Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Narada and Daksa's Sons
Śrīmad Bhāgavatam
›
Canto 6
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
तस्यां
स
पाञ्चजन्यां
वै
विष्णुमायोपबृंहितः
।
हर्यश्वसंज्ञानयुतं
पुत्रानजनयद्विभुः
2
▾
Meaning
Keep
अपृथग्धर्मशीलास्ते
सर्वे
दाक्षायणा
नृप
।
पित्रा
प्रोक्ताः
प्रजासर्गे
प्रतीचीं
प्रययुर्दिशम्
3
▾
Meaning
Keep
तत्र
नारायणसरस्तीर्थं
सिन्धुसमुद्रयोः
।
सङ्गमो
यत्र
सुमहन्मुनिसिद्धनिषेवितम्
4
▾
Meaning
Keep
तदुपस्पर्शनादेव
विनिर्धूतमलाशयाः
।
धर्मे
पारमहंस्ये
च
प्रोत्पन्नमतयोऽप्युत
5
▾
Meaning
Keep
तेपिरे
तप
एवोग्रं
पित्रादेशेन
यन्त्रिताः
।
प्रजाविवृद्धये
यत्तान्
देवर्षिस्तान्
ददर्श
ह
6
▾
Meaning
Keep
उवाच
चाथ
हर्यश्वाः
कथं
स्रक्ष्यथ
वै
प्रजाः
।
अदृष्ट्वान्तं
भुवो
यूयं
बालिशा
बत
पालकाः
7
▾
Meaning
Keep
तथैकपुरुषं
राष्ट्रं
बिलं
चादृष्टनिर्गमम्
।
बहुरूपां
स्त्रियं
चापि
पुमांसं
पुंश्चलीपतिम्
8
▾
Meaning
Keep
नदीमुभयतोवाहां
पञ्चपञ्चाद्
भुतं
गृहम्
।
क्वचिद्धंसं
चित्रकथं
क्षौरपव्यं
स्वयंभ्रमिम्
9
▾
Meaning
Keep
कथं
स्वपितुरादेशमविद्वांसो
विपश्चितः
।
अनुरूपमविज्ञाय
अहो
सर्गं
करिष्यथ
10
▾
Meaning
Keep
तन्निशम्याथ
हर्यश्वा
औत्पत्तिकमनीषया
।
वाचः
कूटं
तु
देवर्षेः
स्वयं
विममृशुर्धिया
11
▾
Meaning
Keep
भूः
क्षेत्रं
जीवसंज्ञं
यदनादि
निजबन्धनम्
।
अदृष्ट्वा
तस्य
निर्वाणं
किमसत्कर्मभिर्भवेत्
12
▾
Meaning
Keep
एक
एवेश्वरस्तुर्यो
भगवान्
स्वाश्रयः
परः
।
तमदृष्ट्वाभवं
पुंसः
किमसत्कर्मभिर्भवेत्
13
▾
Meaning
Keep
पुमान्
नैवैति
यद्गत्वा
बिलस्वर्गं
गतो
यथा
।
प्रत्यग्धामाविद
इह
किमसत्कर्मभिर्भवेत्
14
▾
Meaning
Keep
नानारूपाऽऽत्मनो
बुद्धिः
स्वैरिणीव
गुणान्विता
।
तन्निष्ठामगतस्येह
किमसत्कर्मभिर्भवेत्
15
▾
Meaning
Keep
तत्सङ्गभ्रंशितैश्वर्यं
संसरन्तं
कुभार्यवत्
।
तद्गतीरबुधस्येह
किमसत्कर्मभिर्भवेत्
16
▾
Meaning
Keep
सृष्ट्यप्ययकरीं
मायां
वेलाकूलान्तवेगिताम्
।
मत्तस्य
तामविज्ञस्य
किमसत्कर्मभिर्भवेत्
17
▾
Meaning
Keep
पञ्चविंशतितत्त्वानां
पुरुषोऽद्
भुतदर्पणम्
।
अध्यात्ममबुधस्येह
किमसत्कर्मभिर्भवेत्
18
▾
Meaning
Keep
ऐश्वरं
शास्त्रमुत्सृज्य
बन्धमोक्षानुदर्शनम्
।
विविक्तपदमज्ञाय
किमसत्कर्मभिर्भवेत्
19
▾
Meaning
Keep
कालचक्रं
भ्रमिस्तीक्ष्णं
सर्वं
निष्कर्षयज्जगत्
।
स्वतन्त्रमबुधस्येह
किमसत्कर्मभिर्भवेत्
20
▾
Meaning
Keep
शास्त्रस्य
पितुरादेशं
यो
न
वेद
निवर्तकम्
।
कथं
तदनुरूपाय
गुणविश्रम्भ्युपक्रमेत्
21
▾
Meaning
Keep
इति
व्यवसिता
राजन्
हर्यश्वा
एकचेतसः
।
प्रययुस्तं
परिक्रम्य
पन्थानमनिवर्तनम्
22
▾
Meaning
Keep
स्वरब्रह्मणि
निर्भातहृषीकेशपदाम्बुजे
