Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Son Given to Citraketu
Śrīmad Bhāgavatam
›
Canto 6
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
परीक्षिदुवाच ।
रजस्तमःस्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः ।
नारायणे भगवति कथमासीद्दृढा मतिः
2
▾
Meaning
Keep
देवानां
शुद्धसत्त्वानामृषीणां
चामलात्मनाम्
।
भक्तिर्मुकुन्दचरणे
न
प्रायेणोपजायते
3
▾
Meaning
Keep
रजोभिः
समसंख्याताः
पार्थिवैरिह
जन्तवः
।
तेषां
ये
केचनेहन्ते
श्रेयो
वै
मनुजादयः
4
▾
Meaning
Keep
प्रायो
मुमुक्षवस्तेषां
केचनैव
द्विजोत्तम
।
मुमुक्षूणां
सहस्रेषु
कश्चिन्मुच्येत
सिध्यति
5
▾
Meaning
Keep
मुक्तानामपि
सिद्धानां
नारायणपरायणः
।
सुदुर्लभः
प्रशान्तात्मा
कोटिष्वपि
महामुने
6
▾
Meaning
Keep
वृत्रस्तु
स
कथं
पापः
सर्वलोकोपतापनः
।
इत्थं
दृढमतिः
कृष्ण
आसीत्
संग्राम
उल्बणे
7
▾
Meaning
Keep
अत्र
नः
संशयो
भूयाञ्छ्रोतुं
कौतूहलं
प्रभो
।
यः
पौरुषेण
समरे
सहस्राक्षमतोषयत्
8
▾
Meaning
Keep
परीक्षितोऽथ
सम्प्रश्नं
भगवान्
बादरायणिः
।
निशम्य
श्रद्दधानस्य
प्रतिनन्द्य
वचोऽब्रवीत्
9
▾
Meaning
Keep
शृणुष्वावहितो
राजन्नितिहासमिमं
यथा
।
श्रुतं
द्वैपायनमुखान्नारदाद्देवलादपि
10
▾
Meaning
Keep
आसीद्राजा
सार्वभौमः
शूरसेनेषु
वै
नृप
।
चित्रकेतुरिति
ख्यातो
यस्यासीत्कामधुङ्मही
11
▾
Meaning
Keep
तस्य
भार्यासहस्राणां
सहस्राणि
दशाभवन्
।
सान्तानिकश्चापि
नृपो
न
लेभे
तासु
सन्ततिम्
12
▾
Meaning
Keep
रूपौदार्यवयोजन्मविद्यैश्वर्यश्रियादिभिः
।
सम्पन्नस्य
गुणैः
सर्वैश्चिन्ता
बन्ध्यापतेरभूत्
13
▾
Meaning
Keep
न
तस्य
सम्पदः
सर्वा
महिष्यो
वामलोचनाः
।
सार्वभौमस्य
भूश्चेयमभवन्
प्रीतिहेतवः
14
▾
Meaning
Keep
तस्यैकदा
तु
भवनमङ्गिरा
भगवान्
ऋषिः
।
लोकाननुचरन्नेतानुपागच्छद्यदृच्छया
15
▾
Meaning
Keep
तं
पूजयित्वा
विधिवत्प्रत्युत्थानार्हणादिभिः
।
कृतातिथ्यमुपासीदत्सुखासीनं
समाहितः
16
▾
Meaning
Keep
महर्षिस्तमुपासीनं
प्रश्रयावनतं
क्षितौ
।
प्रतिपूज्य
महाराज
समाभाष्येदमब्रवीत्
17
▾
Meaning
Keep
अपि
तेऽनामयं
स्वस्ति
प्रकृतीनां
तथाऽऽत्मनः
।
यथा
प्रकृतिभिर्गुप्तः
पुमान्राजा
च
सप्तभिः
18
▾
Meaning
Keep
आत्मानं
प्रकृतिष्वद्धा
निधाय
श्रेय
आप्नुयात्
।
राज्ञा
तथा
प्रकृतयो
नरदेवाहिताधयः
19
▾
Meaning
Keep
अपि
दाराः
प्रजामात्या
भृत्याः
श्रेण्योऽथ
मन्त्रिणः
।
पौरा
जानपदा
भूपा
आत्मजा
वशवर्तिनः
20
▾
Meaning
Keep
यस्यात्मानुवशश्चेत्स्यात्सर्वे
तद्वशगा
इमे
।
लोकाः
सपाला
यच्छन्ति
सर्वे
बलिमतन्द्रिताः
21
▾
Meaning
Keep
आत्मनः
प्रीयते
नात्मा
परतः
स्वत
एव
वा
।
लक्षयेऽलब्धकामं
त्वां
चिन्तया
शबलं
मुखम्
22
▾
Meaning
Keep
एवं
विकल्पितो
