Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · What Prahlada Heard In The Womb
Śrīmad Bhāgavatam
›
Canto 7
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एवं
दैत्यसुतैः
पृष्टो
महाभागवतोऽसुरः
।
उवाच
स्मयमानः
स्मरन्
मदनुभाषितम्
2
▾
Meaning
Keep
पितरि
प्रस्थितेऽस्माकं
तपसे
मन्दराचलम्
।
युद्धोद्यमं
परं
चक्रुर्विबुधा
दानवान्
प्रति
3
▾
Meaning
Keep
पिपीलिकैरहिरिव
दिष्ट्या
लोकोपतापनः
।
पापेन
पापोऽभक्षीति
वादिनो
वासवादयः
4
▾
Meaning
Keep
तेषामतिबलोद्योगं
निशम्यासुरयूथपाः
।
वध्यमानाः
सुरैर्भीता
दुद्रुवुः
सर्वतो
दिशम्
5
▾
Meaning
Keep
कलत्रपुत्रवित्ताप्तान्गृहान्पशुपरिच्छदान्
।
नावेक्ष्यमाणास्त्वरिताः
सर्वे
प्राणपरीप्सवः
6
▾
Meaning
Keep
व्यलुम्पन्
राजशिबिरममरा
जयकाङ्क्षिणः
।
इन्द्रस्तु
राजमहिषीं
मातरं
मम
चाग्रहीत्
7
▾
Meaning
Keep
नीयमानां
भयोद्विग्नां
रुदतीं
कुररीमिव
।
यदृच्छयाऽऽगतस्तत्र
देवर्षिर्ददृशे
पथि
8
▾
Meaning
Keep
प्राह
नैनां
सुरपते
नेतुमर्हस्यनागसम्
।
मुञ्च
मुञ्च
महाभाग
सतीं
परपरिग्रहम्
9
▾
Meaning
Keep
आस्तेऽस्या
जठरे
वीर्यमविषह्यं
सुरद्विषः
।
आस्यतां
यावत्प्रसवं
मोक्ष्येऽर्थपदवीं
गतः
10
▾
Meaning
Keep
अयं
निष्किल्बिषः
साक्षान्महाभागवतो
महान्
।
त्वया
न
प्राप्स्यते
संस्थामनन्तानुचरो
बली
11
▾
Meaning
Keep
इत्युक्तस्तां
विहायेन्द्रो
देवर्षेर्मानयन्
वचः
।
अनन्तप्रियभक्त्यैनां
परिक्रम्य
दिवं
ययौ
12
▾
Meaning
Keep
ततो
मे
मातरमृषिः
समानीय
निजाश्रमम्
।
आश्वास्येहोष्यतां
वत्से
यावत्
ते
भर्तुरागमः
13
▾
Meaning
Keep
तथेत्यवात्सीद्
देवर्षेरन्ति
साप्यकुतोभया
।
यावद्
दैत्यपतिर्घोरात्
तपसो
न
न्यवर्तत
14
▾
Meaning
Keep
ऋषिं
पर्यचरत्तत्र
भक्त्या
परमया
सती
।
अन्तर्वत्नी
स्वगर्भस्य
क्षेमायेच्छाप्रसूतये
15
▾
Meaning
Keep
ऋषिः
कारुणिकस्तस्याः
प्रादादुभयमीश्वरः
।
धर्मस्य
तत्त्वं
ज्ञानं
च
मामप्युद्दिश्य
निर्मलम्
16
▾
Meaning
Keep
तत्तु
कालस्य
दीर्घत्वात्स्त्रीत्वान्मातुस्तिरोदधे
।
ऋषिणानुगृहीतं
मां
नाधुनाप्यजहात्स्मृतिः
17
▾
Meaning
Keep
भवतामपि
भूयान्मे
यदि
श्रद्दधते
वचः
।
वैशारदी
धीः
श्रद्धातः
स्त्रीबालानां
च
मे
यथा
18
▾
Meaning
Keep
जन्माद्याः
षडिमे
भावा
दृष्टा
देहस्य
नात्मनः
।
फलानामिव
वृक्षस्य
कालेनेश्वरमूर्तिना
19
▾
Meaning
Keep
आत्मा
नित्योऽव्ययः
शुद्ध
एकः
क्षेत्रज्ञ
आश्रयः