।
अखण्डं
चित्तमावेश्य
लोकाननुचरन्
मुनिः
23
▾
Meaning
Keep
नाशं
निशम्य
पुत्राणां
नारदाच्छीलशालिनाम्
।
अन्वतप्यत
कः
शोचन्
सुप्रजस्त्वं
शुचां
पदम्
24
▾
Meaning
Keep
स
भूयः
पाञ्चजन्यायामजेन
परिसान्त्वितः
।
पुत्रानजनयद्
दक्षः
शबलाश्वान्
सहस्रिणः
25
▾
Meaning
Keep
तेऽपि
पित्रा
समादिष्टाः
प्रजासर्गे
धृतव्रताः
।
नारायणसरो
जग्मुर्यत्र
सिद्धाः
स्वपूर्वजाः
26
▾
Meaning
Keep
तदुपस्पर्शनादेव
विनिर्धूतमलाशयाः
।
जपन्तो
ब्रह्म
परमं
तेपुस्तेऽत्र
महत्
तपः
27
▾
Meaning
Keep
अब्भक्षाः
कतिचिन्मासान्
कतिचिद्वायुभोजनाः
।
आराधयन्
मन्त्रमिममभ्यस्यन्त
इडस्पतिम्
28
▾
Meaning
Keep
ॐ
नमो
नारायणाय
पुरुषाय
महात्मने
।
विशुद्धसत्त्वधिष्ण्याय
महाहंसाय
धीमहि
29
▾
Meaning
Keep
इति
तानपि
राजेन्द्र
प्रजासर्गधियो
मुनिः
।
उपेत्य
नारदः
प्राह
वाचः
कूटानि
पूर्ववत्
30
▾
Meaning
Keep
दाक्षायणाः
संशृणुत
गदतो
निगमं
मम
।
अन्विच्छतानुपदवीं
भ्रातॄणां
भ्रातृवत्सलाः
31
▾
Meaning
Keep
भ्रातॄणां
प्रायणं
भ्राता
योऽनुतिष्ठति
धर्मवित्
।
स
पुण्यबन्धुः
पुरुषो
मरुद्भिः
सह
मोदते
32
▾
Meaning
Keep
एतावदुक्त्वा
प्रययौ
नारदोऽमोघदर्शनः
।
तेऽपि
चान्वगमन्
मार्गं
भ्रातॄणामेव
मारिष
33
▾
Meaning
Keep
सध्रीचीनं
प्रतीचीनं
परस्यानुपथं
गताः
।
नाद्यापि
ते
निवर्तन्ते
पश्चिमा
यामिनीरिव
34
▾
Meaning
Keep
एतस्मिन्
काल
उत्पातान्
बहून्
पश्यन्
प्रजापतिः
।
पूर्ववन्नारदकृतं
पुत्रनाशमुपाशृणोत्
35
▾
Meaning
Keep
चुक्रोध
नारदायासौ
पुत्रशोकविमूर्च्छितः
।
देवर्षिमुपलभ्याह
रोषाद्विस्फुरिताधरः
36
▾
Meaning
Keep
अहो
असाधो
साधूनां
साधुलिङ्गेन
नस्त्वया
।
असाध्वकार्यर्भकाणां
भिक्षोर्मार्गः
प्रदर्शितः
37
▾
Meaning
Keep
ऋणैस्त्रिभिरमुक्तानाममीमांसितकर्मणाम्
।
विघातः
श्रेयसः
पाप
लोकयोरुभयोः
कृतः
38
▾
Meaning
Keep
एवं
त्वं
निरनुक्रोशो
बालानां
मतिभिद्धरेः
।
पार्षदमध्ये
चरसि
यशोहा
निरपत्रपः
39
▾
Meaning
Keep
ननु
भागवता
नित्यं
भूतानुग्रहकातराः
।
ऋते
त्वां
सौहृदघ्नं
वै
वैरङ्करमवैरिणाम्
40
▾
Meaning
Keep
नेत्थं
पुंसां
विरागः
स्यात्त्वया
केवलिना
मृषा
।
मन्यसे
यद्युपशमं
स्नेहपाशनिकृन्तनम्
41
▾
Meaning
Keep
नानुभूय
न
जानाति
पुमान्
विषयतीक्ष्णताम्
।
निर्विद्यते
स्वयं
तस्मान्न
तथा
भिन्नधीः
परैः
42
▾
Meaning
Keep
यन्नस्त्वं
कर्मसन्धानां
साधूनां
गृहमेधिनाम्
।
कृतवानसि
दुर्मर्षं
विप्रियं
तव
मर्षितम्
43
▾
Meaning
Keep
तन्तुकृन्तन
यन्नस्त्वमभद्रमचरः
पुनः
।
तस्माल्लोकेषु
ते
मूढ
न
भवेद्भ्रमतः
पदम्
44
▾
Meaning
Keep
प्रतिजग्राह
तद्बाढं
नारदः
साधुसम्मतः
।
एतावान्
साधुवादो
हि
तितिक्षेतेश्वरः
स्वयम्
Previous
←
Daksa's Hymn at the Ford
Next
The Daughters of Daksa
→