Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Battle of Gods and Demons
Śrīmad Bhāgavatam
›
Canto 8
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
इति
दानवदैतेया
नाविन्दन्नमृतं
नृप
।
युक्ताः
कर्मणि
यत्ताश्च
वासुदेवपराङ्मुखाः
2
▾
Meaning
Keep
साधयित्वामृतं
राजन्
पाययित्वा
स्वकान्
सुरान्
।
पश्यतां
सर्वभूतानां
ययौ
गरुडवाहनः
3
▾
Meaning
Keep
सपत्नानां
परामृद्धिं
दृष्ट्वा
ते
दितिनन्दनाः
।
अमृष्यमाणा
उत्पेतुर्देवान्
प्रत्युद्यतायुधाः
4
▾
Meaning
Keep
ततः
सुरगणाः
सर्वे
सुधया
पीतयैधिताः
।
प्रतिसंयुयुधुः
शस्त्रैर्नारायणपदाश्रयाः
5
▾
Meaning
Keep
तत्र
दैवासुरो
नाम
रणः
परमदारुणः
।
रोधस्युदन्वतो
राजंस्तुमुलो
रोमहर्षणः
6
▾
Meaning
Keep
तत्रान्योन्यं
सपत्नास्ते
संरब्धमनसो
रणे
।
समासाद्यासिभिर्बाणैर्निजघ्नुर्विविधायुधैः
7
▾
Meaning
Keep
शङ्खतूर्यमृदङ्गानां
भेरीडमरिणां
महान्
।
हस्त्यश्वरथपत्तीनां
नदतां
निस्वनोऽभवत्
8
▾
Meaning
Keep
रथिनो
रथिभिस्तत्र
पत्तिभिः
सह
पत्तयः
।
हया
हयैरिभाश्चेभैः
समसज्जन्त
संयुगे
9
▾
Meaning
Keep
उष्ट्रैः
केचिदिभैः
केचिदपरे
युयुधुः
खरैः
।
केचिद्गौरमुखैरृक्षैर्द्वीपिभिर्हरिभिर्भटाः
10
▾
Meaning
Keep
गृध्रैः
कङ्कैर्बकैरन्ये
श्येनभासैस्तिमिङ्गिलैः
।
शरभैर्महिषैः
खड्गैर्गोवृषैर्गवयारुणैः
11
▾
Meaning
Keep
शिवाभिराखुभिः
केचित्कृकलासैः
शशैर्नरैः
।
बस्तैरेके
कृष्णसारैर्हंसैरन्ये
च
सूकरैः
12
▾
Meaning
Keep
अन्ये
जलस्थलखगैः
सत्त्वैर्विकृतविग्रहैः
।
सेनयोरुभयो
राजन्
विविशुस्तेऽग्रतोऽग्रतः
13
▾
Meaning
Keep
चित्रध्वजपटै
राजन्नातपत्रैः
सितामलैः
।
महाधनैर्वज्रदण्डैर्व्यजनैर्बार्हचामरैः
14
▾
Meaning
Keep
वातोद्धूतोत्तरोष्णीषैरर्चिर्भिर्वर्मभूषणैः
।
स्फुरद्भिर्विशदैः
शस्त्रैः
सुतरां
सूर्यरश्मिभिः
15
▾
Meaning
Keep
देवदानववीराणां
ध्वजिन्यौ
पाण्डुनन्दन
।
रेजतुर्वीरमालाभिर्यादसामिव
सागरौ
16
▾
Meaning
Keep
वैरोचनो
बलिः
सङ्ख्ये
सोऽसुराणां
चमूपतिः
।
यानं
वैहायसं
नाम
कामगं
मयनिर्मितम्
17
▾
Meaning
Keep
सर्वसाङ्ग्रामिकोपेतं
सर्वाश्चर्यमयं
प्रभो
।
अप्रतर्क्यमनिर्देश्यं
दृश्यमानमदर्शनम्
18
▾
Meaning
Keep
आस्थितस्तद्
विमानाग्र्यं
सर्वानीकाधिपैर्वृतः
।
बालव्यजनछत्राग्र्यै
रेजे
चन्द्र
इवोदये
19
▾
Meaning
Keep
तस्यासन्
सर्वतो
यानैर्यूथानां
पतयोऽसुराः
।
नमुचिः
शम्बरो
बाणो
विप्रचित्तिरयोमुखः
20
▾
Meaning
Keep
द्विमूर्धा
कालनाभोऽथ
