Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Begin While You Are Young
Śrīmad Bhāgavatam
›
Canto 7
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
कौमार
आचरेत्प्राज्ञो
धर्मान्
भागवतानिह
।
दुर्लभं
मानुषं
जन्म
तदप्यध्रुवमर्थदम्
2
▾
Meaning
Keep
यथा
हि
पुरुषस्येह
विष्णोः
पादोपसर्पणम्
।
यदेष
सर्वभूतानां
प्रिय
आत्मेश्वरः
सुहृत्
3
▾
Meaning
Keep
सुखमैन्द्रियकं
दैत्या
देहयोगेन
देहिनाम्
।
सर्वत्र
लभ्यते
दैवाद्यथा
दुःखमयत्नतः
4
▾
Meaning
Keep
तत्प्रयासो
न
कर्तव्यो
यत
आयुर्व्ययः
परम्
।
न
तथा
विन्दते
क्षेमं
मुकुन्दचरणाम्बुजम्
5
▾
Meaning
Keep
ततो
यतेत
कुशलः
क्षेमाय
भवमाश्रितः
।
शरीरं
पौरुषं
यावन्न
विपद्येत
पुष्कलम्
6
▾
Meaning
Keep
पुंसो
वर्षशतं
ह्यायुस्तदर्धं
चाजितात्मनः
।
निष्फलं
यदसौ
रात्र्यां
शेतेऽन्धं
प्रापितस्तमः
7
▾
Meaning
Keep
मुग्धस्य
बाल्ये
कौमारे
क्रीडतो
याति
विंशतिः
।
जरया
ग्रस्तदेहस्य
यात्यकल्पस्य
विंशतिः
8
▾
Meaning
Keep
दुरापूरेण
कामेन
मोहेन
च
बलीयसा
।
शेषं
गृहेषु
सक्तस्य
प्रमत्तस्यापयाति
हि
9
▾
Meaning
Keep
को
गृहेषु
पुमान्
सक्तमात्मानमजितेन्द्रियः
।
स्नेहपाशैर्दृढैर्बद्धमुत्सहेत
विमोचितुम्
10
▾
Meaning
Keep
को
न्वर्थतृष्णां
विसृजेत्प्राणेभ्योऽपि
य
ईप्सितः
।
यं
क्रीणात्यसुभिः
प्रेष्ठैस्तस्करः
सेवको
वणिक्
11
▾
Meaning
Keep
कथं
प्रियाया
अनुकम्पितायाः
सङ्गं
रहस्यं
रुचिरांश्च
मन्त्रान्
।
सुहृत्सु
च
स्नेहसितः
शिशूनां
कलाक्षराणामनुरक्तचित्तः
12
▾
Meaning
Keep
पुत्रान्
स्मरंस्ता
दुहितॄर्हृदय्या
भ्रातॄन्
स्वसॄर्वा
पितरौ
च
दीनौ
।
गृहान्
मनोज्ञोरुपरिच्छदांश्च
वृत्तीश्च
कुल्याः
पशुभृत्यवर्गान्
13
▾
Meaning
Keep
त्यजेत
कोशस्कृदिवेहमानः
कर्माणि
लोभादवितृप्तकामः
।
औपस्थ्यजैह्व्यं
बहु
मन्यमानः
कथं
विरज्येत
दुरन्तमोहः
14
▾
Meaning
Keep
कुटुम्बपोषाय
वियन्निजायु-
र्न
बुध्यतेऽर्थं
विहतं
प्रमत्तः
।
सर्वत्र
तापत्रयदुःखितात्मा
निर्विद्यते
न
स्वकुटुम्बरामः
15
▾
Meaning
Keep
वित्तेषु
नित्याभिनिविष्टचेता
विद्वांश्च
दोषं
परवित्तहर्तुः
।
प्रेत्येह
चाथाप्यजितेन्द्रियस्त-
दशान्तकामो
हरते
कुटुम्बी
