Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Prahlada Before His Teachers
Śrīmad Bhāgavatam
›
Canto 7
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
पौरोहित्याय
भगवान्
वृतः
काव्यः
किलासुरैः
।
षण्डामर्कौ
सुतौ
तस्य
दैत्यराजगृहान्तिके
2
▾
Meaning
Keep
तौ
राज्ञा
प्रापितं
बालं
प्रह्लादं
नयकोविदम्
।
पाठयामासतुः
पाठ्यानन्यांश्चासुरबालकान्
3
▾
Meaning
Keep
यत्तत्र
गुरुणा
प्रोक्तं
शुश्रुवेऽनुपपाठ
च
।
न
साधु
मनसा
मेने
स्वपरासद्ग्रहाश्रयम्
4
▾
Meaning
Keep
एकदासुरराट्
पुत्रमङ्कमारोप्य
पाण्डव
।
पप्रच्छ
कथ्यतां
वत्स
मन्यते
साधु
यद्भवान्
5
▾
Meaning
Keep
तत्साधु
मन्येऽसुरवर्य
देहिनां
सदा
समुद्विग्नधियामसद्ग्रहात्
।
हित्वाऽऽत्मपातं
गृहमन्धकूपं
वनं
गतो
यद्धरिमाश्रयेत
6
▾
Meaning
Keep
श्रुत्वा
पुत्रगिरो
दैत्यः
परपक्षसमाहिताः
।
जहास
बुद्धिर्बालानां
भिद्यते
परबुद्धिभिः
7
▾
Meaning
Keep
सम्यग्विधार्यतां
बालो
गुरुगेहे
द्विजातिभिः
।
विष्णुपक्षैः
प्रतिच्छन्नैर्न
भिद्येतास्य
धीर्यथा
8
▾
Meaning
Keep
गृहमानीतमाहूय
प्रह्रादं
दैत्ययाजकाः
।
प्रशस्य
श्लक्ष्णया
वाचा
समपृच्छन्त
सामभिः
9
▾
Meaning
Keep
वत्स
प्रह्राद
भद्रं
ते
सत्यं
कथय
मा
मृषा
।
बालानति
कुतस्तुभ्यमेष
बुद्धिविपर्ययः
10
▾
Meaning
Keep
बुद्धिभेदः
परकृत
उताहो
ते
स्वतोऽभवत्
।
भण्यतां
श्रोतुकामानां
गुरूणां
कुलनन्दन
11
▾
Meaning
Keep
परः
स्वश्चेत्यसद्ग्राहः
पुंसां
यन्मायया
कृतः
।
विमोहितधियां
दृष्टस्तस्मै
भगवते
नमः
12
▾
Meaning
Keep
स
यदानुव्रतः
पुंसां
पशुबुद्धिर्विभिद्यते
।
अन्य
एष
तथान्योऽहमिति
भेदगतासती
13
▾
Meaning
Keep
स
एष
आत्मा
स्वपरेत्यबुद्धिभि-
र्दुरत्ययानुक्रमणो
निरूप्यते
।
मुह्यन्ति
यद्वर्त्मनि
वेदवादिनो
ब्रह्मादयो
ह्येष
भिनत्ति
मे
मतिम्
14
▾
Meaning
Keep
यथा
भ्राम्यत्ययो
ब्रह्मन्
स्वयमाकर्षसन्निधौ
।
तथा
मे
भिद्यते
चेतश्चक्रपाणेर्यदृच्छया
15
▾
Meaning
Keep
एतावद्ब्राह्मणायोक्त्वा
विरराम
महामतिः
।
तं
निर्भत्स्याथ
कुपितः
स
दीनो
राजसेवकः
16
▾
Meaning
Keep
आनीयतामरे
वेत्रमस्माकमयशस्करः
।
कुलाङ्गारस्य
दुर्बुद्धेश्चतुर्थोऽस्योदितो
दमः
17
▾
Meaning
Keep
दैतेयचन्दनवने
जातोऽयं
कण्टकद्रुमः
।
यन्मूलोन्मूलपरशोर्विष्णोर्नालायितोऽर्भकः
18
▾
Meaning
Keep
इति
तं
विविधोपायैर्भीषयंस्तर्जनादिभिः
।
प्रह्रादं
ग्राहयामास
त्रिवर्गस्योपपादनम्
19
▾
Meaning
Keep
तत
एनं
गुरुर्ज्ञात्वा
ज्ञातज्ञेयचतुष्टयम्
।
दैत्येन्द्रं
दर्शयामास
