Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Hells and Who Goes There
Śrīmad Bhāgavatam
›
Canto 5
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
महर्ष
एतद्वैचित्र्यं
लोकस्य
कथमिति
2
▾
Meaning
Keep
त्रिगुणत्वात्कर्तुः
श्रद्धया
कर्मगतयः
पृथग्विधाः
सर्वा
एव
सर्वस्य
तारतम्येन
भवन्ति
3
▾
Meaning
Keep
अथेदानीं
प्रतिषिद्धलक्षणस्याधर्मस्य
तथैव
कर्तुः
श्रद्धाया
वैसादृश्यात्कर्मफलं
विसदृशं
भवति
या
ह्यनाद्यविद्यया
कृतकामानां
तत्परिणामलक्षणाः
सृतयः
सहस्रशः
प्रवृत्तास्तासां
प्राचुर्येणा-
नुवर्णयिष्यामः
4
▾
Meaning
Keep
नरका
नाम
भगवन्
किं
देशविशेषा
अथवा
बहिस्त्रिलोक्या
आहोस्विदन्तराल
इति
5
▾
Meaning
Keep
अन्तराल
एव
त्रिजगत्यास्तु
दिशि
दक्षिणस्या-
मधस्ताद्भूमेरुपरिष्टाच्च
जलाद्यस्यामग्निष्वात्तादयः
पितृगणा
दिशि
स्वानां
गोत्राणां
परमेण
समाधिना
सत्या
एवाशिष
आशासाना
निवसन्ति
6
▾
Meaning
Keep
यत्र
ह
वाव
भगवान्
पितृराजो
वैवस्वतः
स्वविषयं
प्रापितेषु
स्वपुरुषैर्जन्तुषु
सम्परेतेषु
यथा
कर्मावद्यं
दोषमेवानुल्लङ्घितभगवच्छासनः
सगणो
दमं
धारयति
7
▾
Meaning
Keep
तत्र
हैके
नरकानेकविंशतिं
गणयन्ति
अथ
तांस्ते
राजन्
नामरूपलक्षणतोऽनुक्रमिष्यामस्तामिस्रो-
ऽन्धतामिस्रो
रौरवो
महारौरवः
कुम्भीपाकः
कालसूत्रमसिपत्रवनं
सूकरमुखमन्धकूपः
कृमिभोजनः
सन्दंशस्तप्तसूर्मिर्वज्रकण्टक-
शाल्मली
वैतरणी
पूयोदः
प्राणरोधो
विशसनं
लालाभक्षः
सारमेयादनमवीचिरयःपानमिति
किञ्च
क्षारकर्दमो
रक्षोगणभोजनः
शूलप्रोतो
दन्दशूकोऽवटनिरोधनः
पर्यावर्तनः
सूचीमुखमि-
त्यष्टाविंशतिर्नरका
विविधयातनाभूमयः
8
▾
Meaning
Keep
तत्र
यस्तु
परवित्तापत्यकलत्राण्यपहरति
स
हि
कालपाशबद्धो
यमपुरुषैरतिभयानकैस्तामिस्रे
नरके
बलान्निपात्यते
अनशनानुदपानदण्ड-
ताडनसन्तर्जनादिभिर्यातनाभिर्यात्यमानो
जन्तुर्यत्र
कश्मलमासादित
एकदैव
मूर्च्छामुपयाति
तामिस्रप्राये
9
▾
Meaning
Keep
एवमेवान्धतामिस्रे
यस्तु
वञ्चयित्वा
पुरुषं
दारादी-
नुपयुङ्क्ते
यत्र
शरीरी
निपात्यमानो
यातनास्थो
वेदनया
नष्टमतिर्नष्टदृष्टिश्च
भवति
यथा
वनस्पति-
र्वृश्च्यमानमूलस्तस्मादन्धतामिस्रं
तमुपदिशन्ति
10
▾
Meaning
Keep
यस्त्विह
वा
एतदहमिति
ममेदमिति
भूतद्रोहेण
केवलं
स्वकुटुम्बमेवानुदिनं
प्रपुष्णाति
स
तदिह
विहाय
स्वयमेव
तदशुभेन
रौरवे
निपतति
11
▾
Meaning
Keep
ये
त्विह
यथैवामुना
विहिंसिता
जन्तवः
परत्र
यमयातनामुपगतं
त
