Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Vrtra Rises from the Fire
Śrīmad Bhāgavatam
›
Canto 6
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
तस्यासन्
विश्वरूपस्य
शिरांसि
त्रीणि
भारत
।
सोमपीथं
सुरापीथमन्नादमिति
शुश्रुम
2
▾
Meaning
Keep
स
वै
बर्हिषि
देवेभ्यो
भागं
प्रत्यक्षमुच्चकैः
।
अददद्यस्य
पितरो
देवाः
सप्रश्रयं
नृप
3
▾
Meaning
Keep
स
एव
हि
ददौ
भागं
परोक्षमसुरान्
प्रति
।
यजमानोऽवहद्भागं
मातृस्नेहवशानुगः
4
▾
Meaning
Keep
तद्देवहेलनं
तस्य
धर्मालीकं
सुरेश्वरः
।
आलक्ष्य
तरसा
भीतस्तच्छीर्षाण्यच्छिनद्रुषा
5
▾
Meaning
Keep
सोमपीथं
तु
यत्तस्य
शिर
आसीत्कपिञ्जलः
।
कलविङ्कः
सुरापीथमन्नादं
यत्स
तित्तिरिः
6
▾
Meaning
Keep
ब्रह्महत्यामञ्जलिना
जग्राह
यदपीश्वरः
।
संवत्सरान्ते
तदघं
भूतानां
स
विशुद्धये
7
▾
Meaning
Keep
भूम्यम्बुद्रुमयोषिद्भ्यश्चतुर्धा
व्यभजद्धरिः
।
भूमिस्तुरीयं
जग्राह
खातपूरवरेण
वै
8
▾
Meaning
Keep
ईरिणं
ब्रह्महत्याया
रूपं
भूमौ
प्रदृश्यते
।
तुर्यं
छेदविरोहेण
वरेण
जगृहुर्द्रुमाः
9
▾
Meaning
Keep
तेषां
निर्यासरूपेण
ब्रह्महत्या
प्रदृश्यते
।
शश्वत्कामवरेणांहस्तुरीयं
जगृहुः
स्त्रियः
10
▾
Meaning
Keep
रजोरूपेण
तास्वंहो
मासि
मासि
प्रदृश्यते
।
द्रव्यभूयोवरेणापस्तुरीयं
जगृहुर्मलम्
11
▾
Meaning
Keep
तासु
बुद्बुदफेनाभ्यां
दृष्टं
तद्धरति
क्षिपन्
।
हतपुत्रस्ततस्त्वष्टा
जुहावेन्द्राय
शत्रवे
12
▾
Meaning
Keep
इन्द्रशत्रो
विवर्धस्व
मा
चिरं
जहि
विद्विषम्
।
अथान्वाहार्यपचनादुत्थितो
घोरदर्शनः
13
▾
Meaning
Keep
कृतान्त
इव
लोकानां
युगान्तसमये
यथा
।
विष्वग्विवर्धमानं
तमिषुमात्रं
दिने
दिने
14
▾
Meaning
Keep
दग्धशैलप्रतीकाशं
सन्ध्याभ्रानीकवर्चसम्
।
तप्तताम्रशिखाश्मश्रुं
मध्याह्नार्कोग्रलोचनम्
15
▾
Meaning
Keep
देदीप्यमाने
त्रिशिखे
शूल
आरोप्य
रोदसी
।
नृत्यन्तमुन्नदन्तं
च
चालयन्तं
पदा
महीम्
16
▾
Meaning
Keep
दरीगम्भीरवक्त्रेण
पिबता
च
नभस्तलम्
।
लिहता
जिह्वयर्क्षाणि
ग्रसता
भुवनत्रयम्
17
▾
Meaning
Keep
महता
रौद्रदंष्ट्रेण
जृम्भमाणं
मुहुर्मुहुः
।
वित्रस्ता
दुद्रुवुर्लोका
वीक्ष्य
सर्वे
दिशो
दश
18
▾
Meaning
Keep
येनावृता
