Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Death of Vrtra
Śrīmad Bhāgavatam
›
Canto 6
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एवं
जिहासुर्नृप
देहमाजौ
मृत्युं
वरं
विजयान्मन्यमानः
।
शूलं
प्रगृह्याभ्यपतत्सुरेन्द्रं
यथा
महापुरुषं
कैटभोऽप्सु
2
▾
Meaning
Keep
ततो
युगान्ताग्निकठोरजिह्व-
माविध्य
शूलं
तरसासुरेन्द्रः
।
क्षिप्त्वा
महेन्द्राय
विनद्य
वीरो
हतोऽसि
पापेति
रुषा
जगाद
3
▾
Meaning
Keep
ख
आपतत्तद्विचलद्ग्रहोल्कव-
न्निरीक्ष्य
दुष्प्रेक्ष्यमजातविक्लवः
।
वज्रेण
वज्री
शतपर्वणाच्छिन-
द्भुजं
च
तस्योरगराजभोगम्
4
▾
Meaning
Keep
छिन्नैकबाहुः
परिघेण
वृत्रः
संरब्ध
आसाद्य
गृहीतवज्रम्
।
हनौ
तताडेन्द्रमथामरेभं
वज्रं
च
हस्तान्न्यपतन्मघोनः
5
▾
Meaning
Keep
वृत्रस्य
कर्मातिमहाद्भुतं
तत्
सुरासुराश्चारणसिद्धसङ्घाः
।
अपूजयंस्तत्पुरुहूतसङ्कटं
निरीक्ष्य
हा
हेति
विचुक्रुशुर्भृशम्
6
▾
Meaning
Keep
इन्द्रो
न
वज्रं
जगृहे
विलज्जित-
श्च्युतं
स्वहस्तादरिसन्निधौ
पुनः
।
तमाह
वृत्रो
हर
आत्तवज्रो
जहि
स्वशत्रुं
न
विषादकालः
7
▾
Meaning
Keep
युयुत्सतां
कुत्रचिदाततायिनां
जयः
सदैकत्र
न
वै
परात्मनाम्
।
विनैकमुत्पत्तिलयस्थितीश्वरं
सर्वज्ञमाद्यं
पुरुषं
सनातनम्
8
▾
Meaning
Keep
लोकाः
सपाला
यस्येमे
श्वसन्ति
विवशा
वशे
।
द्विजा
इव
शिचा
बद्धाः
स
काल
इह
कारणम्
9
▾
Meaning
Keep
ओजः
सहो
बलं
प्राणममृतं
मृत्युमेव
च
।
तमज्ञाय
जनो
हेतुमात्मानं
मन्यते
जडम्
10
▾
Meaning
Keep
यथा
दारुमयी
नारी
यथा
पत्रमयो
मृगः
।
एवं
भूतानि
मघवन्नीशतन्त्राणि
विद्धि
भोः
11
▾
Meaning
Keep
पुरुषः
प्रकृतिर्व्यक्तमात्मा
भूतेन्द्रियाशयाः
।
शक्नुवन्त्यस्य
सर्गादौ
न
विना
यदनुग्रहात्
12
▾
Meaning
Keep
अविद्वानेवमात्मानं
मन्यतेऽनीशमीश्वरम्
।
भूतैः
सृजति
भूतानि
ग्रसते
तानि
तैः
स्वयम्
13
▾
Meaning
Keep
आयुः
श्रीः
कीर्तिरैश्वर्यमाशिषः
पुरुषस्य
याः
।
भवन्त्येव
हि
तत्काले
यथानिच्छोर्विपर्ययाः
14
▾
Meaning
Keep
तस्मादकीर्तियशसोर्जयापजययोरपि
।
समः
स्यात्सुखदुःखाभ्यां
मृत्युजीवितयोस्तथा
15
▾
Meaning
Keep
सत्त्वं
रजस्तम
इति
प्रकृतेर्नात्मनो
गुणाः
।
तत्र
साक्षिणमात्मानं
यो
वेद
स
न
बध्यते
16
▾
Meaning
Keep
पश्य
मां
निर्जितं
शक्र
वृक्णायुधभुजं
मृधे
।
घटमानं
यथाशक्ति
तव
प्राणजिहीर्षया
17
▾
Meaning
Keep
प्राणग्लहोऽयं
समर
इष्वक्षो
वाहनासनः
।
अत्र
न
