Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Birth of the Maruts
Śrīmad Bhāgavatam
›
Canto 6
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
पृश्निस्तु
पत्नी
सवितुः
सावित्रीं
व्याहृतिं
त्रयीम्
।
अग्निहोत्रं
पशुं
सोमं
चातुर्मास्यं
महामखान्
2
▾
Meaning
Keep
सिद्धिर्भगस्य
भार्याङ्ग
महिमानं
विभुं
प्रभुम्
।
आशिषं
च
वरारोहां
कन्यां
प्रासूत
सुव्रताम्
3
▾
Meaning
Keep
धातुः
कुहूः
सिनीवाली
राका
चानुमतिस्तथा
।
सायं
दर्शमथ
प्रातः
पूर्णमासमनुक्रमात्
4
▾
Meaning
Keep
अग्नीन्
पुरीष्यानाधत्त
क्रियायां
समनन्तरः
।
चर्षणी
वरुणस्यासीद्यस्यां
जातो
भृगुः
पुनः
5
▾
Meaning
Keep
वाल्मीकिश्च
महायोगी
वल्मीकादभवत्किल
।
अगस्त्यश्च
वसिष्ठश्च
मित्रावरुणयोरृषी
6
▾
Meaning
Keep
रेतः
सिषिचतुः
कुम्भे
उर्वश्याः
सन्निधौ
द्रुतम्
।
रेवत्यां
मित्र
उत्सर्गमरिष्टं
पिप्पलं
व्यधात्
7
▾
Meaning
Keep
पौलोम्यामिन्द्र
आधत्त
त्रीन्
पुत्रानिति
नः
श्रुतम्
।
जयन्तमृषभं
तात
तृतीयं
मीढुषं
प्रभुः
8
▾
Meaning
Keep
उरुक्रमस्य
देवस्य
मायावामनरूपिणः
।
कीर्तौ
पत्न्यां
बृहच्छ्लोकस्तस्यासन्
सौभगादयः
9
▾
Meaning
Keep
तत्कर्मगुणवीर्याणि
काश्यपस्य
महात्मनः
।
पश्चाद्
वक्ष्यामहेऽदित्यां
यथा
वावततार
ह
10
▾
Meaning
Keep
अथ
कश्यपदायादान्
दैतेयान्
कीर्तयामि
ते
।
यत्र
भागवतः
श्रीमान्
प्रह्रादो
बलिरेव
च
11
▾
Meaning
Keep
दितेर्द्वावेव
दायादौ
दैत्यदानववन्दितौ
।
हिरण्यकशिपुर्नाम
हिरण्याक्षश्च
कीर्तितौ
12
▾
Meaning
Keep
हिरण्यकशिपोर्भार्या
कयाधुर्नाम
दानवी
।
जम्भस्य
तनया
दत्ता
सुषुवे
चतुरः
सुतान्
13
▾
Meaning
Keep
संह्रादं
प्रागनुह्रादं
ह्रादं
प्रह्रादमेव
च
।
तत्स्वसा
सिंहिका
नाम
राहुं
विप्रचितोऽग्रहीत्
14
▾
Meaning
Keep
शिरोऽहरद्यस्य
हरिश्चक्रेण
पिबतोऽमृतम्
।
संह्रादस्य
कृतिर्भार्यासूत
पञ्चजनं
ततः
15
▾
Meaning
Keep
ह्रादस्य
धमनिर्भार्यासूत
वातापिमिल्वलम्
।
योऽगस्त्याय
त्वतिथये
पेचे
वातापिमिल्वलः
16
▾
Meaning
Keep
अनुह्रादस्य
सूर्यायां
बाष्कलो
महिषस्तथा
।
विरोचनस्तु
प्राह्रादिर्देव्यास्तस्याभवद्बलिः
17
▾
Meaning
Keep
बाणज्येष्ठं
पुत्रशतमशनायां
ततोऽभवत्
।
तस्यानुभावं
सुश्लोक्यं
पश्चादेवाभिधास्यते
18
▾
Meaning
Keep
बाण
आराध्य
गिरिशं
लेभे
तद्गणमुख्यताम्
।
यत्पार्श्वे
भगवानास्ते
ह्यद्यापि
पुरपालकः
19
▾
Meaning
Keep
मरुतश्च
दितेः
पुत्राश्चत्वारिंशन्नवाधिकाः
।
त
