Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Why He Seems to Take Sides
Śrīmad Bhāgavatam
›
Canto 7
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
समः
प्रियः
सुहृद्ब्रह्मन्
भूतानां
भगवान्
स्वयम्
।
इन्द्रस्यार्थे
कथं
दैत्यानवधीद्विषमो
यथा
2
▾
Meaning
Keep
न
ह्यस्यार्थः
सुरगणैः
साक्षान्निःश्रेयसात्मनः
।
नैवासुरेभ्यो
विद्वेषो
नोद्वेगश्चागुणस्य
हि
3
▾
Meaning
Keep
इति
नः
सुमहाभाग
नारायणगुणान्
प्रति
।
संशयः
सुमहान्
जातस्तद्भवांश्छेत्तुमर्हति
4
▾
Meaning
Keep
साधु
पृष्टं
महाराज
हरेश्चरितमद्भुतम्
।
यद्भागवतमाहात्म्यं
भगवद्भक्तिवर्धनम्
5
▾
Meaning
Keep
गीयते
परमं
पुण्यमृषिभिर्नारदादिभिः
।
नत्वा
कृष्णाय
मुनये
कथयिष्ये
हरेः
कथाम्
6
▾
Meaning
Keep
निर्गुणोऽपि
ह्यजोऽव्यक्तो
भगवान्
प्रकृतेः
परः
।
स्वमायागुणमाविश्य
बाध्यबाधकतां
गतः
7
▾
Meaning
Keep
सत्त्वं
रजस्तम
इति
प्रकृतेर्नात्मनो
गुणाः
।
न
तेषां
युगपद्राजन्
ह्रास
उल्लास
एव
वा
8
▾
Meaning
Keep
जयकाले
तु
सत्त्वस्य
देवर्षीन्
रजसोऽसुरान्
।
तमसो
यक्षरक्षांसि
तत्कालानुगुणोऽभजत्
9
▾
Meaning
Keep
ज्योतिरादिरिवाभाति
सङ्घातान्न
विविच्यते
।
विदन्त्यात्मानमात्मस्थं
मथित्वा
कवयोऽन्ततः
10
▾
Meaning
Keep
यदा
सिसृक्षुः
पुर
आत्मनः
परो
रजः
सृजत्येष
पृथक्
स्वमायया
।
सत्त्वं
विचित्रासु
रिरंसुरीश्वरः
शयिष्यमाणस्तम
ईरयत्यसौ
11
▾
Meaning
Keep
कालं
चरन्तं
सृजतीश
आश्रयं
प्रधानपुम्भ्यां
नरदेव
सत्यकृत्
।
य
एष
राजन्नपि
काल
ईशिता
सत्त्वं
सुरानीकमिवैधयत्यतः
।
तत्प्रत्यनीकानसुरान्
सुरप्रियो
रजस्तमस्कान्
प्रमिणोत्युरुश्रवाः
12
▾
Meaning
Keep
अत्रैवोदाहृतः
पूर्वमितिहासः
सुरर्षिणा
।
प्रीत्या
महाक्रतौ
राजन्
पृच्छतेऽजातशत्रवे
13
▾
Meaning
Keep
दृष्ट्वा
महाद्भुतं
राजा
राजसूये
महाक्रतौ
।
वासुदेवे
भगवति
सायुज्यं
चेदिभूभुजः
14
▾
Meaning
Keep
तत्रासीनं
सुरऋषिं
राजा
पाण्डुसुतः
क्रतौ
।
पप्रच्छ
विस्मितमना
मुनीनां
शृण्वतामिदम्
15
▾
Meaning
Keep
अहो
अत्यद्भुतं
ह्येतद्दुर्लभैकान्तिनामपि
।
वासुदेवे
परे
तत्त्वे
प्राप्तिश्चैद्यस्य
विद्विषः
16
▾
Meaning
Keep
एतद्वेदितुमिच्छामः
सर्व
एव
वयं
मुने
।
भगवन्निन्दया
वेनो
द्विजैस्तमसि
पातितः
17
▾
Meaning
Keep
दमघोषसुतः
पाप
आरभ्य
कलभाषणात्
।
सम्प्रत्यमर्षी
गोविन्दे
दन्तवक्रश्च
दुर्मतिः
18
▾
Meaning
Keep
शपतोरसकृद्विष्णुं
यद्ब्रह्म
परमव्ययम्
।
श्वित्रो
न
जातो
जिह्वायां
नान्धं
विविशतुस्तमः
19
▾
Meaning
Keep
कथं
तस्मिन्
भगवति
दुरवग्राह्यधामनि
।
पश्यतां
सर्वलोकानां
लयमीयतुरञ्जसा
20
▾
Meaning
Keep
एतद्
भ्राम्यति
मे
बुद्धिर्दीपार्चिरिव
वायुना
।
ब्रूह्येतदद्
भुततमं
भगवांस्तत्र
कारणम्
21
▾
Meaning
Keep
राज्ञस्तद्वच
आकर्ण्य
नारदो
भगवानृषिः
।
तुष्टः
प्राह
तमाभाष्य
शृण्वत्यास्तत्सदः
कथाः
22
▾
Meaning
Keep
निन्दनस्तवसत्कारन्यक्कारार्थं
कलेवरम्
।
प्रधानपरयो
राजन्नविवेकेन
कल्पितम्
23
▾
Meaning
Keep
हिंसा
तदभिमानेन
दण्डपारुष्ययोर्यथा
।
वैषम्यमिह
भूतानां
ममाहमिति
पार्थिव
24
▾
Meaning
Keep
