Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Classes And The Stages
Śrīmad Bhāgavatam
›
Canto 7
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
श्रुत्वेहितं
साधुसभासभाजितं
महत्तमाग्रण्य
उरुक्रमात्मनः
।
युधिष्ठिरो
दैत्यपतेर्मुदा
युतः
पप्रच्छ
भूयस्तनयं
स्वयम्भुवः
2
▾
Meaning
Keep
भगवञ्छ्रोतुमिच्छामि
नृणां
धर्मं
सनातनम्
।
वर्णाश्रमाचारयुतं
यत्
पुमान्
विन्दते
परम्
3
▾
Meaning
Keep
भवान्
प्रजापतेः
साक्षादात्मजः
परमेष्ठिनः
।
सुतानां
सम्मतो
ब्रह्मंस्तपोयोगसमाधिभिः
4
▾
Meaning
Keep
नारायणपरा
विप्रा
धर्मं
गुह्यं
परं
विदुः
।
करुणाः
साधवः
शान्तास्त्वद्विधा
न
तथापरे
5
▾
Meaning
Keep
नत्वा
भगवतेऽजाय
लोकानां
धर्मसेतवे
।
वक्ष्ये
सनातनं
धर्मं
नारायणमुखाच्छ्रुतम्
6
▾
Meaning
Keep
योऽवतीर्यात्मनोंऽशेन
दाक्षायण्यां
तु
धर्मतः
।
लोकानां
स्वस्तयेऽध्यास्ते
तपो
बदरिकाश्रमे
7
▾
Meaning
Keep
धर्ममूलं
हि
भगवान्
सर्ववेदमयो
हरिः
।
स्मृतं
च
तद्विदां
राजन्
येन
चात्मा
प्रसीदति
8
▾
Meaning
Keep
सत्यं
दया
तपः
शौचं
तितिक्षेक्षा
शमो
दमः
।
अहिंसा
ब्रह्मचर्यं
च
त्यागः
स्वाध्याय
आर्जवम्
9
▾
Meaning
Keep
सन्तोषः
समदृक्सेवा
ग्राम्येहोपरमः
शनैः
।
नृणां
विपर्ययेहेक्षा
मौनमात्मविमर्शनम्
10
▾
Meaning
Keep
अन्नाद्यादेः
संविभागो
भूतेभ्यश्च
यथार्हतः
।
तेष्वात्मदेवताबुद्धिः
सुतरां
नृषु
पाण्डव
11
▾
Meaning
Keep
श्रवणं
कीर्तनं
चास्य
स्मरणं
महतां
गतेः
।
सेवेज्यावनतिर्दास्यं
सख्यमात्मसमर्पणम्
12
▾
Meaning
Keep
नृणामयं
परो
धर्मः
सर्वेषां
समुदाहृतः
।
त्रिंशल्लक्षणवान्
राजन्
सर्वात्मा
येन
तुष्यति
13
▾
Meaning
Keep
संस्कारा
यदविच्छिन्नाः
स
द्विजोऽजो
जगाद
यम्
।
इज्याध्ययनदानानि
विहितानि
द्विजन्मनाम्
।
जन्मकर्मावदातानां
क्रियाश्चाश्रमचोदिताः
14
▾
Meaning
Keep
विप्रस्याध्ययनादीनि
षडन्यस्याप्रतिग्रहः
।
राज्ञो
वृत्तिः
प्रजागोप्तुरविप्राद्वा
करादिभिः
15
▾
Meaning
Keep
वैश्यस्तु
वार्तावृत्तिश्च
नित्यं
ब्रह्मकुलानुगः
।
शूद्रस्य
द्विजशुश्रूषा
वृत्तिश्च
स्वामिनो
भवेत्
16
▾
Meaning
Keep
वार्ता
विचित्रा
शालीनयायावरशिलोञ्छनम्
।
विप्रवृत्तिश्चतुर्धेयं
श्रेयसी
चोत्तरोत्तरा
17
▾
Meaning
Keep
जघन्यो
नोत्तमां
वृत्तिमनापदि
भजेन्नरः
।
ऋते
राजन्यमापत्सु
सर्वेषामपि
सर्वशः
18
▾
Meaning
Keep
ऋतामृताभ्यां
जीवेत
मृतेन