।
अविक्रियः
स्वदृग्
हेतुर्व्यापकोऽसङ्ग्यनावृतः
20
▾
Meaning
Keep
एतैर्द्वादशभिर्विद्वानात्मनो
लक्षणैः
परैः
।
अहं
ममेत्यसद्भावं
देहादौ
मोहजं
त्यजेत्
21
▾
Meaning
Keep
स्वर्णं
यथा
ग्रावसु
हेमकारः
क्षेत्रेषु
योगैस्तदभिज्ञ
आप्नुयात्
।
क्षेत्रेषु
देहेषु
तथाऽऽत्मयोगैरध्यात्मविद्
ब्रह्मगतिं
लभेत
22
▾
Meaning
Keep
अष्टौ
प्रकृतयः
प्रोक्तास्त्रय
एव
हि
तद्गुणाः
।
विकाराः
षोडशाचार्यैः
पुमानेकः
समन्वयात्
23
▾
Meaning
Keep
देहस्तु
सर्वसङ्घातो
जगत्तस्थुरिति
द्विधा
।
अत्रैव
मृग्यः
पुरुषो
नेति
नेतीत्यतत्त्यजन्
24
▾
Meaning
Keep
अन्वयव्यतिरेकेण
विवेकेनोशताऽऽत्मना
।
स्वर्गस्थानसमाम्नायैर्विमृशद्भिरसत्वरैः
25
▾
Meaning
Keep
बुद्धेर्जागरणं
स्वप्नः
सुषुप्तिरिति
वृत्तयः
।
ता
येनैवानुभूयन्ते
सोऽध्यक्षः
पुरुषः
परः
26
▾
Meaning
Keep
एभिस्त्रिवर्णैः
पर्यस्तैर्बुद्धिभेदैः
क्रियोद्भवैः
।
स्वरूपमात्मनो
बुध्येद्गन्धैर्वायुमिवान्वयात्
27
▾
Meaning
Keep
एतद्द्वारो
हि
संसारो
गुणकर्मनिबन्धनः
।
अज्ञानमूलोऽपार्थोऽपि
पुंसः
स्वप्न
इवार्प्यते
28
▾
Meaning
Keep
तस्माद्भवद्भिः
कर्तव्यं
कर्मणां
त्रिगुणात्मनाम्
।
बीजनिर्हरणं
योगः
प्रवाहोपरमो
धियः
29
▾
Meaning
Keep
तत्रोपायसहस्राणामयं
भगवतोदितः
।
यदीश्वरे
भगवति
यथा
यैरञ्जसा
रतिः
30
▾
Meaning
Keep
गुरुशुश्रूषया
भक्त्या
सर्वलब्धार्पणेन
च
।
सङ्गेन
साधुभक्तानामीश्वराराधनेन
च
31
▾
Meaning
Keep
श्रद्धया
तत्कथायां
च
कीर्तनैर्गुणकर्मणाम्
।
तत्पादाम्बुरुहध्यानात्तल्लिङ्गेक्षार्हणादिभिः
32
▾
Meaning
Keep
हरिः
सर्वेषु
भूतेषु
भगवानास्त
ईश्वरः
।
इति
भूतानि
मनसा
कामैस्तैः
साधु
मानयेत्
33
▾
Meaning
Keep
एवं
निर्जितषड्वर्गैः
क्रियते
भक्तिरीश्वरे
।
वासुदेवे
भगवति
यया
संलभ्यते
रतिम्
34
▾
Meaning
Keep
निशम्य
कर्माणि
गुणानतुल्यान्
वीर्याणि
लीलातनुभिः
कृतानि
।
यदातिहर्षोत्पुलकाश्रुगद्गदं
प्रोत्कण्ठ
उद्गायति
रौति
नृत्यति
35
▾
Meaning
Keep
यदा
ग्रहग्रस्त
इव
क्वचिद्धस-
त्याक्रन्दते
ध्यायति
वन्दते
जनम्
।
मुहुः
श्वसन्
वक्ति
हरे
जगत्पते
नारायणेत्यात्ममतिर्गतत्रपः
36
▾
Meaning
Keep
तदा
पुमान्
मुक्तसमस्तबन्धन-
स्तद्भावभावानुकृताशयाकृतिः
।
निर्दग्धबीजानुशयो
महीयसा
भक्तिप्रयोगेण
समेत्यधोक्षजम्
37
▾
Meaning
Keep
अधोक्षजालम्भमिहाशुभात्मनः
शरीरिणः
संसृतिचक्रशातनम्
।
तद्ब्रह्मनिर्वाणसुखं
विदुर्बुधा-
