Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Vrtra Calls Indra to Throw
Śrīmad Bhāgavatam
›
Canto 6
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
त
एवं
शंसतो
धर्मं
वचः
पत्युरचेतसः
।
नैवागृह्णन्त
भयत्रस्ताः
पलायनपरा
नृप
2
▾
Meaning
Keep
विशीर्यमाणां
पृतनामासुरीमसुरर्षभः
।
कालानुकूलैस्त्रिदशैः
काल्यमानामनाथवत्
3
▾
Meaning
Keep
दृष्ट्वातप्यत
संक्रुद्ध
इन्द्रशत्रुरमर्षितः
।
तान्निवार्यौजसा
राजन्निर्भर्त्स्येदमुवाच
ह
4
▾
Meaning
Keep
किं
व
उच्चरितैर्मातुर्धावद्भिः
पृष्ठतो
हतैः
।
न
हि
भीतवधः
श्लाघ्यो
न
स्वर्ग्यः
शूरमानिनाम्
5
▾
Meaning
Keep
यदि
वः
प्रधने
श्रद्धा
सारं
वा
क्षुल्लका
हृदि
।
अग्रे
तिष्ठत
मात्रं
मे
न
चेद्ग्राम्यसुखे
स्पृहा
6
▾
Meaning
Keep
एवं
सुरगणान्
क्रुद्धो
भीषयन्
वपुषा
रिपून्
।
व्यनदत्सुमहाप्राणो
येन
लोका
विचेतसः
7
▾
Meaning
Keep
तेन
देवगणाः
सर्वे
वृत्रविस्फोटनेन
वै
।
निपेतुर्मूर्च्छिता
भूमौ
यथैवाशनिना
हताः
8
▾
Meaning
Keep
ममर्द
पद्भ्यां
सुरसैन्यमातुरं
निमीलिताक्षं
रणरङ्गदुर्मदः
।
गां
कम्पयन्नुद्यतशूल
ओजसा
नालं
वनं
यूथपतिर्यथोन्मदः
9
▾
Meaning
Keep
विलोक्य
तं
वज्रधरोऽत्यमर्षितः
स्वशत्रवेऽभिद्रवते
महागदाम्
।
चिक्षेप
तामापततीं
सुदुःसहां
जग्राह
वामेन
करेण
लीलया
10
▾
Meaning
Keep
स
इन्द्रशत्रुः
कुपितो
भृशं
तया
महेन्द्रवाहं
गदयोरुविक्रमः
।
जघान
कुम्भस्थल
उन्नदन्
मृधे
तत्कर्म
सर्वे
समपूजयन्
नृप
11
▾
Meaning
Keep
ऐरावतो
वृत्रगदाभिमृष्टो
विघूर्णितोऽद्रिः
कुलिशाहतो
यथा
।
अपासरद्भिन्नमुखः
सहेन्द्रो
मुञ्चन्नसृक्
सप्तधनुर्भृशार्तः
12
▾
Meaning
Keep
न
सन्नवाहाय
विषण्णचेतसे
प्रायुङ्क्त
भूयः
स
गदां
महात्मा
।
इन्द्रोऽमृतस्यन्दिकराभिमर्श-
वीतव्यथक्षतवाहोऽवतस्थे
13
▾
Meaning
Keep
स
तं
नृपेन्द्राहवकाम्यया
रिपुं
वज्रायुधं
भ्रातृहणं
विलोक्य
।
स्मरंश्च
तत्कर्म
नृशंसमंहः
शोकेन
मोहेन
हसञ्जगाद
14
▾
Meaning
Keep
दिष्ट्या
भवान्
मे
समवस्थितो
रिपु-
र्यो
ब्रह्महा
गुरुहा
भ्रातृहा
च
।
दिष्ट्यानृणोऽद्याहमसत्तम
त्वया
मच्छूलनिर्भिन्नदृषद्धृदाचिरात्
15
