Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · What Atonement Is Worth
Śrīmad Bhāgavatam
›
Canto 6
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
निवृत्तिमार्गः
कथित
आदौ
भगवता
यथा
।
क्रमयोगोपलब्धेन
ब्रह्मणा
यदसंसृतिः
2
▾
Meaning
Keep
प्रवृत्तिलक्षणश्चैव
त्रैगुण्यविषयो
मुने
।
योऽसावलीनप्रकृतेर्गुणसर्गः
पुनः
पुनः
3
▾
Meaning
Keep
अधर्मलक्षणा
नाना
नरकाश्चानुवर्णिताः
।
मन्वन्तरश्च
व्याख्यात
आद्यः
स्वायम्भुवो
यतः
4
▾
Meaning
Keep
प्रियव्रतोत्तानपदोर्वंशस्तच्चरितानि
च
।
द्वीपवर्षसमुद्राद्रिनद्युद्यानवनस्पतीन्
5
▾
Meaning
Keep
धरामण्डलसंस्थानं
भागलक्षणमानतः
।
ज्योतिषां
विवराणां
च
यथेदमसृजद्विभुः
6
▾
Meaning
Keep
अधुनेह
महाभाग
यथैव
नरकान्नरः
।
नानोग्रयातनान्
नेयात्तन्मे
व्याख्यातुमर्हसि
7
▾
Meaning
Keep
न
चेदिहैवापचितिं
यथांहसः
कृतस्य
कुर्यान्मन
उक्तपाणिभिः
।
ध्रुवं
स
वै
प्रेत्य
नरकानुपैति
ये
कीर्तिता
मे
भवतस्तिग्मयातनाः
8
▾
Meaning
Keep
तस्मात्पुरैवाश्विह
पापनिष्कृतौ
यतेत
मृत्योरविपद्यताऽऽत्मना
।
दोषस्य
दृष्ट्वा
गुरुलाघवं
यथा
भिषक्
चिकित्सेत
रुजां
निदानवित्
9
▾
Meaning
Keep
दृष्टश्रुताभ्यां
यत्पापं
जानन्नप्यात्मनोऽहितम्
।
करोति
भूयो
विवशः
प्रायश्चित्तमथो
कथम्
10
▾
Meaning
Keep
क्वचिन्निवर्ततेऽभद्रात्क्वचिच्चरति
तत्पुनः
।
प्रायश्चित्तमथोऽपार्थं
मन्ये
कुञ्जरशौचवत्
11
▾
Meaning
Keep
कर्मणा
कर्मनिर्हारो
न
ह्यात्यन्तिक
इष्यते
।
अविद्वदधिकारित्वात्प्रायश्चित्तं
विमर्शनम्
12
▾
Meaning
Keep
नाश्नतः
पथ्यमेवान्नं
व्याधयोऽभिभवन्ति
हि
।
एवं
नियमकृद्राजन्
शनैः
क्षेमाय
कल्पते
13
▾
Meaning
Keep
तपसा
ब्रह्मचर्येण
शमेन
च
दमेन
च
।
त्यागेन
सत्यशौचाभ्यां
यमेन
नियमेन
वा
14
▾
Meaning
Keep
देहवाग्बुद्धिजं
धीरा
धर्मज्ञाः
श्रद्धयान्विताः
।
क्षिपन्त्यघं
महदपि
वेणुगुल्ममिवानलः
15
▾
Meaning
Keep
केचित्केवलया
भक्त्या
वासुदेवपरायणाः
।
अघं
धुन्वन्ति
कार्त्स्न्येन
नीहारमिव
भास्करः
16
▾
Meaning
Keep
न
तथा
ह्यघवान्
राजन्पूयेत
तपाअदिभिः
।
यथा
कृष्णार्पितप्राणस्तत्पूरुषनिषेवया