यन्निबद्धोऽभिमानोऽयं
तद्वधात्प्राणिनां
वधः
।
तथा
न
यस्य
कैवल्यादभिमानोऽखिलात्मनः
।
परस्य
दमकर्तुर्हि
हिंसा
केनास्य
कल्प्यते
25
▾
Meaning
Keep
तस्माद्वैरानुबन्धेन
निर्वैरेण
भयेन
वा
।
स्नेहात्कामेन
वा
युञ्ज्यात्कथञ्चिन्नेक्षते
पृथक्
26
▾
Meaning
Keep
यथा
वैरानुबन्धेन
मर्त्यस्तन्मयतामियात्
।
न
तथा
भक्तियोगेन
इति
मे
निश्चिता
मतिः
27
▾
Meaning
Keep
कीटः
पेशस्कृता
रुद्धः
कुड्यायां
तमनुस्मरन्
।
संरम्भभययोगेन
विन्दते
तत्स्वरूपताम्
28
▾
Meaning
Keep
एवं
कृष्णे
भगवति
मायामनुज
ईश्वरे
।
वैरेण
पूतपाप्मानस्तमापुरनुचिन्तया
29
▾
Meaning
Keep
कामाद्द्वेषाद्भयात्स्नेहाद्यथा
भक्त्येश्वरे
मनः
।
आवेश्य
तदघं
हित्वा
बहवस्तद्गतिं
गताः
30
▾
Meaning
Keep
गोप्यः
कामाद्भयात्कंसो
द्वेषाच्चैद्यादयो
नृपाः
।
सम्बन्धाद्वृष्णयः
स्नेहाद्यूयं
भक्त्या
वयं
विभो
31
▾
Meaning
Keep
कतमोऽपि
न
वेनः
स्यात्पञ्चानां
पुरुषं
प्रति
।
तस्मात्केनाप्युपायेन
मनः
कृष्णे
निवेशयेत्
32
▾
Meaning
Keep
मातृष्वस्रेयो
वश्चैद्यो
दन्तवक्रश्च
पाण्डव
।
पार्षदप्रवरौ
विष्णोर्विप्रशापात्
पदाच्च्युतौ
33
▾
Meaning
Keep
कीदृशः
कस्य
वा
शापो
हरिदासाभिमर्शनः
।
अश्रद्धेय
इवाभाति
हरेरेकान्तिनां
भवः
34
▾
Meaning
Keep
देहेन्द्रियासुहीनानां
वैकुण्ठपुरवासिनाम्
।
देहसम्बन्धसम्बद्धमेतदाख्यातुमर्हसि
35
▾
Meaning
Keep
एकदा
ब्रह्मणः
पुत्रा
विष्णोर्लोकं
यदृच्छया
।
सनन्दनादयो
जग्मुश्चरन्तो
भुवनत्रयम्
36
▾
Meaning
Keep
पञ्चषड्ढायनार्भाभाः
पूर्वेषामपि
पूर्वजाः
।
दिग्वाससः
शिशून्
मत्वा
द्वाःस्थौ
तान्
प्रत्यषेधताम्
37
▾
Meaning
Keep
अशपन्
कुपिता
एवं
युवां
वासं
न
चार्हथः
।
रजस्तमोभ्यां
रहिते
पादमूले
मधुद्विषः
।
पापिष्ठामासुरीं
योनिं
बालिशौ
यातमाश्वतः
38
▾
Meaning
Keep
एवं
शप्तौ
स्वभवनात्
पतन्तौ
तौ
कृपालुभिः
।
प्रोक्तौ
पुनर्जन्मभिर्वां
त्रिभिर्लोकाय
कल्पताम्
39
▾
Meaning
Keep
जज्ञाते
तौ
दितेः
पुत्रौ
दैत्यदानववन्दितौ
।
हिरण्यकशिपुर्ज्येष्ठो
हिरण्याक्षोऽनुजस्ततः
40
▾
Meaning
Keep
हतो
हिरण्यकशिपुर्हरिणा
सिंहरूपिणा
।
हिरण्याक्षो
धरोद्धारे
बिभ्रता
सौकरं
वपुः
41
▾
Meaning
Keep
हिरण्यकशिपुः
पुत्रं
प्रह्लादं
केशवप्रियम्
।
जिघांसुरकरोन्नाना
यातना
मृत्युहेतवे
42
▾
Meaning
Keep
सर्वभूतात्मभू
तं
प्रशान्तं
समदर्शनम्
।
भगवत्तेजसा
स्पृष्टं
नाशक्नोद्धन्तुमुद्यमैः
43
▾
Meaning
Keep
ततस्तौ
राक्षसौ
जातौ
केशिन्यां
विश्रवःसुतौ
।
रावणः
कुम्भकर्णश्च
सर्वलोकोपतापनौ
44
▾
Meaning
Keep
तत्रापि
राघवो
भूत्वा
न्यहनच्छापमुक्तये
।
रामवीर्यं
श्रोष्यसि
त्वं
मार्कण्डेयमुखात्प्रभो
45
▾
Meaning
Keep
तावेव
क्षत्रियौ
जातौ
मातृष्वस्रात्मजौ
तव
।
अधुना
शापनिर्मुक्तौ
कृष्णचक्रहतांहसौ
46
▾
Meaning
Keep
वैरानुबन्धतीव्रेण
ध्यानेनाच्युतसात्मताम्
।
नीतौ
पुनर्हरेः
पार्श्वं
जग्मतुर्विष्णुपार्षदौ
47
▾
Meaning
Keep
विद्वेषो
दयिते
पुत्रे
कथमासीन्महात्मनि
।
ब्रूहि
मे
भगवन्
येन
प्रह्लादस्याच्युतात्मता
Previous
←
The Vow for a Son
Next
Hiranyakasipu Comforts His Kin
→