Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Hiranyakasipu's Rule and His Son
Śrīmad Bhāgavatam
›
Canto 7
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एवं
वृतः
शतधृतिर्हिरण्यकशिपोरथ
।
प्रादात्तत्तपसा
प्रीतो
वरांस्तस्य
सुदुर्लभान्
2
▾
Meaning
Keep
तातेमे
दुर्लभाः
पुंसां
यान्
वृणीषे
वरान्
मम
।
तथापि
वितराम्यङ्ग
वरान्
यद्यपि
दुर्लभान्
3
▾
Meaning
Keep
ततो
जगाम
भगवानमोघानुग्रहो
विभुः
।
पूजितोऽसुरवर्येण
स्तूयमानः
प्रजेश्वरैः
4
▾
Meaning
Keep
एवं
लब्धवरो
दैत्यो
बिभ्रद्धेममयं
वपुः
।
भगवत्यकरोद्द्वेषं
भ्रातुर्वधमनुस्मरन्
5
▾
Meaning
Keep
स
विजित्य
दिशः
सर्वा
लोकांश्च
त्रीन्
महासुरः
।
देवासुरमनुष्येन्द्रान्
गन्धर्वगरुडोरगान्
6
▾
Meaning
Keep
सिद्धचारणविद्याध्रानृषीन्
पितृपतीन्
मनून्
।
यक्षरक्षःपिशाचेशान्
प्रेतभूतपतीनथ
7
▾
Meaning
Keep
सर्वसत्त्वपतीञ्जित्वा
वशमानीय
विश्वजित्
।
जहार
लोकपालानां
स्थानानि
सह
तेजसा
8
▾
Meaning
Keep
देवोद्यानश्रिया
जुष्टमध्यास्ते
स्म
त्रिपिष्टपम्
।
महेन्द्रभवनं
साक्षान्निर्मितं
विश्वकर्मणा
।
त्रैलोक्यलक्ष्म्यायतनमध्युवासाखिलर्द्धिमत्
9
▾
Meaning
Keep
यत्र
विद्रुमसोपाना
महामारकता
भुवः
।
यत्र
स्फाटिककुड्यानि
वैदूर्यस्तम्भपङ्क्तयः
10
▾
Meaning
Keep
यत्र
चित्रवितानानि
पद्मरागासनानि
च
।
पयःफेननिभाः
शय्या
मुक्तादामपरिच्छदाः
11
▾
Meaning
Keep
कूजद्भिर्नूपुरैर्देव्यः
शब्दयन्त्य
इतस्ततः
।
रत्नस्थलीषु
पश्यन्ति
सुदतीः
सुन्दरं
मुखम्
12
▾
Meaning
Keep
तस्मिन्
महेन्द्रभवने
महाबलो
महामना
निर्जितलोक
एकराट्
।
रेमेऽभिवन्द्याङ्घ्रियुगः
सुरादिभिः
प्रतापितैरूर्जितचण्डशासनः
13
▾
Meaning
Keep
तमङ्ग
मत्तं
मधुनोरुगन्धिना
विवृत्तताम्राक्षमशेषधिष्ण्यपाः
।
उपासतोपायनपाणिभिर्विना
त्रिभिस्तपोयोगबलौजसां
पदम्
14
▾
Meaning
Keep
जगुर्महेन्द्रासनमोजसा
स्थितं
विश्वावसुस्तुम्बुरुरस्मदादयः
।
गन्धर्वसिद्धा
ऋषयोऽस्तुवन्
मुहुर्विद्याधरा
अप्सरसश्च
पाण्डव
15
▾
Meaning
Keep
स
एव
वर्णाश्रमिभिः
क्रतुभिर्भूरिदक्षिणैः
।
इज्यमानो
हविर्भागानग्रहीत्स्वेन
तेजसा
16
▾
Meaning
Keep
अकृष्टपच्या
तस्यासीत्
सप्तद्वीपवती
मही
।
तथा
कामदुघा
द्यौस्तु
नानाश्चर्यपदं
नभः
17
▾
Meaning
Keep
रत्नाकराश्च
रत्नौघांस्तत्पत्न्यश्चोहुरूर्मिभिः
।
क्षारसीधुघृतक्षौद्रदधिक्षीरामृतोदकाः
18
▾
Meaning
Keep
शैला
द्रोणीभिराक्रीडं
सर्वर्तुषु
गुणान्
द्रुमाः
।
दधार
लोकपालानामेक
एव
पृथग्गुणान्
19
▾
Meaning
Keep
स
इत्थं
निर्जितककुबेकराड्
विषयान्
प्रियान्
।
यथोपजोषं
भुञ्जानो
नातृप्यदजितेन्द्रियः
20
▾
Meaning
Keep
एवमैश्वर्यमत्तस्य
दृप्तस्योच्छास्त्रवर्तिनः
।
कालो
महान्
व्यतीयाय
ब्रह्मशापमुपेयुषः
21
▾
Meaning
Keep
तस्योग्रदण्डसंविग्नाः
सर्वे
लोकाः
सपालकाः
।
अन्यत्रालब्धशरणाः
शरणं
ययुरच्युतम्
22
▾
Meaning
Keep
तस्यै
नमोऽस्तु
काष्ठायै
यत्रात्मा
हरिरीश्वरः
।
यद्गत्वा
न
निवर्तन्ते
शान्ताः
संन्यासिनोऽमलाः
23
▾
Meaning
Keep
इति
ते
संयतात्मानः
समाहितधियोऽमलाः
।
उपतस्थुर्हृषीकेशं