17
▾
Meaning
Keep
सध्रीचीनो
ह्ययं
लोके
पन्थाः
क्षेमोऽकुतोभयः
।
सुशीलाः
साधवो
यत्र
नारायणपरायणाः
18
▾
Meaning
Keep
प्रायश्चित्तानि
चीर्णानि
नारायणपराङ्मुखम्
।
न
निष्पुनन्ति
राजेन्द्र
सुराकुम्भमिवापगाः
19
▾
Meaning
Keep
सकृन्मनः
कृष्णपदारविन्दयो-
र्निवेशितं
तद्गुणरागि
यैरिह
।
न
ते
यमं
पाशभृतश्च
तद्भटान्
स्वप्नेऽपि
पश्यन्ति
हि
चीर्णनिष्कृताः
20
▾
Meaning
Keep
अत्र
चोदाहरन्तीममितिहासं
पुरातनम्
।
दूतानां
विष्णुयमयोः
संवादस्तं
निबोध
मे
21
▾
Meaning
Keep
कान्यकुब्जे
द्विजः
कश्चिद्दासीपतिरजामिलः
।
नाम्ना
नष्टसदाचारो
दास्याः
संसर्गदूषितः
22
▾
Meaning
Keep
बन्द्यक्षैः
कैतवैश्चौर्यैर्गर्हितां
वृत्तिमास्थितः
।
बिभ्रत्कुटुम्बमशुचिर्यातयामास
देहिनः
23
▾
Meaning
Keep
एवं
निवसतस्तस्य
लालयानस्य
तत्सुतान्
।
कालोऽत्यगान्महान्
राजन्नष्टाशीत्यायुषः
समाः
24
▾
Meaning
Keep
तस्य
प्रवयसः
पुत्रा
दश
तेषां
तु
योऽवमः
।
बालो
नारायणो
नाम्ना
पित्रोश्च
दयितो
भृशम्
25
▾
Meaning
Keep
स
बद्धहृदयस्तस्मिन्नर्भके
कलभाषिणि
।
निरीक्षमाणस्तल्लीलां
मुमुदे
जरठो
भृशम्
26
▾
Meaning
Keep
भुञ्जानः
प्रपिबन्
खादन्
बालकं
स्नेहयन्त्रितः
।
भोजयन्
पाययन्
मूढो
न
वेदागतमन्तकम्
27
▾
Meaning
Keep
स
एवं
वर्तमानोऽज्ञो
मृत्युकाल
उपस्थिते
।
मतिं
चकार
तनये
बाले
नारायणाह्वये
28
▾
Meaning
Keep
स
पाशहस्तांस्त्रीन्
दृष्ट्वा
पुरुषान्
भृशदारुणान्
।
वक्रतुण्डानूर्ध्वरोम्ण
आत्मानं
नेतुमागतान्
29
▾
Meaning
Keep
दूरे
क्रीडनकासक्तं
पुत्रं
नारायणाह्वयम्
।
प्लावितेन
स्वरेणोच्चैराजुहावाकुलेन्द्रियः
30
▾
Meaning
Keep
निशम्य
म्रियमाणस्य
ब्रुवतो
हरिकीर्तनम्
।
भर्तुर्नाम
महाराज
पार्षदाः
सहसापतन्
31
▾
Meaning
Keep
विकर्षतोऽन्तर्हृदयाद्दासीपतिमजामिलम्
।
यमप्रेष्यान्
विष्णुदूता
वारयामासुरोजसा
32
▾
Meaning
Keep
ऊचुर्निषेधितास्तांस्ते
वैवस्वतपुरःसराः
।
के
यूयं
प्रतिषेद्धारो
धर्मराजस्य
शासनम्
33
▾
Meaning
Keep
कस्य
वा
कुत
आयाताः
कस्मादस्य
निषेधथ
।
किं
देवा
उपदेवा
या
यूयं
किं
सिद्धसत्तमाः
34
▾
Meaning
Keep
सर्वे