इमे
लोकास्तपसा
त्वाष्ट्रमूर्तिना
।
स
वै
वृत्र
इति
प्रोक्तः
पापः
परमदारुणः
19
▾
Meaning
Keep
तं
निजघ्नुरभिद्रुत्य
सगणा
विबुधर्षभाः
।
स्वैः
स्वैर्दिव्यास्त्रशस्त्रौघैः
सोऽग्रसत्तानि
कृत्स्नशः
20
▾
Meaning
Keep
ततस्ते
विस्मिताः
सर्वे
विषण्णा
ग्रस्ततेजसः
।
प्रत्यञ्चमादिपुरुषमुपतस्थुः
समाहिताः
21
▾
Meaning
Keep
वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका
ब्रह्मादयो
ये
वयमुद्विजन्तः
।
हराम
यस्मै
बलिमन्तकोऽसौ
बिभेति
यस्मादरणं
ततो
नः
22
▾
Meaning
Keep
अविस्मितं
तं
परिपूर्णकामं
स्वेनैव
लाभेन
समं
प्रशान्तम्
।
विनोपसर्पत्यपरं
हि
बालिशः
श्वलाङ्गुलेनातितितर्ति
सिन्धुम्
23
▾
Meaning
Keep
यस्योरुशृङ्गे
जगतीं
स्वनावं
मनुर्यथाऽऽबध्य
ततार
दुर्गम्
।
स
एव
नस्त्वाष्ट्रभयाद्दुरन्ता-
त्त्राताऽऽश्रितान्
वारिचरोऽपि
नूनम्
24
▾
Meaning
Keep
पुरा
स्वयम्भूरपि
संयमाम्भ-
स्युदीर्णवातोर्मिरवैः
कराले
।
एकोऽरविन्दात्पतितस्ततार
तस्माद्भयाद्येन
स
नोऽस्तु
पारः
25
▾
Meaning
Keep
य
एक
ईशो
निजमायया
नः
ससर्ज
येनानुसृजाम
विश्वम्
।
वयं
न
यस्यापि
पुरः
समीहतः
पश्याम
लिङ्गं
पृथगीशमानिनः
26
▾
Meaning
Keep
यो
नः
सपत्नैर्भृशमर्द्यमानान्
देवर्षितिर्यङ्नृषु
नित्य
एव
।
कृतावतारस्तनुभिः
स्वमायया
कृत्वाऽऽत्मसात्पाति
युगे
युगे
च
27
▾
Meaning
Keep
तमेव
देवं
वयमात्मदैवतं
परं
प्रधानं
पुरुषं
विश्वमन्यम्
।
व्रजाम
सर्वे
शरणं
शरण्यं
स्वानां
स
नो
धास्यति
शं
महात्मा
28
▾
Meaning
Keep
इति
तेषां
महाराज
सुराणामुपतिष्ठताम्
।
प्रतीच्यां
दिश्यभूदाविः
शङ्खचक्रगदाधरः
29
▾
Meaning
Keep
आत्मतुल्यैः
षोडशभिर्विना
श्रीवत्सकौस्तुभौ
।
पर्युपासितमुन्निद्रशरदम्बुरुहेक्षणम्
Hymn
30
▾
Meaning
Keep
दृष्ट्वा
तमवनौ
सर्व
ईक्षणाह्लादविक्लवाः
।
दण्डवत्पतिता
राजञ्छनैरुत्थाय
तुष्टुवुः
31
▾
Meaning
Keep
नमस्ते
यज्ञवीर्याय
वयसे
उत
ते
नमः
।
नमस्ते
ह्यस्तचक्राय
नमः
सुपुरुहूतये
32
▾
Meaning
Keep
यत्ते
गतीनां
तिसृणामीशितुः
परमं
पदम्
।
नार्वाचीनो
विसर्गस्य
धातर्वेदितुमर्हति
33
▾
Meaning
Keep
ओं
नमस्तेऽस्तु
भगवन्
नारायण
वासुदेवाऽऽदिपुरुष
महापुरुष
महानुभाव
परममङ्गल
परमकल्याण
परमकारुणिक
केवल
जगदाधार