एव
रुरवो
भूत्वा
तथा
तमेव
विहिंसन्ति
तस्माद्रौरवमित्याहू
रुरुरिति
सर्पादतिक्रूरसत्त्वस्यापदेशः
12
▾
Meaning
Keep
एवमेव
महारौरवो
यत्र
निपतितं
पुरुषं
क्रव्यादा
नाम
रुरवस्तं
क्रव्येण
घातयन्ति
यः
केवलं
देहम्भरः
13
▾
Meaning
Keep
यस्त्विह
वा
उग्रः
पशून्
पक्षिणो
वा
प्राणत
उपरन्धयति
तमपकरुणं
पुरुषादैरपि
विगर्हितममुत्र
यमानुचराः
कुम्भीपाके
तप्ततैले
उपरन्धयन्ति
14
▾
Meaning
Keep
यस्त्विह
पितृविप्रब्रह्मध्रुक्
स
कालसूत्रसंज्ञके
नरके
अयुतयोजनपरिमण्डले
ताम्रमये
तप्तखले
उपर्यधस्तादग्न्यर्काभ्यामतितप्यमानेऽभिनिवेशितः
क्षुत्पिपासाभ्यां
च
दह्यमानान्तर्बहिःशरीर
आस्ते
शेते
चेष्टतेऽवतिष्ठति
परिधावति
च
यावन्ति
पशुरोमाणि
तावद्वर्षसहस्राणि
15
▾
Meaning
Keep
यस्त्विह
वै
निजवेदपथादनापद्यपगतः
पाखण्डं
चोपगतस्तमसिपत्रवनं
प्रवेश्य
कशया
प्रहरन्ति
तत्र
हासावितस्ततो
धावमान
उभयतो
धारै-
स्तालवनासिपत्रैश्छिद्यमानसर्वाङ्गो
हा
हतो-
ऽस्मीति
परमया
वेदनया
मूर्च्छितः
पदे
पदे
निपतति
स्वधर्महा
पाखण्डानुगतं
फलं
भुङ्क्ते
16
▾
Meaning
Keep
यस्त्विह
वै
राजा
राजपुरुषो
वा
अदण्ड्ये
दण्डं
प्रणयति
ब्राह्मणे
वा
शरीरदण्डं
स
पापीयान्
नरकेऽमुत्र
सूकरमुखे
निपतति
तत्रातिबलै-
र्विनिष्पिष्यमाणावयवो
यथैवेहेक्षुखण्ड
आर्तस्वरेण
स्वनयन्
क्वचिन्मूर्च्छितः
कश्मलमुपगतो
यथैवेहादृष्टदोषा
उपरुद्धाः
17
▾
Meaning
Keep
यस्त्विह
वै
भूतानामीश्वरोपकल्पितवृत्तीना-
मविविक्तपरव्यथानां
स्वयं
पुरुषोपकल्पित-
वृत्तिर्विविक्तपरव्यथो
व्यथामाचरति
स
परत्रान्धकूपे
तदभिद्रोहेण
निपतति
तत्र
हासौ
तैर्जन्तुभिः
पशुमृगपक्षिसरीसृपैर्मशकयूका-
मत्कुणमक्षिकादिभिर्ये
के
चाभिद्रुग्धास्तैः
सर्वतोऽभिद्रुह्यमाणस्तमसि
विहतनिद्रानिर्वृति-
रलब्धावस्थानः
परिक्रामति
यथा
कुशरीरे
जीवः
18
▾
Meaning
Keep
यस्त्विह
वा
असंविभज्याश्नाति
यत्किञ्चनो-
पनतमनिर्मितपञ्चयज्ञो
वायससंस्तुतः
स
परत्र
कृमिभोजने
नरकाधमे
निपतति
तत्र
शतसहस्रयोजने
कृमिकुण्डे
कृमिभूतः
स्वयं
कृमिभिरेव
भक्ष्यमाणः
कृमिभोजनो
यावत्त-
दप्रत्ताप्रहूतादोऽनिर्वेशमात्मानं
यातयते
19
▾
Meaning
Keep
यस्त्विह
वै
स्तेयेन
बलाद्वा
हिरण्यरत्नादीनि
ब्राह्मणस्य
वापहरत्यन्यस्य
वानापदि
पुरुष-
स्तममुत्र
राजन्
यमपुरुषा
अयस्मयैरग्निपिण्डैः
सन्दंशैस्त्वचि
निष्कुषन्ति
20
▾
Meaning
Keep
यस्त्विह
वा
अगम्यां
स्त्रियमगम्यं
वा
पुरुषं
योषिदभिगच्छति
तावमुत्र
कशया