पद्मपलाशाक्षाः
पीतकौशेयवाससः
।
किरीटिनः
कुण्डलिनो
लसत्पुष्करमालिनः
35
▾
Meaning
Keep
सर्वे
च
नूत्नवयसः
सर्वे
चारुचतुर्भुजाः
।
धनुर्निषङ्गासिगदाशङ्खचक्राम्बुजश्रियः
36
▾
Meaning
Keep
दिशो
वितिमिरालोकाः
कुर्वन्तः
स्वेन
रोचिषा
।
किमर्थं
धर्मपालस्य
किङ्करान्नो
निषेधथ
37
▾
Meaning
Keep
इत्युक्ते
यमदूतैस्तैर्वासुदेवोक्तकारिणः
।
तान्
प्रत्यूचुः
प्रहस्येदं
मेघनिर्ह्रादया
गिरा
38
▾
Meaning
Keep
यूयं
वै
धर्मराजस्य
यदि
निर्देशकारिणः
।
ब्रूत
धर्मस्य
नस्तत्त्वं
यच्च
धर्मस्य
लक्षणम्
39
▾
Meaning
Keep
कथं
स्विद्ध्रियते
दण्डः
किं
वास्य
स्थानमीप्सितम्
।
दण्ड्याः
किं
कारिणः
सर्वे
आहोस्वित्कतिचिन्नृणाम्
40
▾
Meaning
Keep
वेदप्रणिहितो
धर्मो
ह्यधर्मस्तद्विपर्ययः
।
वेदो
नारायणः
साक्षात्स्वयम्भूरिति
शुश्रुम
41
▾
Meaning
Keep
येन
स्वधाम्न्यमी
भावा
रजःसत्त्वतमोमयाः
।
गुणनामक्रियारूपैर्विभाव्यन्ते
यथातथम्
42
▾
Meaning
Keep
सूर्योऽग्निः
खं
मरुदगावः
सोमः
सन्ध्याहनी
दिशः
।
कं
कुः
कालो
धर्म
इति
ह्येते
दैह्यस्य
साक्षिणः
43
▾
Meaning
Keep
एतैरधर्मो
विज्ञातः
स्थानं
दण्डस्य
युज्यते
।
सर्वे
कर्मानुरोधेन
दण्डमर्हन्ति
कारिणः
44
▾
Meaning
Keep
सम्भवन्ति
हि
भद्राणि
विपरीतानि
चानघाः
।
कारिणां
गुणसङ्गोऽस्ति
देहवान्
न
ह्यकर्मकृत्
45
▾
Meaning
Keep
येन
यावान्
यथाधर्मो
धर्मो
वेह
समीहितः
।
स
एव
तत्फलं
भुङ्क्ते
तथा
तावदमुत्र
वै
46
▾
Meaning
Keep
यथेह
देवप्रवरास्त्रैविध्यमुपलभ्यते
।
भूतेषु
गुणवैचित्र्यात्तथान्यत्रानुमीयते
47
▾
Meaning
Keep
वर्तमानोऽन्ययोः
कालो
गुणाभिज्ञापको
यथा
।
एवं
जन्मान्ययोरेतद्धर्माधर्मनिदर्शनम्
48
▾
Meaning
Keep
मनसैव
पुरे
देवः
पूर्वरूपं
विपश्यति
।
अनुमीमांसतेऽपूर्वं
मनसा
भगवानजः
49
▾
Meaning
Keep
यथाज्ञस्तमसा
युक्त
उपास्ते
व्यक्तमेव
हि
।
न
वेद
पूर्वमपरं
नष्टजन्मस्मृतिस्तथा
50
▾
Meaning
Keep
पञ्चभिः
कुरुते
स्वार्थान्
पञ्च
वेदाथ
पञ्चभिः
।
एकस्तु
षोडशेन
त्रीन्
स्वयं
सप्तदशोऽश्नुते
51
▾
Meaning
Keep
तदेतत्षोडशकलं
लिङ्गं
शक्तित्रयं
महत्
।
धत्तेऽनु
संसृतिं
पुंसि
