Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Man-Lion Comes Out Of The Pillar
Śrīmad Bhāgavatam
›
Canto 7
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथ
दैत्यसुताः
सर्वे
श्रुत्वा
तदनुवर्णितम्
।
जगृहुर्निरवद्यत्वान्नैव
गुर्वनुशिक्षितम्
2
▾
Meaning
Keep
अथाचार्यसुतस्तेषां
बुद्धिमेकान्तसंस्थिताम्
।
आलक्ष्य
भीतस्त्वरितो
राज्ञ
आवेदयद्यथा
3
▾
Meaning
Keep
श्रुत्वा
तदप्रियं
दैत्यो
दुःसहं
तनयानयम्
।
कोपावेशचलद्गात्रः
पुत्रं
हन्तुं
मनो
दधे
4
▾
Meaning
Keep
क्षिप्त्वा
परुषया
वाचा
प्रह्रादमतदर्हणम्
।
आहेक्षमाणः
पापेन
तिरश्चीनेन
चक्षुषा
5
▾
Meaning
Keep
प्रश्रयावनतं
दान्तं
बद्धाञ्जलिमवस्थितम्
।
सर्पः
पदाहत
इव
श्वसन्
प्रकृतिदारुणः
6
▾
Meaning
Keep
हे
दुर्विनीत
मन्दात्मन्
कुलभेदकराधम
।
स्तब्धं
मच्छासनोद्धूतं
नेष्ये
त्वाद्य
यमक्षयम्
7
▾
Meaning
Keep
क्रुद्धस्य
यस्य
कम्पन्ते
त्रयो
लोकाः
सहेश्वराः
।
तस्य
मेऽभीतवन्मूढ
शासनं
किं
बलोऽत्यगाः
8
▾
Meaning
Keep
न
केवलं
मे
भवतश्च
राजन्
स
वै
बलं
बलिनां
चापरेषाम्
।
परेऽवरेऽमी
स्थिरजङ्गमा
ये
ब्रह्मादयो
येन
वशं
प्रणीताः
9
▾
Meaning
Keep
स
ईश्वरः
काल
उरुक्रमोऽसा-
वोजःसहःसत्त्वबलेन्द्रियात्मा
।
स
एव
विश्वं
परमः
स्वशक्तिभिः
सृजत्यवत्यत्ति
गुणत्रयेशः
10
▾
Meaning
Keep
जह्यासुरं
भावमिमं
त्वमात्मनः
समं
मनो
धत्स्व
न
सन्ति
विद्विषः
।
ऋतेऽजितादात्मन
उत्पथे
स्थितात्
तद्धि
ह्यनन्तस्य
महत्समर्हणम्
11
▾
Meaning
Keep
दस्यून्
पुरा
षण्
न
विजित्य
लुम्पतो
मन्यन्त
एके
स्वजिता
दिशो
दश
।
जितात्मनो
ज्ञस्य
समस्य
देहिनां
साधोः
स्वमोहप्रभवाः
कुतः
परे
12
▾
Meaning
Keep
व्यक्तं
त्वं
मर्तुकामोऽसि
योऽतिमात्रं
विकत्थसे
।
मुमूर्षूणां
हि
मन्दात्मन्
ननु
स्युर्विप्लवा
गिरः
13
▾
Meaning
Keep
यस्त्वया
मन्दभाग्योक्तो
मदन्यो
जगदीश्वरः
।
क्वासौ
यदि
स
सर्वत्र
कस्मात्स्तम्भे
न
दृश्यते
14
▾
Meaning
Keep
सोऽहं
विकत्थमानस्य
शिरः
कायाद्धरामि
ते
।
गोपायेत
हरिस्त्वाद्य
यस्ते
शरणमीप्सितम्
15
▾
Meaning
Keep
एवं
दुरुक्तैर्मुहुरर्दयन्
रुषा
सुतं
महाभागवतं
महासुरः
।
खड्गं
प्रगृह्योत्पतितो
वरासना-
त्स्तम्भं
तताडातिबलः
स्वमुष्टिना