आसन्नप्रजाः
सर्वे
नीता
इन्द्रेण
सात्मताम्
20
▾
Meaning
Keep
कथं
त
आसुरं
भावमपोह्यौत्पत्तिकं
गुरो
।
इन्द्रेण
प्रापिताः
सात्म्यं
किं
तत्साधु
कृतं
हि
तैः
21
▾
Meaning
Keep
इमे
श्रद्दधते
ब्रह्मन्नृषयो
हि
मया
सह
।
परिज्ञानाय
भगवंस्तन्नो
व्याख्यातुमर्हसि
22
▾
Meaning
Keep
तद्विष्णुरातस्य
स
बादरायणि-
र्वचो
निशम्यादृतमल्पमर्थवत्
।
सभाजयन्
सन्निभृतेन
चेतसा
जगाद
सत्रायण
सर्वदर्शनः
23
▾
Meaning
Keep
हतपुत्रा
दितिः
शक्रपार्ष्णिग्राहेण
विष्णुना
।
मन्युना
शोकदीप्तेन
ज्वलन्ती
पर्यचिन्तयत्
24
▾
Meaning
Keep
कदा
नु
भ्रातृहन्तारमिन्द्रियाराममुल्बणम्
।
अक्लिन्नहृदयं
पापं
घातयित्वा
शये
सुखम्
25
▾
Meaning
Keep
कृमिविड्भस्मसंज्ञाऽऽसीद्यस्येशाभिहितस्य
च
।
भूतध्रुक्
तत्कृते
स्वार्थं
किं
वेद
निरयो
यतः
26
▾
Meaning
Keep
आशासानस्य
तस्येदं
ध्रुवमुन्नद्धचेतसः
।
मदशोषक
इन्द्रस्य
भूयाद्येन
सुतो
हि
मे
27
▾
Meaning
Keep
इति
भावेन
सा
भर्तुराचचारासकृत्प्रियम्
।
शुश्रूषयानुरागेण
प्रश्रयेण
दमेन
च
28
▾
Meaning
Keep
भक्त्या
परमया
राजन्
मनोज्ञैर्वल्गुभाषितैः
।
मनो
जग्राह
भावज्ञा
सस्मितापाङ्गवीक्षणैः
29
▾
Meaning
Keep
एवं
स्त्रिया
जडीभूतो
विद्वानपि
विदग्ध्या
।
बाढमित्याह
विवशो
न
तच्चित्रं
हि
योषिति
30
▾
Meaning
Keep
विलोक्यैकान्तभूतानि
भूतान्यादौ
प्रजापतिः
।
स्त्रियं
चक्रे
स्वदेहार्धं
यया
पुंसां
मतिर्हृता
31
▾
Meaning
Keep
एवं
शुश्रूषितस्तात
भगवान्
कश्यपः
स्त्रिया
।
प्रहस्य
परमप्रीतो
दितिमाहाभिनन्द्य
च
32
▾
Meaning
Keep
वरं
वरय
वामोरु
प्रीतस्तेऽहमनिन्दिते
।
स्त्रिया
भर्तरि
सुप्रीते
कः
काम
इह
चागमः
33
▾
Meaning
Keep
पतिरेव
हि
नारीणां
दैवतं
परमं
स्मृतम्
।
मानसः
सर्वभूतानां
वासुदेवः
श्रियः
पतिः
34
▾
Meaning
Keep
स
एव
देवतालिङ्गैर्नामरूपविकल्पितैः
।
इज्यते
भगवान्
पुम्भिः
स्त्रीभिश्च
पतिरूपधृक्
35
▾
Meaning
Keep
तस्मात्पतिव्रतानार्यः
श्रेयस्कामाः
सुमध्यमे
।
यजन्तेऽनन्यभावेन
पतिमात्मानमीश्वरम्
36
▾
Meaning
Keep
सोऽहं
त्वयार्चितो
भद्रे
ईदृग्भावेन
भक्तितः
।
तं
ते
सम्पादये
काममसतीनां
सुदुर्लभम्
37
▾
Meaning
Keep
वरदो
यदि
मे
ब्रह्मन्
पुत्रमिन्द्रहणं
वृणे
।
अमृत्युं
मृतपुत्राहं
येन
मे
घातितौ
सुतौ
38
▾
Meaning
Keep
निशम्य
तद्वचो
विप्रो
विमनाः
पर्यतप्यत
।
अहो
अधर्मः
सुमहानद्य
मे
समुपस्थितः
39
▾
Meaning
Keep
अहो
अर्थेन्द्रियारामो
योषिन्मय्येह
मायया
।
गृहीतचेताः
