Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Daughters of Daksa
Śrīmad Bhāgavatam
›
Canto 6
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
ततः
प्राचेतसोऽसिक्न्यामनुनीतः
स्वयम्भुवा
।
षष्टिं
सञ्जनयामास
दुहितॄः
पितृवत्सलाः
2
▾
Meaning
Keep
दश
धर्माय
कायेन्दोर्द्विषट्त्रिणव
दत्तवान्
।
भूताङ्गिरःकृशाश्वेभ्यो
द्वे
द्वे
तार्क्ष्याय
चापराः
3
▾
Meaning
Keep
नामधेयान्यमूषां
त्वं
सापत्यानां
च
मे
शृणु
।
यासां
प्रसूतिप्रसवैर्लोका
आपूरितास्त्रयः
4
▾
Meaning
Keep
भानुर्लम्बा
ककुब्जामिर्विश्वा
साध्या
मरुत्वती
।
वसुर्मुहूर्ता
सङ्कल्पा
धर्मपत्न्यः
सुतान्
शृणु
5
▾
Meaning
Keep
भानोस्तु
देवऋषभ
इन्द्रसेनस्ततो
नृप
।
विद्योत
आसील्लम्बायास्ततश्च
स्तनयित्नवः
6
▾
Meaning
Keep
ककुभः
सङ्कटस्तस्य
कीकटस्तनयो
यतः
।
भुवो
दुर्गाणि
जामेयः
स्वर्गो
नन्दिस्ततोऽभवत्
7
▾
Meaning
Keep
विश्वेदेवास्तु
विश्वाया
अप्रजांस्तान्
प्रचक्षते
।
साध्योगणस्तु
साध्याया
अर्थसिद्धिस्तु
तत्सुतः
8
▾
Meaning
Keep
मरुत्वांश्च
जयन्तश्च
मरुत्वत्यां
बभूवतुः
।
जयन्तो
वासुदेवांश
उपेन्द्र
इति
यं
विदुः
9
▾
Meaning
Keep
मौहूर्तिका
देवगणा
मुहूर्तायाश्च
जज्ञिरे
।
ये
वै
फलं
प्रयच्छन्ति
भूतानां
स्वस्वकालजम्
10
▾
Meaning
Keep
सङ्कल्पायाश्च
सङ्कल्पः
कामः
सङ्कल्पजः
स्मृतः
।
वसवोऽष्टौ
वसोः
पुत्रास्तेषां
नामानि
मे
शृणु
11
▾
Meaning
Keep
द्रोणः
प्राणो
ध्रुवोऽर्कोऽग्निर्दोषो
वास्तुर्विभावसुः
।
द्रोणस्याभिमतेः
पत्न्या
हर्षशोकभयादयः
12
▾
Meaning
Keep
प्राणस्योर्जस्वती
भार्या
सह
आयुः
पुरोजवः
।
ध्रुवस्य
भार्या
धरणिरसूत
विविधाः
पुरः
13
▾
Meaning
Keep
अर्कस्य
वासना
भार्या
पुत्रास्तर्षादयः
स्मृताः
।
अग्नेर्भार्या
वसोर्धारा
पुत्रा
द्रविणकादयः
14
▾
Meaning
Keep
स्कन्दश्च
कृत्तिकापुत्रो
ये
विशाखादयस्ततः
।
दोषस्य
शर्वरीपुत्रः
शिशुमारो
हरेः
कला
15
▾
Meaning
Keep
वसोराङ्गिरसीपुत्रो
विश्वकर्मा
कृतीपतिः
।
ततो
मनुश्चाक्षुषोऽभूद्विश्वे
साध्या
मनोः
सुताः
16
▾
Meaning
Keep
विभावसोरसूतोषा
व्युष्टं
रोचिषमातपम्
।
पञ्चयामोऽथ
भूतानि
येन
जाग्रति
कर्मसु
17
▾
Meaning
Keep
सरूपासूत
भूतस्य
भार्या
रुद्रांश्च
कोटिशः
।
रैवतोऽजो
भवो
भीमो
वाम
उग्रो
वृषाकपिः
18
▾
Meaning
Keep
अजैकपादहिर्बुध्नयो
बहुरूपो
महानिति
।
रुद्रस्य
पार्षदाश्चान्ये
घोरा
भूतविनायकाः
19
▾
Meaning
Keep
प्रजापतेरङ्गिरसः
स्वधा
पत्नी
पितॄनथ
।
अथर्वाङ्गिरसं
वेदं
पुत्रत्वे
चाकरोत्सती
20
▾
Meaning
Keep
कृशाश्वोऽर्चिषि
भार्यायां
धूमकेतुमजीजनत्
।
धिषणायां
वेदशिरो
देवलं
वयुनं
मनुम्
21
▾
Meaning
Keep
तार्क्ष्यस्य
विनता
कद्रूः
पतङ्गी
यामिनीति
च
।
पतङ्ग्यसूत
पतगान्
यामिनी
शलभानथ
22
▾
Meaning
Keep
सुपर्णासूत
गरुडं
साक्षाद्यज्ञेशवाहनम्
।
सूर्यसूतमनूरुं
च
कद्रूर्नागाननेकशः
23
▾
Meaning