16
▾
Meaning
Keep
तदैव
तस्मिन्निनदोऽतिभीषणो
बभूव
येनाण्डकटाहमस्फुटत्
।
यं
वै
स्वधिष्ण्योपगतं
त्वजादयः
श्रुत्वा
स्वधामात्ययमङ्ग
मेनिरे
17
▾
Meaning
Keep
स
विक्रमन्
पुत्रवधेप्सुरोजसा
निशम्य
निर्ह्रादमपूर्वमद्भुतम्
।
अन्तःसभायां
न
ददर्श
तत्पदं
वितत्रसुर्येन
सुरारियूथपाः
18
▾
Meaning
Keep
सत्यं
विधातुं
निजभृत्यभाषितं
व्याप्तिं
च
भूतेष्वखिलेषु
चात्मनः
।
अदृश्यतात्यद्भुतरूपमुद्वहन्
स्तम्भे
सभायां
न
मृगं
न
मानुषम्
19
▾
Meaning
Keep
स
सत्त्वमेनं
परितोऽपिपश्यन्
स्तम्भस्य
मध्यादनु
निर्जिहानम्
।
नायं
मृगो
नापि
नरो
विचित्रमहो
किमेतन्नृमृगेन्द्ररूपम्
20
▾
Meaning
Keep
मीमांसमानस्य
समुत्थितोऽग्रतो
नृसिंहरूपस्तदलं
भयानकम्
।
प्रतप्तचामीकरचण्डलोचनं
स्फुरत्सटाकेसरजृम्भिताननम्
21
▾
Meaning
Keep
करालदंष्ट्रं
करवालचञ्चल-
क्षुरान्तजिह्वं
भ्रुकुटीमुखोल्बणम्
।
स्तब्धोर्ध्वकर्णं
गिरिकन्दराद्भुत-
व्यात्तास्यनासं
हनुभेदभीषणम्
22
▾
Meaning
Keep
दिविस्पृशत्कायमदीर्घपीवर-
ग्रीवोरुवक्षःस्थलमल्पमध्यमम्
।
चन्द्रांशुगौरैश्छुरितं
तनूरुहै-
र्विष्वग्भुजानीकशतं
नखायुधम्
23
▾
Meaning
Keep
दुरासदं
सर्वनिजेतरायुध-
प्रवेकविद्रावितदैत्यदानवम्
।
प्रायेण
मेऽयं
हरिणोरुमायिना
वधः
स्मृतोऽनेन
समुद्यतेन
किम्
24
▾
Meaning
Keep
एवं
ब्रुवंस्त्वभ्यपतद्गदायुधो
नदन्
नृसिंहं
प्रति
दैत्यकुञ्जरः
।
अलक्षितोऽग्नौ
पतितः
पतङ्गमो
यथा
नृसिंहौजसि
सोऽसुरस्तदा
25
▾
Meaning
Keep
न
तद्विचित्रं
खलु
सत्त्वधामनि
स्वतेजसा
यो
नु
पुरापिबत्तमः
।
ततोऽभिपद्याभ्यहनन्महासुरो
रुषा
नृसिंहं
गदयोरुवेगया
26
▾
Meaning
Keep
तं
विक्रमन्तं
सगदं
गदाधरो
महोरगं
तार्क्ष्यसुतो
यथाग्रहीत्
।
स
तस्य
हस्तोत्कलितस्तदासुरो
विक्रीडतो
यद्वदहिर्गरुत्मतः
27
▾
Meaning
Keep
असाध्वमन्यन्त
हृतौकसोऽमरा
घनच्छदा
भारत
सर्वधिष्ण्यपाः
।
तं
मन्यमानो
निजवीर्यशङ्कितं
यद्धस्तमुक्तो
नृहरिं
महासुरः
।
पुनस्तमासज्जत
खड्गचर्मणी
प्रगृह्य
वेगेन
जितश्रमो
मृधे
28
▾
Meaning
Keep
तं
श्येनवेगं
शतचन्द्रवर्त्मभि-
श्चरन्तमच्छिद्रमुपर्यधो
हरिः
।
कृत्वाट्टहासं
खरमुत्स्वनोल्बणं
निमीलिताक्षं
जगृहे
महाजवः
29
▾
Meaning
Keep
विष्वक्
स्फुरन्तं