स्ततो
भजध्वं
हृदये
हृदीश्वरम्
38
▾
Meaning
Keep
कोऽतिप्रयासोऽसुरबालका
हरे-
रुपासने
स्वे
हृदि
छिद्रवत्सतः
।
स्वस्यात्मनः
सख्युरशेषदेहिनां
सामान्यतः
किं
विषयोपपादनैः
39
▾
Meaning
Keep
रायः
कलत्रं
पशवः
सुतादयो
गृहा
मही
कुञ्जरकोशभूतयः
।
सर्वेऽर्थकामाः
क्षणभङ्गुरायुषः
कुर्वन्ति
मर्त्यस्य
कियत्प्रियं
चलाः
40
▾
Meaning
Keep
एवं
हि
लोकाः
क्रतुभिः
कृता
अमी
क्षयिष्णवः
सातिशया
न
निर्मलाः
।
तस्माददृष्टश्रुतदूषणं
परं
भक्त्यैकयेशं
भजतात्मलब्धये
41
▾
Meaning
Keep
यदध्यर्थ्येह
कर्माणि
विद्वन्मान्यसकृन्नरः
।
करोत्यतो
विपर्यासममोघं
विन्दते
फलम्
42
▾
Meaning
Keep
सुखाय
दुःखमोक्षाय
सङ्कल्प
इह
कर्मिणः
।
सदाऽऽप्नोतीहया
दुःखमनीहायाः
सुखावृतः
43
▾
Meaning
Keep
कामान्
कामयते
काम्यैर्यदर्थमिह
पूरुषः
।
स
वै
देहस्तु
पारक्यो
भङ्गुरो
यात्युपैति
च
44
▾
Meaning
Keep
किमु
व्यवहितापत्यदारागारधनादयः
।
राज्यकोशगजामात्यभृत्याप्ता
ममतास्पदाः
45
▾
Meaning
Keep
किमेतैरात्मनस्तुच्छैः
सह
देहेन
नश्वरैः
।
अनर्थैरर्थसङ्काशैर्नित्यानन्दमहोदधेः
46
▾
Meaning
Keep
निरूप्यतामिह
स्वार्थः
कियान्
देहभृतोऽसुराः
।
निषेकादिष्ववस्थासु
क्लिश्यमानस्य
कर्मभिः
47
▾
Meaning
Keep
कर्माण्यारभते
देही
देहेनात्मानुवर्तिना
।
कर्मभिस्तनुते
देहमुभयं
त्वविवेकतः
48
▾
Meaning
Keep
तस्मादर्थाश्च
कामाश्च
धर्माश्च
यदपाश्रयाः
।
भजतानीहयाऽऽत्मानमनीहं
हरिमीश्वरम्
49
▾
Meaning
Keep
सर्वेषामपि
भूतानां
हरिरात्मेश्वरः
प्रियः
।
भूतैर्महद्भिः
स्वकृतैः
कृतानां
जीवसंज्ञितः
50
▾
Meaning
Keep
देवोऽसुरो
मनुष्यो
वा
यक्षो
गन्धर्व
एव
वा
।
भजन्मुकुन्दचरणं
स्वस्तिमान्
स्याद्यथा
वयम्
51
▾
Meaning
Keep
नालं
द्विजत्वं
देवत्वमृषित्वं
वासुरात्मजाः
।
प्रीणनाय
मुकुन्दस्य
न
वृत्तं
न
बहुज्ञता
52
▾
Meaning
Keep
न
दानं
न
तपो
नेज्या
न
शौचं
न
व्रतानि
च
।
प्रीयतेऽमलया
भक्त्या
हरिरन्यद्विडम्बनम्
53
▾
Meaning
Keep
ततो
हरौ
भगवति
भक्तिं
कुरुत
दानवाः
।
आत्मौपम्येन
सर्वत्र
सर्वभूतात्मनीश्वरे
54
▾
Meaning
Keep
दैतेया
यक्षरक्षांसि
स्त्रियः
शूद्रा
व्रजौकसः
।
खगा
मृगाः
पापजीवाः
सन्ति
ह्यच्युततां
गताः
55
▾
Meaning
Keep
एतावानेव
लोकेऽस्मिन्
पुंसः
स्वार्थः
परः
स्मृतः
।
एकान्तभक्तिर्गोविन्दे
यत्सर्वत्र
तदीक्षणम्
Previous
←
Begin While You Are Young
Next
The Man-Lion Comes Out Of The Pillar
→