प्रहेतिर्हेतिरिल्वलः
।
शकुनिर्भूतसन्तापो
वज्रदंष्ट्रो
विरोचनः
21
▾
Meaning
Keep
हयग्रीवः
शङ्कुशिराः
कपिलो
मेघदुन्दुभिः
।
तारकश्चक्रदृक्
शुम्भो
निशुम्भो
जम्भ
उत्कलः
22
▾
Meaning
Keep
अरिष्टोऽरिष्टनेमिश्च
मयश्च
त्रिपुराधिपः
।
अन्ये
पौलोमकालेया
निवातकवचादयः
23
▾
Meaning
Keep
अलब्धभागाः
सोमस्य
केवलं
क्लेशभागिनः
।
सर्व
एते
रणमुखे
बहुशो
निर्जितामराः
24
▾
Meaning
Keep
सिंहनादान्
विमुञ्चन्तः
शङ्खान्
दध्मुर्महारवान्
।
दृष्ट्वा
सपत्नानुत्सिक्तान्
बलभित्कुपितो
भृशम्
25
▾
Meaning
Keep
ऐरावतं
दिक्करिणमारूढः
शुशुभे
स्वराट्
।
यथा
स्रवत्प्रस्रवणमुदयाद्रिमहर्पतिः
26
▾
Meaning
Keep
तस्यासन्
सर्वतो
देवा
नानावाहध्वजायुधाः
।
लोकपालाः
सह
गणैर्वाय्वग्निवरुणादयः
27
▾
Meaning
Keep
तेऽन्योन्यमभिसंसृत्य
क्षिपन्तो
मर्मभिर्मिथः
।
आह्वयन्तो
विशन्तोऽग्रे
युयुधुर्द्वन्द्वयोधिनः
28
▾
Meaning
Keep
युयोध
बलिरिन्द्रेण
तारकेण
गुहोऽस्यत
।
वरुणो
हेतिनायुध्यन्मित्रो
राजन्
प्रहेतिना
29
▾
Meaning
Keep
यमस्तु
कालनाभेन
विश्वकर्मा
मयेन
वै
।
शम्बरो
युयुधे
त्वष्ट्रा
सवित्रा
तु
विरोचनः
30
▾
Meaning
Keep
अपराजितेन
नमुचिरश्विनौ
वृषपर्वणा
।
सूर्यो
बलिसुतैर्देवो
बाणज्येष्ठैः
शतेन
च
31
▾
Meaning
Keep
राहुणा
च
तथा
सोमः
पुलोम्ना
युयुधेऽनिलः
।
निशुम्भशुम्भयोर्देवी
भद्रकाली
तरस्विनी
32
▾
Meaning
Keep
वृषाकपिस्तु
जम्भेन
महिषेण
विभावसुः
।
इल्वलः
सह
वातापिर्ब्रह्मपुत्रैररिन्दम
33
▾
Meaning
Keep
कामदेवेन
दुर्मर्ष
उत्कलो
मातृभिः
सह
।
बृहस्पतिश्चोशनसा
नरकेण
शनैश्चरः
34
▾
Meaning
Keep
मरुतो
निवातकवचैः
कालेयैर्वसवोऽमराः
।
विश्वेदेवास्तु
पौलोमै
रुद्राः
क्रोधवशैः
सह
35
▾
Meaning
Keep
त
एवमाजावसुराः
सुरेन्द्रा
द्वन्द्वेन
संहत्य
च
युध्यमानाः
।
अन्योन्यमासाद्य
निजघ्नुरोजसा
जिगीषवस्तीक्ष्णशरासितोमरैः
36
▾
Meaning
Keep
भुशुण्डिभिश्चक्रगदर्ष्टिपट्टिशैः
शक्त्युल्मुकैः
प्रासपरश्वधैरपि
।
निस्त्रिंशभल्लैः
परिघैः
समुद्गरैः
सभिन्दिपालैश्च
शिरांसि
चिच्छिदुः
37
▾
Meaning
Keep
गजास्तुरङ्गाः
सरथाः
पदातयः
सारोहवाहा
विविधा
विखण्डिताः
।
निकृत्तबाहूरुशिरोधराङ्घ्रय-
श्छिन्नध्वजेष्वासतनुत्रभूषणाः
38
▾
Meaning
Keep
तेषां
पदाघातरथाङ्गचूर्णिता-
दायोधनादुल्बण
उत्थितस्तदा
।
रेणुर्दिशः
खं
द्युमणिं
च
छादयन्
न्यवर्ततासृक्स्रुतिभिः
परिप्लुतात्
39
▾
Meaning
Keep
शिरोभिरुद्धूतकिरीटकुण्डलैः
संरम्भदृग्भिः
परिदष्टदच्छदैः
।
महाभुजैः
साभरणैः