ग्रहणातुरं
हरिर्व्यालो
यथाऽऽखुं
कुलिशाक्षतत्वचम्
।
द्वार्यूर
आपत्य
ददार
लीलया
नखैर्यथाहिं
गरुडो
महाविषम्
30
▾
Meaning
Keep
संरम्भदुष्प्रेक्ष्यकराललोचनो
व्यात्ताननान्तं
विलिहन्
स्वजिह्वया
।
असृग्लवाक्तारुणकेसराननो
यथान्त्रमाली
द्विपहत्यया
हरिः
31
▾
Meaning
Keep
नखाङ्कुरोत्पाटितहृत्सरोरुहं
विसृज्य
तस्यानुचरानुदायुधान्
।
अहन्
समस्तान्नखशस्त्रपार्ष्णिभिर्दोर्दण्डयूथोऽनुपथान्
सहस्रशः
32
▾
Meaning
Keep
सटावधूता
जलदाः
परापतन्
ग्रहाश्च
तद्दृष्टिविमुष्टरोचिषः
।
अम्भोधयः
श्वासहता
विचुक्षुभु-
र्निर्ह्रादभीता
दिगिभा
विचुक्रुशुः
33
▾
Meaning
Keep
द्यौस्तत्सटोत्क्षिप्तविमानसङ्कुला
प्रोत्सर्पत
क्ष्मा
च
पदातिपीडिता
।
शैलाः
समुत्पेतुरमुष्य
रंहसा
तत्तेजसा
खं
ककुभो
न
रेजिरे
34
▾
Meaning
Keep
ततः
सभायामुपविष्टमुत्तमे
नृपासने
सम्भृततेजसं
विभुम्
।
अलक्षितद्वैरथमत्यमर्षणं
प्रचण्डवक्त्रं
न
बभाज
कश्चन
35
▾
Meaning
Keep
निशाम्य
लोकत्रयमस्तकज्वरं
तमादिदैत्यं
हरिणा
हतं
मृधे
।
प्रहर्षवेगोत्कलितानना
मुहुः
प्रसूनवर्षैर्ववृषुः
सुरस्त्रियः
36
▾
Meaning
Keep
तदा
विमानावलिभिर्नभस्तलं
दिदृक्षतां
सङ्कुलमास
नाकिनाम्
।
सुरानका
दुन्दुभयोऽथ
जघ्निरे
गन्धर्वमुख्या
ननृतुर्जगुः
स्त्रियः
37
▾
Meaning
Keep
तत्रोपव्रज्य
विबुधा
ब्रह्मेन्द्रगिरिशादयः
।
ऋषयः
पितरः
सिद्धा
विद्याधरमहोरगाः
38
▾
Meaning
Keep
मनवः
प्रजानां
पतयो
गन्धर्वाप्सरचारणाः
।
यक्षाः
किम्पुरुषास्तात
वेतालाः
सहकिन्नराः
Hymn
39
▾
Meaning
Keep
ते
विष्णुपार्षदाः
सर्वे
सुनन्दकुमुदादयः
।
मूर्ध्नि
बद्धाञ्जलिपुटा
आसीनं
तीव्रतेजसम्
।
ईडिरे
नरशार्दुलं
नातिदूरचराः
पृथक्
40
▾
Meaning
Keep
नतोऽस्म्यनन्ताय
दुरन्तशक्तये
विचित्रवीर्याय
पवित्रकर्मणे
।
विश्वस्य
सर्गस्थितिसंयमान्
गुणैः
स्वलीलया
सन्दधतेऽव्ययात्मने
41
▾
Meaning
Keep
कोपकालो
युगान्तस्ते
हतोऽयमसुरोऽल्पकः
।
तत्सुतं
पाह्युपसृतं
भक्तं
ते
भक्तवत्सल
42
▾
Meaning
Keep
प्रत्यानीताः
परम
भवता
त्रायता
नः
स्वभागा
दैत्याक्रान्तं
हृदयकमलं
तद्गृहं
प्रत्यबोधि
।
कालग्रस्तं
कियदिदमहो
नाथ
शुश्रूषतां
ते
मुक्तिस्तेषां
न
हि
बहु
मता
नारसिंहापरैः
किम्
43
▾
Meaning
Keep
त्वं