मातृमृष्टमलङ्कृतम्
20
▾
Meaning
Keep
पादयोः
पतितं
बालं
प्रतिनन्द्याशिषासुरः
।
परिष्वज्य
चिरं
दोर्भ्यां
परमामाप
निर्वृतिम्
21
▾
Meaning
Keep
आरोप्याङ्कमवघ्राय
मूर्धन्यश्रुकलाम्बुभिः
।
आसिञ्चन्
विकसद्वक्त्रमिदमाह
युधिष्ठिर
22
▾
Meaning
Keep
प्रह्रादानूच्यतां
तात
स्वधीतं
किञ्चिदुत्तमम्
।
कालेनैतावताऽऽयुष्मन्
यदशिक्षद्
गुरोर्भवान्
23
▾
Meaning
Keep
श्रवणं
कीर्तनं
विष्णोः
स्मरणं
पादसेवनम्
।
अर्चनं
वन्दनं
दास्यं
सख्यमात्मनिवेदनम्
24
▾
Meaning
Keep
इति
पुंसार्पिता
विष्णौ
भक्तिश्चेन्नवलक्षणा
।
क्रियेत
भगवत्यद्धा
तन्मन्येऽधीतमुत्तमम्
25
▾
Meaning
Keep
निशम्यैतत्सुतवचो
हिरण्यकशिपुस्तदा
।
गुरुपुत्रमुवाचेदं
रुषा
प्रस्फुरिताधरः
26
▾
Meaning
Keep
ब्रह्मबन्धो
किमेतत्ते
विपक्षं
श्रयतासता
।
असारं
ग्राहितो
बालो
मामनादृत्य
दुर्मते
27
▾
Meaning
Keep
सन्ति
ह्यसाधवो
लोके
दुर्मैत्राश्छद्मवेषिणः
।
तेषामुदेत्यघं
काले
रोगः
पातकिनामिव
28
▾
Meaning
Keep
न
मत्प्रणीतं
न
परप्रणीतं
सुतो
वदत्येष
तवेन्द्रशत्रो
।
नैसर्गिकीयं
मतिरस्य
राजन्
नियच्छ
मन्युं
कददाः
स्म
मा
नः
29
▾
Meaning
Keep
गुरुणैवं
प्रतिप्रोक्तो
भूय
आहासुरः
सुतम्
।
न
चेद्गुरुमुखीयं
ते
कुतोऽभद्रासती
मतिः
30
▾
Meaning
Keep
मतिर्न
कृष्णे
परतः
स्वतो
वा
मिथोऽभिपद्येत
गृहव्रतानाम्
।
अदान्तगोभिर्विशतां
तमिस्रं
पुनः
पुनश्चर्वितचर्वणानाम्
31
▾
Meaning
Keep
न
ते
विदुः
स्वार्थगतिं
हि
विष्णुं
दुराशया
ये
बहिरर्थमानिनः
।
अन्धा
यथान्धैरुपनीयमाना
वाचीशतन्त्र्यामुरुदाम्नि
बद्धाः
32
▾
Meaning
Keep
नैषां
मतिस्तावदुरुक्रमाङ्घ्रिं
स्पृशत्यनर्थापगमो
यदर्थः
।
महीयसां
पादरजोऽभिषेकं
निष्किञ्चनानां
न
वृणीत
यावत्
33
▾
Meaning
Keep
इत्युक्त्वोपरतं
पुत्रं
हिरण्यकशिपू
रुषा
।
अन्धीकृतात्मा
स्वोत्सङ्गान्निरस्यत
महीतले
34
▾
Meaning
Keep
आहामर्षरुषाविष्टः
कषायीभूतलोचनः
।
वध्यतामाश्वयं
वध्यो
निःसारयत
नैरृताः
35
▾
Meaning
Keep
अयं
मे
भ्रातृहा
सोऽयं
हित्वा
स्वान्
सुहृदोऽधमः
।
पितृव्यहन्तुः
यो
पादौ
विष्णोर्दासवदर्चति
36
▾
Meaning
Keep
विष्णोर्वा
साध्वसौ
किं
नु
करिष्यत्यसमञ्जसः
।
सौहृदं
दुस्त्यजं
पित्रोरहाद्यः
पञ्चहायनः
37
▾
Meaning
Keep
परोऽप्यपत्यं
हितकृद्यथौषधं
स्वदेहजोऽप्यामयवत्सुतोऽहितः
।
छिन्द्यात्तदङ्गं
यदुतात्मनोऽहितं
शेषं
सुखं
जीवति
यद्विवर्जनात्
38
▾
Meaning
Keep
सर्वैरुपायैर्हन्तव्यः
सम्भोजशयनासनैः
।
सुहृल्लिङ्गधरः
शत्रुर्मुनेर्दुष्टमिवेन्द्रियम्
39
▾
Meaning
Keep
