Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Student, the Forest, and the Laying Down of the Body
Śrīmad Bhāgavatam
›
Canto 7
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
ब्रह्मचारी
गुरुकुले
वसन्
दान्तो
गुरोर्हितम्
।
आचरन्
दासवन्नीचो
गुरौ
सुदृढसौहृदः
2
▾
Meaning
Keep
सायं
प्रातरुपासीत
गुर्वग्न्यर्कसुरोत्तमान्
।
उभे
सन्ध्येउभे
च
यतवाग्
जपन्
ब्रह्म
समाहितः
3
▾
Meaning
Keep
छन्दांस्यधीयीत
गुरोराहूतश्चेत्सुयन्त्रितः
।
उपक्रमेऽवसाने
च
चरणौ
शिरसा
नमेत्
4
▾
Meaning
Keep
मेखलाजिनवासांसि
जटादण्डकमण्डलून्
।
बिभृयादुपवीतं
च
दर्भपाणिर्यथोदितम्
5
▾
Meaning
Keep
सायं
प्रातश्चरेद्भैक्ष्यं
गुरवे
तन्निवेदयेत्
।
भुञ्जीत
यद्यनुज्ञातो
नो
चेदुपवसेत्
क्वचित्
6
▾
Meaning
Keep
सुशीलो
मितभुग्दक्षः
श्रद्दधानो
जितेन्द्रियः
।
यावदर्थं
व्यवहरेत्स्त्रीषु
स्त्रीनिर्जितेषु
च
7
▾
Meaning
Keep
वर्जयेत्प्रमदागाथामगृहस्थो
बृहद्व्रतः
।
इन्द्रियाणि
प्रमाथीनि
हरन्त्यपि
यतेर्मनः
8
▾
Meaning
Keep
केशप्रसाधनोन्मर्दस्नपनाभ्यञ्जनादिकम्
।
गुरुस्त्रीभिर्युवतिभिः
कारयेन्नात्मनो
युवा
9
▾
Meaning
Keep
नन्वग्निः
प्रमदा
नाम
घृतकुम्भसमः
पुमान्
।
सुतामपि
रहो
जह्यादन्यदा
यावदर्थकृत्
10
▾
Meaning
Keep
कल्पयित्वाऽऽत्मना
यावदाभासमिदमीश्वरः
।
द्वैतं
तावन्न
विरमेत्ततो
ह्यस्य
विपर्ययः
11
▾
Meaning
Keep
एतत्सर्वं
गृहस्थस्य
समाम्नातं
यतेरपि
।
गुरुवृत्तिर्विकल्पेन
गृहस्थस्यर्तुगामिनः
12
▾
Meaning
Keep
अञ्जनाभ्यञ्जनोन्मर्द
स्त्र्यवलेखामिषं
मधु
।
स्रग्गन्धलेपालङ्कारांस्त्यजेयुर्ये
धृतव्रताः
13
▾
Meaning
Keep
उषित्वैवं
गुरुकुले
द्विजोऽधीत्यावबुध्य
च
।
त्रयीं
साङ्गोपनिषदं
यावदर्थं
यथाबलम्
14
▾
Meaning
Keep
दत्त्वा
वरमनुज्ञातो
गुरोः
कामं
यदीश्वरः
।
गृहं
वनं
वा
प्रविशेत्प्रव्रजेत्तत्र
वा
वसेत्
15
▾
Meaning
Keep
अग्नौ
गुरावात्मनि
च
सर्वभूतेष्वधोक्षजम्
।
भूतैः
स्वधामभिः
पश्येदप्रविष्टं
प्रविष्टवत्
16
▾
Meaning
Keep
एवं
विधो
ब्रह्मचारी
वानप्रस्थो
यतिर्गृही
।
चरन्
विदितविज्ञानः
परं
ब्रह्माधिगच्छति
17
▾
Meaning
Keep
वानप्रस्थस्य
वक्ष्यामि
नियमान्
मुनिसम्मतान्
।
यानातिष्ठन्
मुनिर्गच्छेदृषिलोकमिहाञ्जसा
18
▾
Meaning
Keep
न
कृष्टपच्यमश्नीयादकृष्टं
चाप्यकालतः
।
अग्निपक्वमथामं
वा
अर्कपक्वमुताहरेत्
19
▾
Meaning
Keep
वन्यैश्चरुपुरोडाशान्
निर्वपेत्
कालचोदितान्
।
लब्धे
नवे
नवेऽन्नाद्ये
पुराणं
च
परित्यजेत्
20
▾
Meaning
Keep
अग्न्यर्थमेव
शरणमुटजं
वाद्रिकन्दरम्
।
श्रयेत
हिमवाय्वग्निवर्षार्कातपषाट्स्वयम्
21
▾
Meaning
Keep
केशरोमनखश्मश्रुमलानि
जटिलो
दधत्
।
कमण्डल्वजिने
दण्डवल्कलाग्निपरिच्छदान्
22
▾
Meaning
Keep
चरेद्वने
द्वादशाब्दानष्टौ
वा
चतुरो
मुनिः
।
द्वावेकं
वा
यथा
बुद्धिर्न
विपद्येत
कृच्छ्रतः
23
▾
Meaning
Keep
यदाकल्पः
स्वक्रियायां
व्याधिभिर्जरयाथवा
।
आन्वीक्षिक्यां
वा
विद्यायां
कुर्यादनशनादिकम्
24
▾
Meaning
Keep
आत्मन्यग्नीन्
समारोप्य
संन्यस्याहं
ममात्मताम्
।
कारणेषु
न्यसेत्
सम्यक्
सङ्घातं
तु
यथार्हतः
25
▾
Meaning
Keep
खे
खानि
वायौ
निश्वासांस्तेजस्यूष्माणमात्मवान्
।
अप्स्वसृक्श्लेष्मपूयानि
क्षितौ
शेषं
यथोद्भवम्
26
▾
Meaning
Keep
वाचमग्नौ
सवक्तव्यामिन्द्रे
शिल्पं
करावपि
।
पदानि
गत्या
वयसि
रत्योपस्थं
प्रजापतौ
27
▾
Meaning
Keep
मृत्यौ
पायुं
विसर्गं
च
यथास्थानं
विनिर्दिशेत्
।
दिक्षु
श्रोत्रं
सनादेन
स्पर्शेनाध्यात्मनि
त्वचम्
28
▾
Meaning
Keep
रूपाणि
चक्षुषा
राजन्
ज्योतिष्यभिनिवेशयेत्
।
अप्सु
प्रचेतसा
जिह्वां
घ्रेयैर्घ्राणं
क्षितौ
न्यसेत्
29
▾
Meaning
Keep
मनो
मनोरथैश्चन्द्रे
बुद्धिं
बोध्यैः
कवौ
परे
।
कर्माण्यध्यात्मना
रुद्रे
यदहं
ममताक्रिया
।
सत्त्वेन
चित्तं
क्षेत्रज्ञे
गुणैर्वैकारिकं
परे
30
▾
Meaning
Keep
अप्सु
क्षितिमपो
ज्योतिष्यदो
वायौ
नभस्यमुम्
।
कूटस्थे
तच्च
महति
तदव्यक्तेऽक्षरे
च
तत्
31
▾
Meaning
Keep
इत्यक्षरतयाऽऽत्मानं
चिन्मात्रमवशेषितम्
।
ज्ञात्वाद्वयोऽथ
विरमेद्दग्धयोनिरिवानलः
Previous
←
The Classes And The Stages
Next
The Sage Who Lived by the Python's Way
→