राजन्
विदुषा
मुनिनापि
सः
।
प्रश्रयावनतोऽभ्याह
प्रजाकामस्ततो
मुनिम्
23
▾
Meaning
Keep
भगवन्
किं
न
विदितं
तपोज्ञानसमाधिभिः
।
योगिनां
ध्वस्तपापानां
बहिरन्तः
शरीरिषु
24
▾
Meaning
Keep
तथापि
पृच्छतो
ब्रूयां
ब्रह्मन्नात्मनि
चिन्तितम्
।
भवतो
विदुषश्चापि
चोदितस्त्वदनुज्ञया
25
▾
Meaning
Keep
लोकपालैरपि
प्रार्थ्याः
साम्राज्यैश्वर्यसम्पदः
।
न
नन्दयन्त्यप्रजं
मां
क्षुत्तृट्काममिवापरे
26
▾
Meaning
Keep
ततः
पाहि
महाभाग
पूर्वैः
सह
गतं
तमः
।
यथा
तरेम
दुस्तारं
प्रजया
तद्विधेहि
नः
27
▾
Meaning
Keep
इत्यर्थितः
स
भगवान्
कृपालुर्ब्रह्मणः
सुतः
।
श्रपयित्वा
चरुं
त्वाष्ट्रं
त्वष्टारमयजद्विभुः
28
▾
Meaning
Keep
ज्येष्ठा
श्रेष्ठा
च
या
राज्ञो
महिषीणां
च
भारत
।
नाम्ना
कृतद्युतिस्तस्यै
यज्ञोच्छिष्टमदाद्द्विजः
29
▾
Meaning
Keep
अथाह
नृपतिं
राजन्
भवितैकस्तवात्मजः
।
हर्षशोकप्रदस्तुभ्यमिति
ब्रह्मसुतो
ययौ
30
▾
Meaning
Keep
सापि
तत्प्राशनादेव
चित्रकेतोरधारयत्
।
गर्भं
कृतद्युतिर्देवी
कृत्तिकाग्नेरिवात्मजम्
31
▾
Meaning
Keep
तस्या
अनुदिनं
गर्भः
शुक्लपक्ष
इवोडुपः
।
ववृधे
शूरसेनेशतेजसा
शनकैर्नृप
32
▾
Meaning
Keep
अथ
काल
उपावृत्ते
कुमारः
समजायत
।
जनयन्
शूरसेनानां
शृण्वतां
परमां
मुदम्
33
▾
Meaning
Keep
हृष्टो
राजा
कुमारस्य
स्नातः
शुचिरलङ्कृतः
।
वाचयित्वाऽऽशिषो
विप्रैः
कारयामास
जातकम्
34
▾
Meaning
Keep
तेभ्यो
हिरण्यं
रजतं
वासांस्याभरणानि
च
।
ग्रामान्
हयान्
गजान्
प्रादाद्धेनूनामर्बुदानि
षट्
35
▾
Meaning
Keep
ववर्ष
कामानन्येषां
पर्जन्य
इव
देहिनाम्
।
धन्यं
यशस्यमायुष्यं
कुमारस्य
महामनाः
36
▾
Meaning
Keep
कृच्छ्रलब्धेऽथ
राजर्षेस्तनयेऽनुदिनं
पितुः
।
यथा
निःस्वस्य
कृच्छ्राप्ते
धने
स्नेहोऽन्ववर्धत
37
▾
Meaning
Keep
मातुस्त्वतितरां
पुत्रे
स्नेहो
मोहसमुद्भवः
।
कृतद्युतेः
सपत्नीनां
प्रजाकामज्वरोऽभवत्
38
▾
Meaning
Keep
चित्रकेतोरतिप्रीतिर्यथा
दारे
प्रजावति
।
न
तथान्येषु
संजज्ञे
बालं
लालयतोऽन्वहम्
39
▾
Meaning
Keep
ताः
पर्यतप्यन्नात्मानं
गर्हयन्त्योऽभ्यसूयया
।
आनपत्येन
दुःखेन
राज्ञोऽनादरेण
च
40
▾
Meaning
Keep
धिगप्रजां
स्त्रियं
पापां
पत्युश्चागृहसम्मताम्
।
सुप्रजाभिः
सपत्नीभिर्दासीमिव
तिरस्कृताम्
41
▾
Meaning
Keep
दासीनां
को
नु
सन्तापः
स्वामिनः
परिचर्यया
।
अभीक्ष्णं
लब्धमानानां
दास्या
दासीव
दुर्भगाः
42
▾
Meaning
Keep
एवं
सन्दह्यमानानां
सपत्न्याः
पुत्रसम्पदा
।
राज्ञोऽसम्मतवृत्तीनां
विद्वेषो
बलवानभूत्
43
▾
Meaning
Keep
विद्वेषनष्टमतयः
स्त्रियो
दारुणचेतसः
।
गरं
ददुः
कुमाराय
दुर्मर्षा
नृपतिं
प्रति
44
▾
Meaning
Keep
कृतद्युतिरजानन्ती
सपत्नीनामघं
महत्
।
सुप्त
एवेति
सञ्चिन्त्य
निरीक्ष्य