कृपणः
पतिष्ये
नरके
ध्रुवम्
40
▾
Meaning
Keep
कोऽतिक्रमोऽनुवर्तन्त्याः
स्वभावमिह
योषितः
।
धिङ्
मां
बताबुधं
स्वार्थे
यदहं
त्वजितेन्द्रियः
41
▾
Meaning
Keep
शरत्पद्मोत्सवं
वक्त्रं
वचश्च
श्रवणामृतम्
।
हृदयं
क्षुरधाराभं
स्त्रीणां
को
वेद
चेष्टितम्
42
▾
Meaning
Keep
न
हि
कश्चित्प्रियः
स्त्रीणामञ्जसा
स्वाशिषात्मनाम्
।
पतिं
पुत्रं
भ्रातरं
वा
घ्नन्त्यर्थे
घातयन्ति
च
43
▾
Meaning
Keep
प्रतिश्रुतं
ददामीति
वचस्तन्न
मृषा
भवेत्
।
वधं
नार्हति
चेन्द्रोऽपि
तत्रेदमुपकल्पते
44
▾
Meaning
Keep
इति
संचिन्त्य
भगवान्
मारीचः
कुरुनन्दन
।
उवाच
किञ्चित्कुपित
आत्मानं
च
विगर्हयन्
45
▾
Meaning
Keep
पुत्रस्ते
भविता
भद्रे
इन्द्रहा
देवबान्धवः
।
संवत्सरं
व्रतमिदं
यद्यञ्जो
धारयिष्यसि
46
▾
Meaning
Keep
धारयिष्ये
व्रतं
ब्रह्मन्ब्रूहि
कार्याणि
यानि
मे
।
यानि
चेह
निषिद्धानि
न
व्रतं
घ्नन्ति
यान्युत
47
▾
Meaning
Keep
न
हिंस्याद्भूतजातानि
न
शपेन्नानृतं
वदेत्
।
न
छिन्द्यान्नखरोमाणि
न
स्पृशेद्यदमङ्गलम्
48
▾
Meaning
Keep
नाप्सु
स्नायान्न
कुप्येत
न
सम्भाषेत
दुर्जनैः
।
न
वसीताधौतवासः
स्रजं
च
विधृतां
क्वचित्
49
▾
Meaning
Keep
नोच्छिष्टं
चण्डिकान्नं
च
सामिषं
वृषलाहृतम्
।
भुञ्जीतोदक्यया
दृष्टं
पिबेन्नाञ्जलिना
त्वपः
50
▾
Meaning
Keep
नोच्छिष्टास्पृष्टसलिला
सन्ध्यायां
मुक्तमूर्धजा
।
अनर्चितासंयतवाङ्नासंवीता
बहिश्चरेत्
51
▾
Meaning
Keep
नाधौतपादाप्रयता
नार्द्रपादा
उदक्शिराः
।
शयीत
नापराङ्नान्यैर्न
नग्ना
न
च
सन्ध्ययोः
52
▾
Meaning
Keep
धौतवासा
शुचिर्नित्यं
सर्वमङ्गलसंयुता
।
पूजयेत्प्रातराशात्प्राग्गोविप्राञ्श्रियमच्युतम्
53
▾
Meaning
Keep
स्त्रियो
वीरवतीश्चार्चेत्स्रग्गन्धबलिमण्डनैः
।
पतिं
चार्च्योपतिष्ठेत
ध्यायेत्कोष्ठगतं
च
तम्
54
▾
Meaning
Keep
सांवत्सरं
पुंसवनं
व्रतमेतदविप्लुतम्
।
धारयिष्यसि
चेत्तुभ्यं
शक्रहा
भविता
सुतः
55
▾
Meaning
Keep
बाढमित्यभ्युपेत्याथ
दिती
राजन्महामनाः
।
कश्यपाद्
गर्भमाधत्त
व्रतं
चाञ्जो
दधार
सा
56
▾
Meaning
Keep
मातृष्वसुरभिप्रायमिन्द्र
आज्ञाय
मानद
।
शुश्रूषणेनाश्रमस्थां
दितिं
पर्यचरत्कविः
57
▾
Meaning
Keep
नित्यं
वनात्सुमनसः
फलमूलसमित्कुशान्
।
पत्राङ्कुरमृदोऽपश्च
काले
काल
उपाहरत्
58
▾
Meaning
Keep
एवं
तस्या
व्रतस्थाया
व्रतच्छिद्रं
हरिर्नृप
।
प्रेप्सुः
पर्यचरज्जिह्मो
मृगहेव
मृगाकृतिः
59
▾
Meaning
Keep
नाध्यगच्छद्व्रतच्छिद्रं
तत्परोऽथ