ताडयन्त-
स्तिग्मया
सूर्म्या
लोहमय्या
पुरुषमालिङ्गयन्ति
स्त्रियं
च
पुरुषरूपया
सूर्म्या
21
▾
Meaning
Keep
यस्त्विह
वै
सर्वाभिगमस्तममुत्र
निरये
वर्तमानं
वज्रकण्टकशाल्मलीमारोप्य
निष्कर्षन्ति
22
▾
Meaning
Keep
ये
त्विह
वै
राजन्या
राजपुरुषा
वा
अपाखण्डा
धर्मसेतून्
भिन्दन्ति
ते
सम्परेत्य
वैतरण्यां
निपतन्ति
भिन्नमर्यादास्तस्यां
निरयपरिखा-
भूतायां
नद्यां
यादोगणैरितस्ततो
भक्ष्यमाणा
आत्मना
न
वियुज्यमानाश्चासुभिरुह्यमानाः
स्वाघेन
कर्मपाकमनुस्मरन्तो
विण्मूत्रपूयशोणित-
केशनखास्थिमेदोमांसवसावाहिन्यामुपतप्यन्ते
23
▾
Meaning
Keep
ये
त्विह
वै
वृषलीपतयो
नष्टशौचाचारनियमा-
स्त्यक्तलज्जाः
पशुचर्यां
चरन्ति
ते
चापि
प्रेत्य
पूयविण्मूत्रश्लेष्ममलापूर्णार्णवे
निपतन्ति
तदेवातिबीभत्सितमश्नन्ति
24
▾
Meaning
Keep
ये
त्विह
वै
श्वगर्दभपतयो
ब्राह्मणादयो
मृगयाविहारा
अतीर्थे
च
मृगान्निघ्नन्ति
तानपि
सम्परेताँल्लक्ष्यभूतान्
यमपुरुषा
इषुभिर्विध्यन्ति
25
▾
Meaning
Keep
ये
त्विह
वै
दाम्भिका
दम्भयज्ञेषु
पशून्
विशसन्ति
तानमुष्मिन्
लोके
वैशसे
नरके
पतितान्
निरयपतयो
यातयित्वा
विशसन्ति
26
▾
Meaning
Keep
यस्त्विह
वै
सवर्णां
भार्यां
द्विजो
रेतः
पाययति
काममोहितस्तं
पापकृतममुत्र
रेतःकुल्यायां
पातयित्वा
रेतः
सम्पाययन्ति
27
▾
Meaning
Keep
ये
त्विह
वै
दस्यवोऽग्निदा
गरदा
ग्रामान्
सार्थान्
वा
विलुम्पन्ति
राजानो
राजभटा
वा
तांश्चापि
हि
परेत्य
यमदूता
वज्रदंष्ट्राः
श्वानः
सप्तशतानि
विंशतिश्च
सरभसं
खादन्ति
28
▾
Meaning
Keep
यस्त्विह
वा
अनृतं
वदति
साक्ष्ये
द्रव्यविनिमये
दाने
वा
कथञ्चित्स
वै
प्रेत्य
नरकेऽवीचिमत्यधःशिरा
निरवकाशे
योजनशतोच्छ्रायाद्गिरिमूर्ध्नः
सम्पात्यते
यत्र
जलमिव
स्थलमश्मपृष्ठमवभासते
तदवीचिम-
त्तिलशो
विशीर्यमाणशरीरो
न
म्रियमाणः
पुनरारोपितो
निपतति
29
▾
Meaning
Keep
यस्त्विह
वै
विप्रो
राजन्यो
वैश्यो
वा
सोमपीथस्तत्कलत्रं
वा
सुरां
व्रतस्थोऽपि
वा
पिबति
प्रमादतस्तेषां
निरयं
नीतानामुरसि
पदाऽऽक्रम्यास्ये
वह्निना
द्रवमाणं
कार्ष्णायसं
निषिञ्चन्ति
30
▾
Meaning
Keep
अथ
च
यस्त्विह
वा
आत्मसम्भावनेन
स्वयमधमो
जन्मतपोविद्याचारवर्णाश्रमवतो
वरीयसो
न
बहुमन्येत
स
मृतक
एव
मृत्वा
क्षारकर्दमे
निरये-
ऽवाक्शिरा
निपातितो
दुरन्ता
यातना
ह्यश्नुते
31
▾
Meaning
Keep
ये
त्विह
वै
पुरुषाः
पुरुषमेधेन
यजन्ते
याश्च
स्त्रियो
नृपशून्
खादन्ति
तांश्च
ते
पशव
इव
निहता
यमसदने