व्यचरद्गृहे
45
▾
Meaning
Keep
शयानं
सुचिरं
बालमुपधार्य
मनीषिणी
।
पुत्रमानय
मे
भद्रे
इति
धात्रीमचोदयत्
46
▾
Meaning
Keep
सा
शयानमुपव्रज्य
दृष्ट्वा
चोत्तारलोचनम्
।
प्राणेन्द्रियात्मभिस्त्यक्तं
हतास्मीत्यपतद्भुवि
47
▾
Meaning
Keep
तस्यास्तदाऽऽकर्ण्य
भृशातुरं
स्वरं
घ्नन्त्याः
कराभ्यामुर
उच्चकैरपि
।
प्रविश्य
राज्ञी
त्वरयाऽऽत्मजान्तिकं
ददर्श
बालं
सहसा
मृतं
सुतम्
48
▾
Meaning
Keep
पपात
भूमौ
परिवृद्धया
शुचा
मुमोह
विभ्रष्टशिरोरुहाम्बरा
49
▾
Meaning
Keep
ततो
नृपान्तःपुरवर्तिनो
जना
नराश्च
नार्यश्च
निशम्य
रोदनम्
।
आगत्य
तुल्यव्यसनाः
सुदुःखिता-
स्ताश्च
व्यलीकं
रुरुदुः
कृतागसः
50
▾
Meaning
Keep
श्रुत्वा
मृतं
पुत्रमलक्षितान्तकं
विनष्टदृष्टिः
प्रपतन्
स्खलन्
पथि
।
स्नेहानुबन्धैधितया
शुचा
भृशं
विमूर्च्छितोऽनुप्रकृतिर्द्विजैर्वृतः
51
▾
Meaning
Keep
पपात
बालस्य
स
पादमूले
मृतस्य
विस्रस्तशिरोरुहाम्बरः
।
दीर्घं
श्वसन्
बाष्पकलोपरोधतो
निरुद्धकण्ठो
न
शशाक
भाषितुम्
52
▾
Meaning
Keep
पतिं
निरीक्ष्योरुशुचार्पितं
तदा
मृतं
च
बालं
सुतमेकसन्ततिम्
।
जनस्य
राज्ञी
प्रकृतेश्च
हृद्रुजं
सती
दधाना
विललाप
चित्रधा
53
▾
Meaning
Keep
स्तनद्वयं
कुङ्कुमपङ्कमण्डितं
निषिञ्चती
साञ्जनबाष्पबिन्दुभिः
।
विकीर्य
केशान्
विगलत्स्रजः
सुतं
शुशोच
चित्रं
कुररीव
सुस्वरम्
54
▾
Meaning
Keep
अहो
विधातस्त्वमतीव
बालिशो
यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे
।
परेऽ
नु
जीवत्यपरस्य
या
मृतिर्विपर्ययश्चेत्
त्वमसि
ध्रुवः
परः
55
▾
Meaning
Keep
न
हि
क्रमश्चेदिह
मृत्युजन्मनोः
शरीरिणामस्तु
तदाऽऽत्मकर्मभिः
।
यः
स्नेहपाशो
निजसर्गवृद्धये
स्वयं
कृतस्ते
तमिमं
विवृश्चसि
56
▾
Meaning
Keep
त्वं
तात
नार्हसि
च
मां
कृपणामनाथां
त्यक्तुं
विचक्ष्व
पितरं
तव
शोकतप्तम्
।
अञ्जस्तरेम
भवताप्रजदुस्तरं
यद्-
ध्वान्तं
न
याह्यकरुणेन
यमेन
दूरम्
57
▾
Meaning
Keep
उत्तिष्ठ
तात
त
इमे
शिशवो
वयस्या-
स्त्वामाह्वयन्ति
नृपनन्दन
संविहर्तुम्
।
सुप्तश्चिरं
ह्यशनया
च
भवान्
परीतो
भुङ्क्ष्व
स्तनं
पिब
शुचो
हर
नः
स्वकानाम्
58
▾
Meaning
Keep
नाहं
तनूज
ददृशे
हतमङ्गला
ते
मुग्धस्मितं
मुदितवीक्षणमाननाब्जम्
।
किं
वा
गतोऽस्यपुनरन्वयमन्यलोकं
नीतोऽघृणेन
न
शृणोमि
कला
गिरस्ते
59
▾
Meaning
Keep
विलपन्त्या
मृतं
पुत्रमिति
चित्रविलापनैः
।
चित्रकेतुर्भृशं
तप्तो
मुक्तकण्ठो
रुरोद
ह
60
▾
Meaning
Keep
तयोर्विलपतोः
सर्वे
दम्पत्योस्तदनुव्रताः
।
रुरुदुः
स्म
नरा
नार्यः
सर्वमासीदचेतनम्
61
▾
Meaning
Keep
एवं
कश्मलमापन्नं
नष्टसंज्ञमनायकम्
।
ज्ञात्वाङ्गिरा
नाम
ऋषिराजगाम
सनारदः
Previous
←
Indra and the Killing of a Brahmin
Next
What Angiras and Narada Told the King
→