हर्षशोकभयार्तिदाम्
52
▾
Meaning
Keep
देह्यज्ञोऽजितषड्वर्गो
नेच्छन्
कर्माणि
कार्यते
।
कोशकार
इवात्मानं
कर्मणाऽऽच्छाद्य
मुह्यति
53
▾
Meaning
Keep
न
हि
कश्चित्क्षणमपि
जातु
तिष्ठत्यकर्मकृत्
।
कार्यते
ह्यवशः
कर्म
गुणैः
स्वाभाविकैर्बलात्
54
▾
Meaning
Keep
लब्ध्वा
निमित्तमव्यक्तं
व्यक्ताव्यक्तं
भवत्युत
।
यथायोनि
यथाबीजं
स्वभावेन
बलीयसा
55
▾
Meaning
Keep
एष
प्रकृतिसङ्गेन
पुरुषस्य
विपर्ययः
।
आसीत्स
एव
न
चिरादीशसङ्गाद्विलीयते
56
▾
Meaning
Keep
अयं
हि
श्रुतसम्पन्नः
शीलवृत्तगुणालयः
।
धृतव्रतो
मृदुर्दान्तः
सत्यवान्मन्त्रविच्छुचिः
57
▾
Meaning
Keep
गुर्वग्न्यतिथिवृद्धानां
शुश्रूषुर्निरहङ्कृतः
।
सर्वभूतसुहृत्साधुर्मितवागनसूयकः
58
▾
Meaning
Keep
एकदासौ
वनं
यातः
पितृसन्देशकृद्द्विजः
।
आदाय
तत
आवृत्तः
फलपुष्पसमित्कुशान्
59
▾
Meaning
Keep
ददर्श
कामिनं
कञ्चिच्छूद्रं
सह
भुजिष्यया
।
पीत्वा
च
मधु
मैरेयं
मदाघूर्णितनेत्रया
60
▾
Meaning
Keep
मत्तया
विश्लथन्नीव्या
व्यपेतं
निरपत्रपम्
।
क्रीडन्तमनुगायन्तं
हसन्तमनयान्तिके
61
▾
Meaning
Keep
दृष्ट्वा
तां
कामलिप्तेन
बाहुना
परिरम्भिताम्
।
जगाम
हृच्छयवशं
सहसैव
विमोहितः
62
▾
Meaning
Keep
स्तम्भयन्नात्मनाऽऽत्मानं
यावत्सत्त्वं
यथाश्रुतम्
।
न
शशाक
समाधातुं
मनो
मदनवेपितम्
63
▾
Meaning
Keep
तन्निमित्तस्मरव्याजग्रहग्रस्तो
विचेतनः
।
तामेव
मनसा
ध्यायन्
स्वधर्माद्विरराम
ह
64
▾
Meaning
Keep
तामेव
तोषयामास
पित्र्येणार्थेन
यावता
।
ग्राम्यैर्मनोरमैः
कामैः
प्रसीदेत
यथा
तथा
65
▾
Meaning
Keep
विप्रां
स्वभार्यामप्रौढां
कुले
महति
लम्भिताम्
।
विससर्जाचिरात्पापः
स्वैरिण्यापाङ्गविद्धधीः
66
▾
Meaning
Keep
यतस्ततश्चोपनिन्ये
न्यायतोऽन्यायतो
धनम्
।
बभारास्याः
कुटुम्बिन्याः
कुटुम्बं
मन्दधीरयम्
67
▾
Meaning
Keep
यदसौ
शास्त्रमुल्लङ्घ्य
स्वैरचार्यार्यगर्हितः
।
अवर्तत
चिरं
कालमघायुरशुचिर्मलात्
68
▾
Meaning
Keep
तत
एनं
दण्डपाणेः
सकाशं
कृतकिल्बिषम्
।
नेष्यामोऽकृतनिर्वेशं
यत्र
दण्डेन
शुद्ध्यति
Previous
←
The Hells and Who Goes There
Next
The Name That Freed Ajamila
→