सहायुधैः
सा
प्रास्तृता
भूः
करभोरुभिर्बभौ
40
▾
Meaning
Keep
कबन्धास्तत्र
चोत्पेतुः
पतितस्वशिरोऽक्षिभिः
।
उद्यतायुधदोर्दण्डैराधावन्तो
भटान्
मृधे
41
▾
Meaning
Keep
बलिर्महेन्द्रं
दशभिस्त्रिभिरैरावतं
शरैः
।
चतुर्भिश्चतुरो
वाहानेकेनारोहमार्च्छयत्
42
▾
Meaning
Keep
स
तानापततः
शक्रस्तावद्भिः
शीघ्रविक्रमः
।
चिच्छेद
निशितैर्भल्लैरसम्प्राप्तान्
हसन्निव
43
▾
Meaning
Keep
तस्य
कर्मोत्तमं
वीक्ष्य
दुर्मर्षः
शक्तिमाददे
।
तां
ज्वलन्तीं
महोल्काभां
हस्तस्थामच्छिनद्धरिः
44
▾
Meaning
Keep
ततः
शूलं
ततः
प्रासं
ततस्तोमरमृष्टयः
।
यद्यच्छस्त्रं
समादद्यात्सर्वं
तदच्छिनद्विभुः
45
▾
Meaning
Keep
ससर्जाथासुरीं
मायामन्तर्धानगतोऽसुरः
।
ततः
प्रादुरभूच्छैलः
सुरानीकोपरि
प्रभो
46
▾
Meaning
Keep
ततो
निपेतुस्तरवो
दह्यमाना
दवाग्निना
।
शिलाः
सटङ्कशिखराश्चूर्णयन्त्यो
द्विषद्बलम्
47
▾
Meaning
Keep
महोरगाः
समुत्पेतुर्दन्दशूकाः
सवृश्चिकाः
।
सिंहव्याघ्रवराहाश्च
मर्दयन्तो
महागजाः
48
▾
Meaning
Keep
यातुधान्यश्च
शतशः
शूलहस्ता
विवाससः
।
छिन्धि
भिन्धीति
वादिन्यस्तथा
रक्षोगणाः
प्रभो
49
▾
Meaning
Keep
ततो
महाघना
व्योम्नि
गम्भीरपरुषस्वनाः
।
अङ्गारान्
मुमुचुर्वातैराहताः
स्तनयित्नवः
50
▾
Meaning
Keep
सृष्टो
दैत्येन
सुमहान्
वह्निः
श्वसनसारथिः
।
सांवर्तक
इवात्युग्रो
विबुधध्वजिनीमधाक्
51
▾
Meaning
Keep
ततः
समुद्र
उद्वेलः
सर्वतः
प्रत्यदृश्यत
।
प्रचण्डवातैरुद्धूततरङ्गावर्तभीषणः
52
▾
Meaning
Keep
एवं
दैत्यैर्महामायैरलक्ष्यगतिभीषणै
।
सृज्यमानासु
मायासु
विषेदुः
सुरसैनिकाः
53
▾
Meaning
Keep
न
तत्प्रतिविधिं
यत्र
विदुरिन्द्रादयो
नृप
।
ध्यातः
प्रादुरभूत्तत्र
भगवान्
विश्वभावनः
54
▾
Meaning
Keep
ततः
सुपर्णांसकृताङ्घ्रिपल्लवः
पिशङ्गवासा
नवकञ्जलोचनः
।
अदृश्यताष्टायुधबाहुरुल्लस-
च्छ्रीकौस्तुभानर्घ्यकिरीटकुण्डलः
55
▾
Meaning
Keep
तस्मिन्
प्रविष्टेऽसुरकूटकर्मजा
माया
विनेशुर्महिना
महीयसः
।
स्वप्नो
यथा
हि
प्रतिबोध
आगते
हरिस्मृतिः
सर्वविपद्विमोक्षणम्
56
▾
Meaning
Keep
दृष्ट्वा
मृधे
गरुडवाहमिभारिवाह
आविध्य
शूलमहिनोदथ
कालनेमिः
।
तल्लीलया
गरुडमूर्ध्नि
पतद्गृहीत्वा
तेनाहनन्नृप
सवाहमरिं
त्र्यधीशः
57
▾
Meaning
Keep
माली
सुमाल्यतिबलौ
युधि
पेततुर्यच्चक्रेण
कृत्तशिरसावथ
माल्यवांस्तम्
।
आहत्य
तिग्मगदयाहनदण्डजेन्द्रं
तावच्छिरोऽच्छिनदरेर्नदतोऽरिणाऽऽद्यः
Previous
←
Mohini Pours the Nectar
Next
Indra Kills Namuci
→