ज्ञायतेऽमुष्य
जयोऽमुष्य
पराजयः
18
▾
Meaning
Keep
इन्द्रो
वृत्रवचः
श्रुत्वा
गतालीकमपूजयत्
।
गृहीतवज्रः
प्रहसंस्तमाह
गतविस्मयः
19
▾
Meaning
Keep
अहो
दानव
सिद्धोऽसि
यस्य
ते
मतिरीदृशी
।
भक्तः
सर्वात्मनाऽऽत्मानं
सुहृदं
जगदीश्वरम्
20
▾
Meaning
Keep
भवानतार्षीन्मायां
वै
वैष्णवीं
जनमोहिनीम्
।
यद्विहायासुरं
भावं
महापुरुषतां
गतः
21
▾
Meaning
Keep
खल्विदं
महदाश्चर्यं
यद्रजःप्रकृतेस्तव
।
वासुदेवे
भगवति
सत्त्वात्मनि
दृढा
मतिः
22
▾
Meaning
Keep
यस्य
भक्तिर्भगवति
हरौ
निःश्रेयसेश्वरे
।
विक्रीडतोऽमृताम्भोधौ
किं
क्षुद्रैः
खातकोदकैः
23
▾
Meaning
Keep
इति
ब्रुवाणावन्योन्यं
धर्मजिज्ञासया
नृप
।
युयुधाते
महावीर्याविन्द्रवृत्रौ
युधाम्पती
24
▾
Meaning
Keep
आविध्य
परिघं
वृत्रः
कार्ष्णायसमरिन्दमः
।
इन्द्राय
प्राहिणोद्घोरं
वामहस्तेन
मारिष
25
▾
Meaning
Keep
स
तु
वृत्रस्य
परिघं
करं
च
करभोपमम्
।
चिच्छेद
युगपद्देवो
वज्रेण
शतपर्वणा
26
▾
Meaning
Keep
दोर्भ्यामुत्कृत्तमूलाभ्यां
बभौ
रक्तस्रवोऽसुरः
।
छिन्नपक्षो
यथा
गोत्रः
खाद्भ्रष्टो
वज्रिणा
हतः
27
▾
Meaning
Keep
कृत्वाधरां
हनुं
भूमौ
दैत्यो
दिव्युत्तरां
हनुम्
।
नभोगम्भीरवक्त्रेण
लेलिहोल्बणजिह्वया
28
▾
Meaning
Keep
दंष्ट्राभिः
कालकल्पाभिर्ग्रसन्निव
जगत्त्रयम्
।
अतिमात्रमहाकाय
आक्षिपंस्तरसा
गिरीन्
29
▾
Meaning
Keep
गिरिराट्
पादचारीव
पद्भ्यां
निर्जरयन्
महीम्
।
जग्रास
स
समासाद्य
वज्रिणं
सहवाहनम्
30
▾
Meaning
Keep
महाप्राणो
महावीर्यो
महासर्प
इव
द्विपम्
।
वृत्रग्रस्तं
तमालक्ष्य
सप्रजापतयः
सुराः
।
हा
कष्टमिति
निर्विण्णाश्चुक्रुशुः
समहर्षयः
31
▾
Meaning
Keep
निगीर्णोऽप्यसुरेन्द्रेण
न
ममारोदरं
गतः
।
महापुरुषसन्नद्धो
योगमायाबलेन
च
32
▾
Meaning
Keep
भित्त्वा
वज्रेण
तत्कुक्षिं
निष्क्रम्य
बलभिद्विभुः
।
उच्चकर्त
शिरः
शत्रोर्गिरिशृङ्गमिवौजसा
33
▾
Meaning
Keep
वज्रस्तु
तत्कन्धरमाशुवेगः
कृन्तन्
समन्तात्परिवर्तमानः
।
न्यपातयत्तावदहर्गणेन
यो
ज्योतिषामयने
वार्त्रहत्ये
34
▾
Meaning
Keep
तदा
च
खे
दुन्दुभयो
विनेदु-
र्गन्धर्वसिद्धाः
समहर्षिसङ्घाः
।
वार्त्रघ्नलिङ्गैस्तमभिष्टुवाना
मन्त्रैर्मुदा
कुसुमैरभ्यवर्षन्
35
▾
Meaning
Keep
वृत्रस्य
देहान्निष्क्रान्तमात्मज्योतिररिन्दम
।
पश्यतां
सर्वलोकानामलोकं
समपद्यत
Previous
←
Vrtra Calls Indra to Throw
Next
Indra and the Killing of a Brahmin
→