Keep
कृत्तिकादीनि
नक्षत्राणीन्दोः
पत्न्यस्तु
भारत
।
दक्षशापात्सोऽनपत्यस्तासु
यक्ष्मग्रहार्दितः
24
▾
Meaning
Keep
पुनः
प्रसाद्य
तं
सोमः
कला
लेभे
क्षये
दिताः
।
शृणु
नामानि
लोकानां
मातॄणां
शङ्कराणि
च
25
▾
Meaning
Keep
अथ
कश्यपपत्नीनां
यत्प्रसूतमिदं
जगत्
।
अदितिर्दितिर्दनुः
काष्ठा
अरिष्टा
सुरसा
इला
26
▾
Meaning
Keep
मुनिः
क्रोधवशा
ताम्रा
सुरभिः
सरमा
तिमिः
।
तिमेर्यादोगणा
आसन्
श्वापदाः
सरमासुताः
27
▾
Meaning
Keep
सुरभेर्महिषा
गावो
ये
चान्ये
द्विशफा
नृप
।
ताम्रायाः
श्येनगृध्राद्या
मुनेरप्सरसां
गणाः
28
▾
Meaning
Keep
दन्दशूकादयः
सर्पा
राजन्
क्रोधवशात्मजाः
।
इलाया
भूरुहाः
सर्वे
यातुधानाश्च
सौरसाः
29
▾
Meaning
Keep
अरिष्टायाश्च
गन्धर्वाः
काष्ठाया
द्विशफेतराः
।
सुता
दनोरेकषष्टिस्तेषां
प्राधानिकान्शृणु
30
▾
Meaning
Keep
द्विमूर्धा
शम्बरोऽरिष्टो
हयग्रीवो
विभावसुः
।
अयोमुखः
शङ्कुशिराः
स्वर्भानुः
कपिलोऽरुणः
31
▾
Meaning
Keep
पुलोमा
वृषपर्वा
च
एकचक्रोऽनुतापनः
।
धूम्रकेशो
विरूपाक्षो
विप्रचित्तिश्च
दुर्जयः
32
▾
Meaning
Keep
स्वर्भानोः
सुप्रभां
कन्यामुवाह
नमुचिः
किल
।
वृषपर्वणस्तु
शर्मिष्ठां
ययातिर्नाहुषो
बली
33
▾
Meaning
Keep
वैश्वानरसुता
याश्च
चतस्रश्चारुदर्शनाः
।
उपदानवी
हयशिरा
पुलोमा
कालका
तथा
34
▾
Meaning
Keep
उपदानवीं
हिरण्याक्षः
क्रतुर्हयशिरां
नृप
।
पुलोमां
कालकां
च
द्वे
वैश्वानरसुते
तु
कः
35
▾
Meaning
Keep
उपयेमेऽथ
भगवान्
कश्यपो
ब्रह्मचोदितः
।
पौलोमाः
कालकेयाश्च
दानवा
युद्धशालिनः
36
▾
Meaning
Keep
तयोः
षष्टिसहस्राणि
यज्ञघ्नाँस्ते
पितुः
पिता
।
जघान
स्वर्गतो
राजन्नेक
इन्द्रप्रियङ्करः
37
▾
Meaning
Keep
विप्रचित्तिः
सिंहिकायां
शतं
चैकमजीजनत्
।
राहुज्येष्ठं
केतुशतं
ग्रहत्वं
य
उपागताः
38
▾
Meaning
Keep
अथातः
श्रूयतां
वंशो
योऽदितेरनुपूर्वशः
।
यत्र
नारायणो
देवः
स्वांशेनावतरद्विभुः
39
▾
Meaning
Keep
विवस्वानर्यमा
पूषा
त्वष्टाथ
सविता
भगः
।
धाता
विधाता
वरुणो
मित्रः
शक्रः
उरुक्रमः
40
▾
Meaning
Keep
विवस्वतः
श्राद्धदेवं
संज्ञासूयत
वै
मनुम्
।
मिथुनं
च
महाभागा
यमं
देवं
यमीं
तथा
।
सैव
भूत्वाथ
वडवा
नासत्यौ
सुषुवे
भुवि
41
▾
Meaning
Keep
छाया
शनैश्चरं
लेभे
सावर्णिं
च
मनुं
ततः
।
कन्यां
च
तपतीं
या
वै
वव्रे
संवरणं
पतिम्
42
▾
Meaning
Keep
अर्यम्णो
मातृका
पत्नी
तयोश्चर्षणयः
सुताः
।
यत्र
वै
मानुषी
जातिर्ब्रह्मणा
चोपकल्पिता
43
▾
Meaning
Keep
पूषानपत्यः
पिष्टादो
भग्नदन्तोऽभवत्पुरा
।
योऽसौ
दक्षाय
कुपितं
जहास
विवृतद्विजः
44
▾
Meaning
Keep
त्वष्टुर्दैत्यानुजा
भार्या
रचना
नाम
कन्यका
।
सन्निवेशस्तयोर्जज्ञे
विश्वरूपश्च
वीर्यवान्
45
▾
Meaning
Keep
तं
वव्रिरे
सुरगणा
स्वस्रीयं
द्विषतामपि
।
विमतेन
परित्यक्ता
गुरुणाङ्गिरसेन
यत्
Previous
←
Narada and Daksa's Sons
Next
Indra Slights His Teacher
→