Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · What Angiras and Narada Told the King
Śrīmad Bhāgavatam
›
Canto 6
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
ऊचतुर्मृतकोपान्ते
पतितं
मृतकोपमम्
।
शोकाभिभूतं
राजानं
बोधयन्तौ
सदुक्तिभिः
2
▾
Meaning
Keep
कोऽयं
स्यात्तव
राजेन्द्र
भवान्
यमनुशोचति
।
त्वं
चास्य
कतमः
सृष्टौ
पुरेदानीमतः
परम्
3
▾
Meaning
Keep
यथा
प्रयान्ति
संयान्ति
स्रोतोवेगेन
बालुकाः
।
संयुज्यन्ते
वियुज्यन्ते
तथा
कालेन
देहिनः
4
▾
Meaning
Keep
यथा
धानासु
वै
धाना
भवन्ति
न
भवन्ति
च
।
एवं
भूतेषु
भूतानि
चोदितानीशमायया
5
▾
Meaning
Keep
वयं
च
त्वं
च
ये
चेमे
तुल्यकालाश्चराचराः
।
जन्ममृत्योर्यथा
पश्चात्प्राङ्
नैवमधुनापि
भोः
6
▾
Meaning
Keep
भूतैर्भूतानि
भूतेशः
सृजत्यवति
हन्ति
च
।
आत्मसृष्टैरस्वतन्त्रैरनपेक्षोऽपि
बालवत्
7
▾
Meaning
Keep
देहेन
देहिनो
राजन्
देहाद्देहोऽभिजायते
।
बीजादेव
यथा
बीजं
देह्यर्थ
इव
शाश्वतः
8
▾
Meaning
Keep
देहदेहिविभागोऽयमविवेककृतः
पुरा
।
जातिव्यक्तिविभागोऽयं
यथा
वस्तुनि
कल्पितः
9
▾
Meaning
Keep
एवमाश्वासितो
राजा
चित्रकेतुर्द्विजोक्तिभिः
।
विमृज्य
पाणिना
वक्त्रमाधिम्लानमभाषत
10
▾
Meaning
Keep
कौ
युवां
ज्ञानसम्पन्नौ
महिष्ठौ
च
महीयसाम्
।
अवधूतेन
वेषेण
गूढाविह
समागतौ
11
▾
Meaning
Keep
चरन्ति
ह्यवनौ
कामं
ब्राह्मणा
भगवत्प्रियाः
।
मादृशां
ग्राम्यबुद्धीनां
बोधायोन्मत्तलिङ्गिनः
12
▾
Meaning
Keep
कुमारो
नारद
ऋभुरङ्गिरा
देवलोऽसितः
।
अपान्तरतमो
व्यासो
मार्कण्डेयोऽथ
गौतमः
13
▾
Meaning
Keep
वसिष्ठो
भगवान्
रामः
कपिलो
बादरायणिः
।
दुर्वासा
याज्ञवल्क्यश्च
जातूकर्णस्तऽऽथारुणिः
14
▾
Meaning
Keep
रोमशश्च्यवनो
दत्त
आसुरिः
सपतञ्जलिः
।
ऋषिर्वेदशिरा
बोध्यो
मुनिः
पञ्चशिखस्तथा
15
▾
Meaning
Keep
हिरण्यनाभः
कौशल्यः
श्रुतदेव
ऋतध्वजः
।
एते
परे
च
सिद्धेशाश्चरन्ति
ज्ञानहेतवः
16
▾
Meaning
Keep
तस्माद्युवां
ग्राम्यपशोर्मम
मूढधियः
प्रभू
।
अन्धे
तमसि
मग्नस्य
ज्ञानदीप
उदीर्यताम्
17
▾
Meaning
Keep
अहं
ते
पुत्रकामस्य
पुत्रदोऽस्म्यङ्गिरा
नृप
।
एष
ब्रह्मसुतः
साक्षान्नारदो
भगवान्
ऋषिः
18
▾
Meaning
Keep
इत्थं
त्वां
पुत्रशोकेन
मग्नं
तमसि
दुस्तरे
।
अतदर्हमनुस्मृत्य
महापुरुषगोचरम्
19
▾
Meaning
Keep
अनुग्रहाय
भवतः
प्राप्तावावामिह
प्रभो
।
ब्रह्मण्यो
भगवद्भक्तो
नावासादितुमर्हति
20
▾
Meaning
Keep
तदैव
ते
परं
ज्ञानं
ददामि
गृहमागतः
।
ज्ञात्वान्याभिनिवेशं
ते
पुत्रमेव
ददाम्यहम्
21
▾
Meaning
Keep
अधुना
पुत्रिणां
तापो
भवतैवानुभूयते
।
एवं
दारा
गृहा
रायो
विविधैश्वर्यसम्पदः
22
▾
Meaning
Keep
शब्दादयश्च
विषयाश्चला
राज्यविभूतयः
।
मही
राज्यं
बलं
कोषो
भृत्यामात्याःसुहृज्जनाः
23
▾
Meaning
Keep
सर्वेऽपि
शूरसेनेमे
शोकमोहभयार्तिदाः
।
गन्धर्वनगरप्रख्याः
स्वप्नमायामनोरथाः
24
▾
Meaning
Keep
दृश्यमाना
विनार्थेन
न
दृश्यन्ते
मनोभवाः
।
कर्मभिर्ध्यायतो
नानाकर्माणि
मनसोऽभवन्
25
▾
Meaning
Keep
अयं
हि
देहिनो
देहो
द्रव्यज्ञानक्रियात्मकः
।
देहिनो
विविधक्लेशसन्तापकृदुदाहृतः
26
▾
Meaning
Keep
तस्मात्स्वस्थेन
मनसा
विमृश्य
गतिमात्मनः
।
द्वैते
ध्रुवार्थविश्रम्भं
त्यजोपशममाविश
27
▾
Meaning
Keep
एतां
मन्त्रोपनिषदं
प्रतीच्छ
प्रयतो
मम
।
यां
धारयन्
सप्तरात्राद्द्रष्टा
सङ्कर्षणं
प्रभुम्
28
▾
Meaning
Keep
यत्पादमूलमुपसृत्य
नरेन्द्र
पूर्वे
शर्वादयो
भ्रममिमं
द्वितयं
विसृज्य
।
सद्यस्तदीयमतुलानधिकं
महित्वं
प्रापुर्भवानपि
परं
न
चिरादुपैति
Previous
←
The Son Given to Citraketu
Next
The Dead Boy Speaks, and Citraketu Sees Sesa
→