महीपते
।
चिन्तां
तीव्रां
गतः
शक्रः
केन
मे
स्याच्छिवं
त्विह
60
▾
Meaning
Keep
एकदा
सा
तु
सन्ध्यायामुच्छिष्टा
व्रतकर्शिता
।
अस्पृष्टवार्यधौताङ्घ्रिः
सुष्वाप
विधिमोहिता
61
▾
Meaning
Keep
लब्ध्वा
तदन्तरं
शक्रो
निद्रापहृतचेतसः
।
दितेः
प्रविष्ट
उदरं
योगेशो
योगमायया
62
▾
Meaning
Keep
चकर्त
सप्तधा
गर्भं
वज्रेण
कनकप्रभम्
।
रुदन्तं
सप्तधैकैकं
मा
रोदीरिति
तान्
पुनः
63
▾
Meaning
Keep
ते
तमूचुः
पाट्यमानास्ते
सर्वे
प्राञ्जलयो
नृप
।
नो
जिघांससि
किमिन्द्र
भ्रातरो
मरुतस्तव
64
▾
Meaning
Keep
मा
भैष्ट
भ्रातरो
मह्यं
यूयमित्याह
कौशिकः
।
अनन्यभावान्
पार्षदानात्मनो
मरुतां
गणान्
65
▾
Meaning
Keep
न
ममार
दितेर्गर्भः
श्रीनिवासानुकम्पया
।
बहुधा
कुलिशक्षुण्णो
द्रौण्यस्त्रेण
यथा
भवान्
66
▾
Meaning
Keep
सकृदिष्ट्वाऽऽदिपुरुषं
पुरुषो
याति
साम्यताम्
।
संवत्सरं
किञ्चिदूनं
दित्या
यद्धरिरर्चितः
67
▾
Meaning
Keep
सजूरिन्द्रेण
पञ्चाशद्देवास्ते
मरुतोऽभवन्
।
व्यपोह्य
मातृदोषं
ते
हरिणा
सोमपाः
कृताः
68
▾
Meaning
Keep
दितिरुत्थाय
ददृशे
कुमाराननलप्रभान्
।
इन्द्रेण
सहितान्
देवी
पर्यतुष्यदनिन्दिता
69
▾
Meaning
Keep
अथेन्द्रमाह
ताताहमादित्यानां
भयावहम्
।
अपत्यमिच्छन्त्यचरं
व्रतमेतत्सुदुष्करम्
70
▾
Meaning
Keep
एकः
सङ्कल्पितः
पुत्रः
सप्त
सप्ताभवन्
कथम्
।
यदि
ते
विदितं
पुत्र
सत्यं
कथय
मा
मृषा
71
▾
Meaning
Keep
अम्ब
तेऽहं
व्यवसितमुपधार्यागतोऽन्तिकम्
।
लब्धान्तरोऽच्छिदं
गर्भमर्थबुद्धिर्न
धर्मदृक्
72
▾
Meaning
Keep
कृत्तो
मे
सप्तधा
गर्भ
आसन्
सप्त
कुमारकाः
।
तेऽपि
चैकैकशो
वृक्णाः
सप्तधा
नापि
मम्रिरे
73
▾
Meaning
Keep
ततस्तत्परमाश्चर्यं
वीक्ष्य
व्यवसितं
मया
।
महापुरुषपूजायाः
सिद्धिः
काप्यानुषङ्गिणी
74
▾
Meaning
Keep
आराधनं
भगवत
ईहमाना
निराशिषः
।
ये
तु
नेच्छन्त्यपि
परं
ते
स्वार्थकुशलाः
स्मृताः
75
▾
Meaning
Keep
आराध्यात्मप्रदं
देवं
स्वात्मानं
जगदीश्वरम्
।
को
वृणीत
गुणस्पर्शं
बुधः
स्यान्नरकेऽपि
यत्
76
▾
Meaning
Keep
तदिदं
मम
दौर्जन्यं
बालिशस्य
महीयसि
।
क्षन्तुमर्हसि
मातस्त्वं
दिष्ट्या
गर्भो
मृतोत्थितः
77
▾
Meaning
Keep
इन्द्रस्तयाभ्यनुज्ञातः
शुद्धभावेन
तुष्टया
।
मरुद्भिः
सह
तां
नत्वा
जगाम
त्रिदिवं
प्रभुः
78
▾
Meaning
Keep
एवं
ते
सर्वमाख्यातं
यन्मां
त्वं
परिपृच्छसि
।
मङ्गलं
मरुतां
जन्म
किं
भूयः
कथयामि
ते
Previous
←
Parvati's Curse
Next
The Vow for a Son
→