लोकैकनाथ
सर्वेश्वर
लक्ष्मीनाथ
परमहंसपरिव्राजकैः
परमेणात्मयोगसमाधिना
परिभावित-
परिस्फुटपारमहंस्यधर्मेणोद्घाटिततमः-
कपाटद्वारे
चित्तेऽपावृत
आत्मलोके
स्वयमुपलब्धनिजसुखानुभवो
भवान्
34
▾
Meaning
Keep
दुरवबोध
इव
तवायं
विहारयोगो
यदशरणोऽशरीर
इदमनवेक्षितास्म-
त्समवाय
आत्मनैवाविक्रियमाणेन
सगुणमगुणः
सृजसि
पासि
हरसि
35
▾
Meaning
Keep
अथ
तत्र
भवान्
किं
देवदत्तवदिह
गुणविसर्गपतितः
पारतन्त्र्येण
स्वकृत-
कुशलाकुशलं
फलमुपाददात्याहोस्वि-
दात्माराम
उपशमशीलः
समञ्जसदर्शन
उदास्त
इति
ह
वाव
न
विदामः
36
▾
Meaning
Keep
न
हि
विरोध
उभयं
भगवत्यपरिमित-
गुणगण
ईश्वरेऽनवगाह्यमाहात्म्येऽर्वाचीन-
विकल्पवितर्कविचारप्रमाणाभासकुतर्क-
शास्त्रकलिलान्तःकरणाश्रयदुरवग्रहवादिनां
विवादानवसर
उपरतसमस्तमायामये
केवल
एवात्ममायामन्तर्धाय
को
न्वर्थो
दुर्घट
इव
भवति
स्वरूपद्वयाभावात्
37
▾
Meaning
Keep
समविषममतीनां
मतमनुसरसि
यथा
रज्जुखण्डः
सर्पादिधियाम्
38
▾
Meaning
Keep
स
एव
हि
पुनः
सर्ववस्तुनि
वस्तुस्वरूपः
सर्वेश्वरः
सकलजगत्कारणकारणभूतः
सर्वप्रत्यगात्मत्वात्सर्वगुणाभासोपलक्षित
एक
एव
पर्यवशेषितः
39
▾
Meaning
Keep
अथ
ह
वाव
तव
महिमामृतरससमुद्र-
विप्रुषा
सकृदवलीढया
स्वमनसि
निष्यन्दमानानवरतसुखेन
विस्मारित-
दृष्टश्रुतविषयसुखलेशाभासाः
परमभागवता
एकान्तिनो
भगवति
सर्वभूतप्रियसुहृदि
सर्वात्मनि
नितरां
निरन्तरं
निर्वृतमनसः
कथमु
ह
वा
एते
मधुमथन
पुनः
स्वार्थकुशला
ह्यात्मप्रिय-
सुहृदः
साधवस्त्वच्चरणाम्बुजानुसेवां
विसृजन्ति
न
यत्र
पुनरयं
संसारपर्यावर्तः
40
▾
Meaning
Keep
त्रिभुवनात्मभवन
त्रिविक्रम
त्रिनयन
त्रिलोकमनोहरानुभाव
तवैव
विभूतयो
दितिजदनुजादयश्चापि
तेषामुपक्रमसमयोऽयमिति
स्वात्ममायया
सुरनरमृगमिश्रितजलचराकृतिभिर्यथापराधं
दण्डं
दण्डधर
दधर्थ
एवमेनमपि
भगवञ्जहि
त्वाष्ट्रमुत
यदि
मन्यसे
41
▾
Meaning
Keep
अस्माकं
तावकानां
तव
नतानां
तत
ततामह
तव
चरणनलिनयुगलध्याना-
नुबद्धहृदयनिगडानां
स्वलिङ्गविवरणेना-
त्मसात्कृतानामनुकम्पानुरञ्जितविशद-
रुचिरशिशिरस्मितावलोकेन
विगलित-
मधुरमुखरसामृतकलया
चान्तस्ताप-
मनघार्हसि
शमयितुम्
42
▾
Meaning
Keep
अथ
भगवंस्तवास्माभिरखिलजग-
दुत्पत्तिस्थितिलयनिमित्तायमानदिव्य-