नैरृतास्ते
समादिष्टा
भर्त्रा
वै
शूलपाणयः
।
तिग्मदंष्ट्रकरालास्यास्ताम्रश्मश्रुशिरोरुहाः
40
▾
Meaning
Keep
नदन्तो
भैरवान्
नादांश्छिन्धि
भिन्धीति
वादिनः
।
आसीनं
चाहनन्
शूलैः
प्रह्रादं
सर्वमर्मसु
41
▾
Meaning
Keep
परे
ब्रह्मण्यनिर्देश्ये
भगवत्यखिलात्मनि
।
युक्तात्मन्यफला
आसन्नपुण्यस्येव
सत्क्रियाः
42
▾
Meaning
Keep
प्रयासेऽपहते
तस्मिन्
दैत्येन्द्रः
परिशङ्कितः
।
चकार
तद्वधोपायान्
निर्बन्धेन
युधिष्ठिर
43
▾
Meaning
Keep
दिग्गजैर्दन्दशूकैश्च
अभिचारावपातनैः
।
मायाभिः
संनिरोधैश्च
गरदानैरभोजनैः
44
▾
Meaning
Keep
हिमवाय्वग्निसलिलैः
पर्वताक्रमणैरपि
।
न
शशाक
यदा
हन्तुमपापमसुरः
सुतम्
।
चिन्तां
दीर्घतमां
प्राप्तस्तत्कर्तुं
नाभ्यपद्यत
45
▾
Meaning
Keep
एष
मे
बह्वसाधूक्तो
वधोपायाश्च
निर्मिताः
।
तैस्तैर्द्रोहैरसद्धर्मैर्मुक्तः
स्वेनैव
तेजसा
46
▾
Meaning
Keep
वर्तमानोऽविदूरे
वै
बालोऽप्यजडधीरयम्
।
न
विस्मरति
मेऽनार्यं
शुनःशेप
इव
प्रभुः
47
▾
Meaning
Keep
अप्रमेयानुभावोऽयमकुतश्चिद्भयोऽमरः
।
नूनमेतद्विरोधेन
मृत्युर्मे
भविता
न
वा
48
▾
Meaning
Keep
इति
तच्चिन्तया
किञ्चिन्म्लानश्रियमधोमुखम्
।
शण्डामर्कावौशनसौ
विविक्त
इति
होचतुः
49
▾
Meaning
Keep
जितं
त्वयैकेन
जगत्त्रयं
भ्रुवोर्
विजृम्भणत्रस्तसमस्तधिष्ण्यपम्
।
न
तस्य
चिन्त्यं
तव
नाथ
चक्ष्वहे
न
वै
शिशूनां
गुणदोषयोः
पदम्
50
▾
Meaning
Keep
इमं
तु
पाशैर्वरुणस्य
बद्ध्वा
निधेहि
भीतो
न
पलायते
यथा
।
बुद्धिश्च
पुंसो
वयसाऽऽर्यसेवया
यावद्गुरुर्भार्गव
आगमिष्यति
51
▾
Meaning
Keep
तथेति
गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत्
।
धर्मो
ह्यस्योपदेष्टव्या
राज्ञां
यो
गृहमेधिनाम्
52
▾
Meaning
Keep
धर्ममर्थं
च
कामं
च
नितरां
चानुपूर्वशः
।
प्रह्रादायोचतू
राजन्प्रश्रितावनताय
च
53
▾
Meaning
Keep
यथा
त्रिवर्गं
गुरुभिरात्मने
उपशिक्षितम्
।
न
साधु
मेने
तच्छिक्षां
द्वन्द्वारामोपवर्णिताम्
54
▾
Meaning
Keep
यदाऽऽचार्यः
परावृत्तो
गृहमेधीयकर्मसु
।
वयस्यैर्बालकैस्तत्र
सोपहूतः
कृतक्षणैः
55
▾
Meaning
Keep
अथ
तान्
श्लक्ष्णया
वाचा
प्रत्याहूय
महाबुधः
।
उवाच
विद्वांस्तन्निष्ठां
कृपया
प्रहसन्निव
56
▾
Meaning
Keep
ते
तु
तद्
गौरवात्
सर्वे
त्यक्तक्रीडापरिच्छदाः
।
बाला
न
दूषितधियो
द्वन्द्वारामेरितेहितैः
57
▾
Meaning
Keep
पर्युपासत
राजेन्द्र
तन्न्यस्तहृदयेक्षणाः
।
तानाह
करुणो
मैत्रो
महाभागवतोऽसुरः
Previous
←
Hiranyakasipu's Rule and His Son
Next
Begin While You Are Young
→