Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Mohini Pours the Nectar
Śrīmad Bhāgavatam
›
Canto 8
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
तेऽन्योन्यतोऽसुराः
पात्रं
हरन्तस्त्यक्तसौहृदाः
।
क्षिपन्तो
दस्युधर्माण
आयान्तीं
ददृशुः
स्त्रियम्
2
▾
Meaning
Keep
अहो
रूपमहो
धाम
अहो
अस्या
नवं
वयः
।
इति
ते
तामभिद्रुत्य
पप्रच्छुर्जातहृच्छयाः
3
▾
Meaning
Keep
का
त्वं
कञ्जपलाशाक्षि
कुतो
वा
किं
चिकीर्षसि
।
कस्यासि
वद
वामोरु
मथ्नतीव
मनांसि
नः
4
▾
Meaning
Keep
न
वयं
त्वामरैर्दैत्यैः
सिद्धगन्धर्वचारणैः
।
नास्पृष्टपूर्वां
जानीमो
लोकेशैश्च
कुतो
नृभिः
5
▾
Meaning
Keep
नूनं
त्वं
विधिना
सुभ्रूः
प्रेषितासि
शरीरिणाम्
।
सर्वेन्द्रियमनःप्रीतिं
विधातुं
सघृणेन
किम्
6
▾
Meaning
Keep
सा
त्वं
नः
स्पर्धमानानामेकवस्तुनि
मानिनि
।
ज्ञातीनां
बद्धवैराणां
शं
विधत्स्व
सुमध्यमे
7
▾
Meaning
Keep
वयं
कश्यपदायादा
भ्रातरः
कृतपौरुषाः
।
विभजस्व
यथान्यायं
नैव
भेदो
यथा
भवेत्
8
▾
Meaning
Keep
इत्युपामन्त्रितो
दैत्यैर्मायायोषिद्वपुर्हरिः
।
प्रहस्य
रुचिरापाङ्गैर्निरीक्षन्निदमब्रवीत्
9
▾
Meaning
Keep
श्रीभगवानुवाच ।
कथं कश्यपदायादाः पुंश्चल्यां मयि सङ्गताः ।
विश्वासं पण्डितो जातु कामिनीषु न याति हि
10
▾
Meaning
Keep
सालावृकाणां
स्त्रीणां
च
स्वैरिणीनां
सुरद्विषः
।
सख्यान्याहुरनित्यानि
नूत्नं
नूत्नं
विचिन्वताम्
11
▾
Meaning
Keep
इति
ते
क्ष्वेलितैस्तस्या
आश्वस्तमनसोऽसुराः
।
जहसुर्भावगम्भीरं
ददुश्चामृतभाजनम्
12
▾
Meaning
Keep
ततो
गृहीत्वामृतभाजनं
हरि-
र्बभाष
ईषत्स्मितशोभया
गिरा
।
यद्यभ्युपेतं
क्व
च
साध्वसाधु
वा
कृतं
मया
वो
विभजे
सुधामिमाम्
13
▾
Meaning
Keep
इत्यभिव्याहृतं
तस्या
आकर्ण्यासुरपुङ्गवाः
।
अप्रमाणविदस्तस्यास्तत्तथेत्यन्वमंसत
14
▾
Meaning
Keep
अथोपोष्य
कृतस्नाना
हुत्वा
च
हविषानलम्
।
दत्त्वा
गोविप्रभूतेभ्यः
कृतस्वस्त्ययना
द्विजैः
15
▾
Meaning
Keep
यथोपजोषं
वासांसि
परिधायाहतानि
ते
।
कुशेषु
प्राविशन्
सर्वे
प्रागग्रेष्वभिभूषिताः
16
▾
Meaning
Keep
प्राङ्मुखेषूपविष्टेषु
सुरेषु
दितिजेषु
च
।
धूपामोदितशालायां
जुष्टायां
माल्यदीपकैः
17
▾
Meaning
Keep
तस्यां
नरेन्द्र
करभोरुरुशद्दुकूल
श्रोणीतटालसगतिर्मदविह्वलाक्षी
।
सा
कूजती
कनकनूपुरशिञ्जितेन
कुम्भस्तनी
कलसपाणिरथाविवेश
18
▾
Meaning
Keep
तां
श्रीसखीं
कनककुण्डलचारुकर्ण-
नासाकपोलवदनां
परदेवताख्याम्
।
संवीक्ष्य
सम्मुमुहुरुत्स्मितवीक्षणेन
देवासुरा
विगलितस्तनपट्टिकान्ताम्
19
▾
Meaning
Keep
असुराणां
सुधादानं
सर्पाणामिव
दुर्नयम्
।
मत्वा
जातिनृशंसानां
न
तां
व्यभजदच्युतः
20
▾
Meaning
Keep
कल्पयित्वा
पृथक्
पङ्क्तीरुभयेषां
जगत्पतिः
।
तांश्चोपवेशयामास
स्वेषु
स्वेषु
च
पङ्क्तिषु
21
▾
Meaning
Keep
दैत्यान्गृहीतकलसो
वञ्चयन्नुपसञ्चरैः
।
दूरस्थान्पाययामासजरामृत्युहरां
सुधाम्
22
▾
Meaning
Keep
ते
पालयन्तः
समयमसुराः
स्वकृतं
नृप
।
तूष्णीमासन्
कृतस्नेहाः
स्त्रीविवादजुगुप्सया
23
▾
Meaning
Keep
तस्यां
कृतातिप्रणयाः
प्रणयापायकातराः
।
बहुमानेन
चाबद्धा
नोचुः
किञ्चन
विप्रियम्
24
▾
Meaning
Keep
देवलिङ्गप्रतिच्छन्नः
स्वर्भानुर्देवसंसदि
।
प्रविष्टः
सोममपिबच्चन्द्रार्काभ्यां
च
सूचितः
25
▾
Meaning
Keep
चक्रेण
क्षुरधारेण
जहार
पिबतः
शिरः
।
हरिस्तस्य
कबन्धस्तु
सुधयाप्लावितोऽपतत्
26
▾
Meaning
Keep
शिरस्त्वमरतां
नीतमजो
ग्रहमचीकॢपत्
।
यस्तु
पर्वणि
चन्द्रार्कावभिधावति
वैरधीः
27
▾
Meaning
Keep
पीतप्रायेऽमृते
देवैर्भगवान्
लोकभावनः
।
पश्यतामसुरेन्द्राणां
स्वं
रूपं
जगृहे
हरिः
28
▾
Meaning
Keep
एवं
सुरासुरगणाः
समदेशकाल-
हेत्वर्थकर्ममतयोऽपि
फले
विकल्पाः
।
तत्रामृतं
सुरगणाः
फलमञ्जसाऽऽपु-
र्यत्पादपङ्कजरजःश्रयणान्न
दैत्याः
29
▾
Meaning
Keep
यद्युज्यतेऽसुवसुकर्ममनोवचोभि-
र्देहात्मजादिषु
नृभिस्तदसत्पृथक्त्वात्
।
तैरेव
सद्भवति
यत्क्रियतेऽपृथक्त्वात्
सर्वस्य
तद्भवति
मूलनिषेचनं
यत्
Previous
←
Sri Rises, and the Jar of Nectar
Next
The Battle of Gods and Demons
→