्तन्ते
एवं
ज्योतिर्गणाः
प्रकृतिपुरुषसंयोगानुगृहीताः
कर्मनिर्मित-
गतयो
भुवि
न
पतन्ति
4
▾
Meaning
Keep
केचनैतज्ज्योतिरनीकं
शिशुमारसंस्थानेन
भगवतो
वासुदेवस्य
योगधारणायामनुवर्णयन्ति
5
▾
Meaning
Keep
यस्य
पुच्छाग्रेऽवाक्
शिरसः
कुण्डलीभूतदेहस्य
ध्रुव
उपकल्पितस्तस्य
लाङ्गूले
प्रजापतिरग्निरिन्द्रो
धर्म
इति
पुच्छमूले
धाता
विधाता
च
कट्यां
सप्तर्षयः
।
तस्य
दक्षिणावर्तकुण्डली
भूतशरीरस्य
यान्युदगयनानि
दक्षिणपार्श्वे
तु
नक्षत्राण्युपकल्पयन्ति
दक्षिणायनानि
तु
सव्ये
।
यथा
शिशुमारस्य
कुण्डलाभोगसंनिवेशस्य
पार्श्वयोरुभयोरप्यवयवाः
समसंख्या
भवन्ति
।
पृष्ठे
त्वजवीथी
आकाशगङ्गा
चोदरतः
6
▾
Meaning
Keep
पुनर्वसुपुष्यौ
दक्षिणवामयोः
श्रोण्योरार्द्राश्लेषे
च
दक्षिणवामयोः
पश्चिमयोःपादयोरभिजिदुत्तराषाढे
दक्षिणवामयोर्नासिकयोर्यथासंख्यं
श्रवणपूर्वाषाढे
दक्षिणवामयोर्लोचनयोर्धनिष्ठा
मूलं
च
दक्षिणवामयोः
कर्णयोर्मघादीन्यष्ट
नक्षत्राणि
दक्षिणायनानि
वामपार्श्ववङ्क्रिषु
युञ्जीत
तथैव
मृगशीर्षादीन्युदगयनानि
दक्षिणपार्श्ववङ्क्रिषु
प्रातिलोम्येन
प्रयुञ्जीत
शतभिषाज्येष्ठे
स्कन्धयोर्दक्षिणवामयोर्न्यसेत्
7
▾
Meaning
Keep
उत्तराहनावगस्तिरधराहनौ
यमो
मुखेषु
चाङ्गारकः
शनैश्चर
उपस्थे
बृहस्पतिः
ककुदि
वक्षस्यादित्यो
हृदये
नारायणो
मनसि
चन्द्रो
नाभ्यामुशना
स्तनयोरश्विनौ
बुधः
प्राणापानयो
राहुर्गले
केतवः
सर्वाङ्गेषु
रोमसु
सर्वे
तारागणाः
8
▾
Meaning
Keep
एतदु
हैव
भगवतो
विष्णोः
सर्वदेवतामयं
रूपमहरहः
सन्ध्यायां
प्रयतो
वाग्यतो
निरीक्षमाण
उपतिष्ठेत
नमो
ज्योतिर्लोकाय
कालायनायानिमिषां
पतये
महापुरुषाया-
भिधीमहीति
9
▾
Meaning
Keep
ग्रहर्क्षतारामयमाधिदैविकं
पापापहं
मन्त्रकृतां
त्रिकालम्
।
नमस्यतः
स्मरतो
वा
त्रिकालं
नश्येत
तत्कालजमाशु
पापम्
Previous
←
How the Lights Move
Next
The Hollows Below the Earth
→