16
▾
Meaning
Keep
विद्वानपीत्थं
दनुजाः
कुटुम्बं
पुष्णन्
स्वलोकाय
न
कल्पते
वै
।
यः
स्वीयपारक्यविभिन्नभाव-
स्तमः
प्रपद्येत
यथा
विमूढः
17
▾
Meaning
Keep
यतो
न
कश्चित्क्व
च
कुत्रचिद्वा
दीनः
स्वमात्मानमलं
समर्थः
।
विमोचितुं
कामदृशां
विहार-
क्रीडामृगो
यन्निगडो
विसर्गः
18
▾
Meaning
Keep
ततो
विदूरात्परिहृत्य
दैत्या
दैत्येषु
सङ्गं
विषयात्मकेषु
।
उपेत
नारायणमादिदेवं
स
मुक्तसङ्गैरिषितोऽपवर्गः
19
▾
Meaning
Keep
न
ह्यच्युतं
प्रीणयतो
बह्वायासोऽसुरात्मजाः
।
आत्मत्वात्सर्वभूतानां
सिद्धत्वादिह
सर्वतः
20
▾
Meaning
Keep
परावरेषु
भूतेषु
ब्रह्मान्तस्थावरादिषु
।
भौतिकेषु
विकारेषु
भूतेष्वथ
महत्सु
च
21
▾
Meaning
Keep
गुणेषु
गुणसाम्ये
च
गुणव्यतिकरे
तथा
।
एक
एव
परो
ह्यात्मा
भगवानीश्वरोऽव्ययः
22
▾
Meaning
Keep
प्रत्यगात्मस्वरूपेण
दृश्यरूपेण
च
स्वयम्
।
व्याप्यव्यापकनिर्देश्यो
ह्यनिर्देश्योऽविकल्पितः
23
▾
Meaning
Keep
केवलानुभवानन्दस्वरूपः
परमेश्वरः
।
माययान्तर्हितैश्वर्य
ईयते
गुणसर्गया
24
▾
Meaning
Keep
तस्मात्सर्वेषु
भूतेषु
दयां
कुरुत
सौहृदम्
।
आसुरं
भावमुन्मुच्य
यया
तुष्यत्यधोक्षजः
25
▾
Meaning
Keep
तुष्टे
च
तत्र
किमलभ्यमनन्त
आद्ये
किं
तैर्गुणव्यतिकरादिह
ये
स्वसिद्धाः
।
धर्मादयः
किमगुणेन
च
काङ्क्षितेन
सारंजुषां
चरणयोरुपगायतां
नः
26
▾
Meaning
Keep
धर्मार्थकाम
इति
योऽभिहितस्त्रिवर्ग
ईक्षा
त्रयी
नयदमौ
विविधा
च
वार्ता
।
मन्ये
तदेतदखिलं
निगमस्य
सत्यं
स्वात्मार्पणं
स्वसुहृदः
परमस्य
पुंसः
27
▾
Meaning
Keep
ज्ञानं
तदेतदमलं
दुरवापमाह
नारायणो
नरसखः
किल
नारदाय
।
एकान्तिनां
भगवतस्तदकिञ्चनानां
पादारविन्दरजसाप्लुतदेहिनां
स्यात्
28
▾
Meaning
Keep
श्रुतमेतन्मया
पूर्वं
ज्ञानं
विज्ञानसंयुतम्
।
धर्मं
भागवतं
शुद्धं
नारदाद्देवदर्शनात्
29
▾
Meaning
Keep
प्रह्राद
त्वं
वयं
चापि
नर्तेऽन्यं
विद्महे
गुरुम्
।
एताभ्यां
गुरुपुत्राभ्यां
बालानामपि
हीश्वरौ
30
▾
Meaning
Keep
बालस्यान्तःपुरस्थस्य
महत्सङ्गो
दुरन्वयः
।
छिन्धि
नः
संशयं
सौम्य
स्याच्चेद्विश्रम्भकारणम्
Previous
←
Prahlada Before His Teachers
Next
What Prahlada Heard In The Womb
→