मायाविनोदस्य
सकलजीवनिकायाना-
मन्तर्हृदयेषु
बहिरपि
च
ब्रह्मप्रत्यगात्म-
स्वरूपेण
प्रधानरूपेण
च
यथादेशकाल-
देहावस्थानविशेषं
तदुपादानो-
पलम्भकतयानुभवतः
सर्वप्रत्ययसाक्षिण
आकाशशरीरस्य
साक्षात्परब्रह्मणः
परमात्मनः
कियानिह
वार्थविशेषो
विज्ञापनीयः
स्याद्विस्फुलिङ्गादिभिरिव
हिरण्यरेतसः
43
▾
Meaning
Keep
अत
एव
स्वयं
तदुपकल्पयास्माकं
भगवतः
परमगुरोस्तव
चरणशत-
पलाशच्छायां
विविधवृजिनसंसार-
परिश्रमोपशमनीमुपसृतानां
वयं
यत्कामेनोपसादिताः
44
▾
Meaning
Keep
अथो
ईश
जहि
त्वाष्ट्रं
ग्रसन्तं
भुवनत्रयम्
।
ग्रस्तानि
येन
नः
कृष्ण
तेजांस्यस्त्रायुधानि
च
45
▾
Meaning
Keep
हंसाय
दह्रनिलयाय
निरीक्षकाय
कृष्णाय
मृष्टयशसे
निरुपक्रमाय
।
सत्संग्रहाय
भवपान्थनिजाश्रमाप्तावन्ते
परीष्टगतये
हरये
नमस्ते
46
▾
Meaning
Keep
अथैवमीडितो
राजन्
सादरं
त्रिदशैर्हरिः
।
स्वमुपस्थानमाकर्ण्य
प्राह
तानभिनन्दितः
47
▾
Meaning
Keep
श्रीभगवानुवाच ।
प्रीतोऽहं वः सुरश्रेष्ठा मदुपस्थानविद्यया ।
आत्मैश्वर्यस्मृतिः पुंसां भक्तिश्चैव यया मयि
48
▾
Meaning
Keep
किं
दुरापं
मयि
प्रीते
तथापि
विबुधर्षभाः
।
मय्येकान्तमतिर्नान्यन्मत्तो
वाञ्छति
तत्त्ववित्
49
▾
Meaning
Keep
न
वेद
कृपणः
श्रेय
आत्मनो
गुणवस्तुदृक्
।
तस्य
तानिच्छतो
यच्छेद्यदि
सोऽपि
तथाविधः
50
▾
Meaning
Keep
स्वयं
निःश्रेयसं
विद्वान्
न
वक्त्यज्ञाय
कर्म
हि
।
न
राति
रोगिणोऽपथ्यं
वाञ्छतो
हिभिषक्तमः
51
▾
Meaning
Keep
मघवन्
यात
भद्रं
वो
दध्यञ्चमृषिसत्तमम्
।
विद्याव्रततपःसारं
गात्रं
याचत
मा
चिरम्
52
▾
Meaning
Keep
स
वा
अधिगतो
दध्यङ्ङश्विभ्यां
ब्रह्म
निष्कलम्
।
यद्वा
अश्वशिरो
नाम
तयोरमरतां
व्यधात्
53
▾
Meaning
Keep
दध्यङ्ङाथर्वणस्त्वष्ट्रे
वर्माभेद्यं
मदात्मकम्
।
विश्वरूपाय
यत्प्रादात्त्वष्टा
यत्त्वमधास्ततः
54
▾
Meaning
Keep
युष्मभ्यं
याचितोऽश्विभ्यां
धर्मज्ञोऽङ्गानि
दास्यति
।
ततस्तैरायुधश्रेष्ठो
विश्वकर्मविनिर्मितः
।
येन
वृत्रशिरो
हर्ता
मत्तेज
उपबृंहितः
55
▾
Meaning
Keep
तस्मिन्
विनिहते
यूयं
तेजोऽस्त्रायुधसम्पदः
।
भूयः
प्राप्स्यथ
भद्रं
वो
न
हिंसन्ति
च
मत्परान्
Previous
←
The Armour of Narayana
Next
The Bones of Dadhyanc
→