विनिद्रा
वायुभोजनाः
24
▾
Meaning
Keep
तेषामाविरभूद्वाणी
अरूपा
मेघनिःस्वना
।
सन्नादयन्ती
ककुभः
साधूनामभयङ्करी
25
▾
Meaning
Keep
मा
भैष्ट
विबुधश्रेष्ठाः
सर्वेषां
भद्रमस्तु
वः
।
मद्दर्शनं
हि
भूतानां
सर्वश्रेयोपपत्तये
26
▾
Meaning
Keep
ज्ञातमेतस्य
दौरात्म्यं
दैतेयापसदस्य
यत्
।
तस्य
शान्तिं
करिष्यामि
कालं
तावत्प्रतीक्षत
27
▾
Meaning
Keep
यदा
देवेषु
वेदेषु
गोषु
विप्रेषु
साधुषु
।
धर्मे
मयि
च
विद्वेषः
स
वा
आशु
विनश्यति
28
▾
Meaning
Keep
निर्वैराय
प्रशान्ताय
स्वसुताय
महात्मने
।
प्रह्रादाय
यदा
द्रुह्येद्धनिष्येऽपि
वरोर्जितम्
29
▾
Meaning
Keep
इत्युक्ता
लोकगुरुणा
तं
प्रणम्य
दिवौकसः
।
न्यवर्तन्त
गतोद्वेगा
मेनिरे
चासुरं
हतम्
30
▾
Meaning
Keep
तस्य
दैत्यपतेः
पुत्राश्चत्वारः
परमाद्भुताः
।
प्रह्रादोऽभून्महांस्तेषां
गुणैर्महदुपासकः
31
▾
Meaning
Keep
ब्रह्मण्यः
शीलसम्पन्नः
सत्यसन्धो
जितेन्द्रियः
।
आत्मवत्सर्वभूतानामेकः
प्रियसुहृत्तमः
32
▾
Meaning
Keep
दासवत्संनतार्याङ्घ्रिः
पितृवद्
दीनवत्सलः
।
भ्रातृवत्
सदृशे
स्निग्धो
गुरुष्वीश्वरभावनः
।
विद्यार्थरूपजन्माढ्यो
मानस्तम्भविवर्जितः
33
▾
Meaning
Keep
नोद्विग्नचित्तो
व्यसनेषु
निःस्पृहः
श्रुतेषु
दृष्टेषु
गुणेष्ववस्तुदृक्
।
दान्तेन्द्रियप्राणशरीरधीः
सदा
प्रशान्तकामो
रहितासुरोऽसुरः
34
▾
Meaning
Keep
यस्मिन्
महद्गुणा
राजन्
गृह्यन्ते
कविभिर्मुहुः
।
न
तेऽधुनापिधीयन्ते
यथा
भगवतीश्वरे
35
▾
Meaning
Keep
यं
साधुगाथासदसि
रिपवोऽपि
सुरा
नृप
।
प्रतिमानं
प्रकुर्वन्ति
किमुतान्ये
भवादृशाः
36
▾
Meaning
Keep
गुणैरलमसङ्ख्येयैर्माहात्म्यं
तस्य
सूच्यते
।
वासुदेवे
भगवति
यस्य
नैसर्गिकी
रतिः
37
▾
Meaning
Keep
न्यस्तक्रीडनको
बालो
जडवत्तन्मनस्तया
।
कृष्णग्रहगृहीतात्मा
न
वेद
जगदीदृशम्
38
▾
Meaning
Keep
आसीनः
पर्यटन्नश्नन्
शयानः
प्रपिबन्
ब्रुवन्
।
नानुसन्धत्त
एतानि
गोविन्दपरिरम्भितः
39
▾
Meaning
Keep
क्वचिद्रुदति
वैकुण्ठचिन्ताशबलचेतनः
।
क्वचिद्धसति
तच्चिन्ताह्लाद
उद्गायति
क्वचित्
40
▾
Meaning
Keep
नदति
क्वचिदुत्कण्ठो
विलज्जो
नृत्यति
क्वचित्
।
क्वचित्तद्भावनायुक्तस्तन्मयोऽनुचकार
ह
41
▾
Meaning
Keep
क्वचिदुत्पुलकस्तूष्णीमास्ते
संस्पर्शनिर्वृतः
।
अस्पन्दप्रणयानन्दसलिलामीलितेक्षणः
42
▾
Meaning
Keep
स
उत्तमश्लोकपदारविन्दयो-
र्निषेवयाकिञ्चनसङ्गलब्धया
।
तन्वन्
परां
निर्वृतिमात्मनो
मुहु-
र्दुःसङ्गदीनान्यमनःशमं
व्यधात्
43
▾
Meaning
Keep
तस्मिन्
महाभागवते
महाभागे
महात्मनि
।
हिरण्यकशिपू
राजन्नकरोदघमात्मजे
44
▾
Meaning
Keep
देवर्ष
एतदिच्छामो
वेदितुं
तव
सुव्रत
।
यदात्मजाय
शुद्धाय
पितादात्साधवे
ह्यघम्
45
▾
Meaning
Keep
पुत्रान्
विप्रतिकूलान्
स्वान्
पितरः
पुत्रवत्सलाः
।
उपालभन्ते
शिक्षार्थं
नैवाघमपरो
यथा
46
▾
Meaning
Keep
किमुतानुवशान्
साधूंस्तादृशान्
गुरुदेवतान्
।
एतत्कौतूहलं
ब्रह्मन्नस्माकं
विधम
प्रभो
।
पितुः
पुत्राय
यद्द्वेषो
मरणाय
प्रयोजितः
Previous
←
The Boon Hiranyakasipu Asked For
Next
Prahlada Before His Teachers
→