▾
Meaning
Keep
यो
नोऽग्रजस्यात्मविदो
द्विजाते-
र्गुरोरपापस्य
च
दीक्षितस्य
।
विश्रभ्य
खड्गेन
शिरांस्यवृश्च-
त्पशोरिवाकरुणः
स्वर्गकामः
16
▾
Meaning
Keep
ह्रीश्रीदयाकीर्तिभिरुज्झितं
त्वां
स्वकर्मणा
पुरुषादैश्च
गर्ह्यम्
।
कृच्छ्रेण
मच्छूलविभिन्नदेहमस्पृष्टवह्निं
समदन्ति
गृध्राः
17
▾
Meaning
Keep
अन्येऽनु
ये
त्वेह
नृशंसमज्ञा
ये
ह्युद्यतास्त्राः
प्रहरन्ति
मह्यम्
।
तैर्भूतनाथान्
सगणान्
निशात-
त्रिशूलनिर्भिन्नगलैर्यजामि
18
▾
Meaning
Keep
अथो
हरे
मे
कुलिशेन
वीर
हर्ता
प्रमथ्यैव
शिरो
यदीह
।
तत्रानृणो
भूतबलिं
विधाय
मनस्विनां
पादरजः
प्रपत्स्ये
19
▾
Meaning
Keep
सुरेश
कस्मान्न
हिनोषि
वज्रं
पुरः
स्थिते
वैरिणि
मय्यमोघम्
।
मा
संशयिष्ठा
न
गदेव
वज्रः
स्यान्निष्फलः
कृपणार्थेव
याच्ञा
20
▾
Meaning
Keep
नन्वेष
वज्रस्तव
शक्र
तेजसा
हरेर्दधीचेस्तपसा
च
तेजितः
।
तेनैव
शत्रुं
जहि
विष्णुयन्त्रितो
यतो
हरिर्विजयः
श्रीर्गुणास्ततः
21
▾
Meaning
Keep
अहं
समाधाय
मनो
यथाऽऽह
सङ्कर्षणस्तच्चरणारविन्दे
।
त्वद्वज्ररंहोलुलितग्राम्यपाशो
गतिं
मुनेर्याम्यपविद्धलोकः
22
▾
Meaning
Keep
पुंसां
किलैकान्तधियां
स्वकानां
याः
सम्पदो
दिवि
भूमौ
रसायाम्
।
न
राति
यद्द्वेष
उद्वेग
आधि-
र्मदः
कलिर्व्यसनं
सम्प्रयासः
23
▾
Meaning
Keep
त्रैवर्गिकायासविघातमस्म-
त्पतिर्विधत्ते
पुरुषस्य
शक्र
।
ततोऽनुमेयो
भगवत्प्रसादो
यो
दुर्लभोऽकिञ्चनगोचरोऽन्यैः
24
▾
Meaning
Keep
अहं
हरे
तव
पादैकमूल-
दासानुदासो
भवितास्मि
भूयः
।
मनः
स्मरेतासुपतेर्गुणांस्ते
गृणीत
वाक्कर्म
करोतु
कायः
25
▾
Meaning
Keep
न
नाकपृष्ठं
न
च
पारमेष्ठ्यं
न
सार्वभौमं
न
रसाधिपत्यम्
।
न
योगसिद्धीरपुनर्भवं
वा
समञ्जस
त्वा
विरहय्य
काङ्क्षे
26
▾
Meaning
Keep
अजातपक्षा
इव
मातरं
खगाः
स्तन्यं
यथा
वत्सतराः
क्षुधार्ताः
।
प्रियं
प्रियेव
व्युषितं
विषण्णा
मनोऽरविन्दाक्ष
दिदृक्षते
त्वाम्
27
▾
Meaning
Keep
ममोत्तमश्लोकजनेषु
सख्यं
संसारचक्रे
भ्रमतः
स्वकर्मभिः
।
त्वन्माययाऽऽत्मात्मजदारगेहेष्वासक्तचित्तस्य
न
नाथ
भूयात्
Previous
←
The Bones of Dadhyanc
Next
The Death of Vrtra
→