प्रमृतेन
वा
।
सत्यानृताभ्यां
जीवेत
न
श्ववृत्त्या
कथञ्चन
19
▾
Meaning
Keep
ऋतमुञ्छशिलं
प्रोक्तममृतं
यदयाचितम्
।
मृतं
तु
नित्ययाञ्चा
स्यात्प्रमृतं
कर्षणं
स्मृतम्
20
▾
Meaning
Keep
सत्यानृतं
च
वाणिज्यं
श्ववृत्तिर्नीचसेवनम्
।
वर्जयेत्तां
सदा
विप्रो
राजन्यश्च
जुगुप्सिताम्
।
सर्ववेदमयो
विप्रः
सर्वदेवमयो
नृपः
21
▾
Meaning
Keep
शमो
दमस्तपः
शौचं
सन्तोषः
क्षान्तिरार्जवम्
।
ज्ञानं
दयाच्युतात्मत्वं
सत्यं
च
ब्रह्मलक्षणम्
22
▾
Meaning
Keep
शौर्यं
वीर्यं
धृतिस्तेजस्त्याग
आत्मजयः
क्षमा
।
ब्रह्मण्यता
प्रसादश्च
रक्षा
च
क्षत्रलक्षणम्
23
▾
Meaning
Keep
देवगुर्वच्युते
भक्तिस्त्रिवर्गपरिपोषणम्
।
आस्तिक्यमुद्यमो
नित्यं
नैपुण्यं
वैश्यलक्षणम्
24
▾
Meaning
Keep
शूद्रस्य
संनतिः
शौचं
सेवा
स्वामिन्यमायया
।
अमन्त्रयज्ञो
ह्यस्तेयं
सत्यं
गोविप्ररक्षणम्
25
▾
Meaning
Keep
स्त्रीणां
च
पतिदेवानां
तच्छुश्रूषानुकूलता
।
तद्बन्धुष्वनुवृत्तिश्च
नित्यं
तद्व्रतधारणम्
26
▾
Meaning
Keep
सम्मार्जनोपलेपाभ्यां
गृहमण्डनवर्तनैः
।
स्वयं
च
मण्डिता
नित्यं
परिमृष्टपरिच्छदा
27
▾
Meaning
Keep
कामैरुच्चावचैः
साध्वी
प्रश्रयेण
दमेन
च
।
वाक्यैः
सत्यैः
प्रियैः
प्रेम्णा
काले
काले
भजेत्पतिम्
28
▾
Meaning
Keep
सन्तुष्टालोलुपा
दक्षा
धर्मज्ञा
प्रियसत्यवाक्
।
अप्रमत्ता
शुचिः
स्निग्धा
पतिं
त्वपतितं
भजेत्
29
▾
Meaning
Keep
या
पतिं
हरिभावेन
भजेच्छ्रीरिव
तत्परा
।
हर्यात्मना
हरेर्लोके
पत्या
श्रीरिव
मोदते
30
▾
Meaning
Keep
वृत्तिः
संकरजातीनां
तत्तत्कुलकृता
भवेत्
।
अचौराणामपापानामन्त्यजान्तेऽवसायिनाम्
31
▾
Meaning
Keep
प्रायः
स्वभावविहितो
नृणां
धर्मो
युगे
युगे
।
वेददृग्भिः
स्मृतो
राजन्
प्रेत्य
चेह
च
शर्मकृत्
32
▾
Meaning
Keep
वृत्त्या
स्वभावकृतया
वर्तमानः
स्वकर्मकृत्
।
हित्वा
स्वभावजं
कर्म
शनैर्निर्गुणतामियात्
33
▾
Meaning
Keep
उप्यमानं
मुहुः
क्षेत्रं
स्वयं
निर्वीर्यतामियात्
।
न
कल्पते
पुनः
सूत्यै
उप्तं
बीजं
च
नश्यति
34
▾
Meaning
Keep
एवं
कामाशयं
चित्तं
कामानामतिसेवया
।
विरज्येत
यथा
राजन्नग्निवत्
कामबिन्दुभिः
35
▾
Meaning
Keep
यस्य
यल्लक्षणं
प्रोक्तं
पुंसो
वर्णाभिव्यञ्जकम्
।
यदन्यत्रापि
दृश्येत
तत्तेनैव
विनिर्दिशेत्
Previous
←
The Boon Prahlada Would Not Take
Next
The Student, the Forest, and the Laying Down of the Body
→