नस्तपः
परममात्थ
यदात्मतेजो
येनेदमादिपुरुषात्मगतं
ससर्ज
।
तद्विप्रलुप्तममुनाद्य
शरण्यपाल
रक्षागृहीतवपुषा
पुनरन्वमंस्थाः
Hymn
44
▾
Meaning
Keep
श्राद्धानि
नोऽधिबुभुजे
प्रसभं
तनूजै-
र्दत्तानि
तीर्थसमयेऽप्यपिबत्तिलाम्बु
।
तस्योदरान्नखविदीर्णवपाद्य
आर्च्छ-
त्तस्मै
नमो
नृहरयेऽखिलधर्मगोप्त्रे
45
▾
Meaning
Keep
यो
नो
गतिं
योगसिद्धामसाधुरहार्षीद्
योगतपोबलेन
।
नाना
दर्पं
तं
नखैर्विददार
तस्मै
तुभ्यं
प्रणताः
स्मो
नृसिंह
46
▾
Meaning
Keep
विद्यां
पृथग्धारणयानुराद्धां
न्यषेधदज्ञो
बलवीर्यदृप्तः
।
स
येन
संख्ये
पशुवद्धतस्तं
मायानृसिंहं
प्रणताः
स्म
नित्यम्
47
▾
Meaning
Keep
येन
पापेन
रत्नानि
स्त्रीरत्नानि
हृतानि
नः
।
तद्वक्षःपाटनेनासां
दत्तानन्द
नमोऽस्तु
ते
48
▾
Meaning
Keep
मनवो
वयं
तव
निदेशकारिणो
दितिजेन
देव
परिभूतसेतवः
।
भवता
खलः
स
उपसंहृतः
प्रभो
करवाम
ते
किमनुशाधि
किङ्करान्
49
▾
Meaning
Keep
प्रजेशा
वयं
ते
परेशाभिसृष्टा
न
येन
प्रजा
वै
सृजामो
निषिद्धाः
।
स
एष
त्वया
भिन्नवक्षा
नु
शेते
जगन्मङ्गलं
सत्त्वमूर्तेऽवतारः
50
▾
Meaning
Keep
वयं
विभो
ते
नटनाट्यगायका
येनात्मसाद्वीर्यबलौजसा
कृताः
।
स
एष
नीतो
भवता
दशामिमां
किमुत्पथस्थः
कुशलाय
कल्पते
51
▾
Meaning
Keep
हरे
तवाङ्घ्रिपङ्कजं
भवापवर्गमाश्रिताः
।
यदेष
साधुहृच्छयस्त्वयासुरः
समापितः
52
▾
Meaning
Keep
वयमनुचरमुख्याः
कर्मभिस्ते
मनोज्ञै-
स्त
इह
दितिसुतेन
प्रापिता
वाहकत्वम्
।
स
तु
जनपरितापं
तत्कृतं
जानता
ते
नरहर
उपनीतः
पञ्चतां
पञ्चविंश
53
▾
Meaning
Keep
वयं
किम्पुरुषास्त्वं
तु
महापुरुष
ईश्वरः
।
अयं
कुपुरुषो
नष्टो
धिक्कृतः
साधुभिर्यदा
54
▾
Meaning
Keep
सभासु
सत्रेषु
तवामलं
यशो
गीत्वा
सपर्यां
महतीं
लभामहे
।
यस्तां
व्यनैषीद्
भृशमेष
दुर्जनो
द्विष्ट्या
हतस्ते
भगवन्
यथाऽऽमयः
55
▾
Meaning
Keep
वयमीश
किन्नरगणास्तवानुगा
दितिजेन
विष्टिममुनानुकारिताः
।
भवता
हरे
स
वृजिनोऽवसादितो
नरसिंह
नाथ
विभवाय
नो
भव
56
▾
Meaning
Keep
अद्यैतद्धरिनररूपमद्भुतं
ते
दृष्टं
नः
शरणद
सर्वलोकशर्म
।
सोऽयं
ते
विधिकर
ईश
विप्रशप्त-
स्तस्येदं
निधनमनुग्रहाय
विद्मः
Previous
←
What Prahlada Heard In The Womb
Next
Prahlada's Praise
→