यातयन्तो
रक्षोगणाः
सौनिका
इव
स्वधितिनावदाया-
सृक्
पिबन्ति
नृत्यन्ति
च
गायन्ति
च
हृष्यमाणा
यथेह
पुरुषादाः
32
▾
Meaning
Keep
ये
त्विह
वा
अनागसोऽरण्ये
ग्रामे
वा
वैश्रम्भकैरुपसृता-
नुपविश्रम्भय्य
जिजीविषून्
शूलसूत्रादिषूपप्रोतान्
क्रीडनकतया
यातयन्ति
तेऽपि
च
प्रेत्य
यमयातनासु
शूलादिषु
प्रोतात्मानः
क्षुत्तृड्भ्यां
चाभिहताः
कङ्कवटादिभि-
श्चेतस्ततस्तिग्मतुण्डैराहन्यमाना
आत्मशमलं
स्मरन्ति
33
▾
Meaning
Keep
ये
त्विह
वै
भूतान्युद्वेजयन्ति
नरा
उल्बणस्वभावा
यथा
दन्दशूकास्तेऽपि
प्रेत्य
नरके
दन्दशूकाख्ये
निपतन्ति
यत्र
नृप
दन्दशूकाः
पञ्चमुखाः
सप्तमुखा
उपसृत्य
ग्रसन्ति
यथा
बिलेशयान्
34
▾
Meaning
Keep
ये
त्विह
वा
अन्धावटकुसूलगुहादिषु
भूतानि
निरुन्धन्ति
तथामुत्र
तेष्वेवोपवेश्य
सगरेण
वह्निना
धूमेन
निरुन्धन्ति
35
▾
Meaning
Keep
यस्त्विह
वा
अतिथीनभ्यागतान्
वा
गृहपतिरसकृ-
दुपगतमन्युर्दिधक्षुरिव
पापेन
चक्षुषा
निरीक्षते
तस्य
चापि
निरये
पापदृष्टेरक्षिणी
वज्रतुण्डा
गृध्राः
कङ्ककाकवटादयः
प्रसह्योरुबलादुत्पाटयन्ति
36
▾
Meaning
Keep
यस्त्विह
वा
आढ्याभिमतिरहङ्कृतिस्तिर्यक्प्रेक्षणः
सर्वतोऽभिविशङ्की
अर्थव्ययनाशचिन्तया
परिशुष्यमाणहृदयवदनो
निर्वृतिमनवगतो
ग्रह
इवार्थमभिरक्षति
स
चापि
प्रेत्य
तदुत्पादनोत्कर्षण
संरक्षणशमलग्रहः
सूचीमुखे
नरके
निपतति
यत्र
ह
वित्तग्रहं
पापपुरुषं
धर्मराजपुरुषा
वायका
इव
सर्वतोऽङ्गेषु
सूत्रैः
परिवयन्ति
37
▾
Meaning
Keep
एवंविधा
नरका
यमालये
सन्ति
शतशः
सहस्रशस्तेषु
सर्वेषु
च
सर्व
एवाधर्मवर्तिनो
ये
केचिदिहोदिता
अनुदिताश्चावनिपते
पर्यायेण
विशन्ति
तथैव
धर्मानुवर्तिन
इतरत्र
इह
तु
पुनर्भवे
त
उभयशेषाभ्यां
निविशन्ति
38
▾
Meaning
Keep
निवृत्तिलक्षणमार्ग
आदावेव
व्याख्यातः
एतावानेवा-
ण्डकोशो
यश्चतुर्दशधा
पुराणेषु
विकल्पित
उपगीयते
यत्तद्भगवतो
नारायणस्य
साक्षान्महापुरुषस्य
स्थविष्ठं
रूपमात्ममायागुणमयमनुवर्णितमादृतः
पठति
शृणोति
श्रावयति
स
उपगेयं
भगवतः
परमात्मनोऽग्राह्यमपि
श्रद्धाभक्तिविशुद्धबुद्धिर्वेद
39
▾
Meaning
Keep
श्रुत्वा
स्थूलं
तथा
सूक्ष्मं
रूपं
भगवतो
यतिः
।
स्थूले
निर्जितमात्मानं
शनैः
सूक्ष्मं
धिया
नयेदिति
40
▾
Meaning
Keep
भूद्वीपवर्षसरिदद्रिनभःसमुद्र-
पातालदिङ्नरकभागणलोकसंस्था
।
गीता
मया
तव
नृपाद्भुतमीश्वरस्य
स्थूलं
वपुः
सकलजीवनिकायधाम
Previous
←
Sankarsana at the Root
Next
What Atonement Is Worth
→