Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Siva Bewildered by Mohini
Śrīmad Bhāgavatam
›
Canto 8
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
वृषध्वजो
निशम्येदं
योषिद्रूपेण
दानवान्
।
मोहयित्वा
सुरगणान्
हरिः
सोममपाययत्
2
▾
Meaning
Keep
वृषमारुह्य
गिरिशः
सर्वभूतगणैर्वृतः
।
सह
देव्या
ययौ
द्रष्टुं
यत्रास्ते
मधुसूदनः
3
▾
Meaning
Keep
सभाजितो
भगवता
सादरं
सोमया
भवः
।
सूपविष्ट
उवाचेदं
प्रतिपूज्य
स्मयन्
हरिम्
4
▾
Meaning
Keep
देवदेव
जगद्व्यापिञ्जगदीश
जगन्मय
।
सर्वेषामपि
भावानां
त्वमात्मा
हेतुरीश्वरः
5
▾
Meaning
Keep
आद्यन्तावस्य
यन्मध्यमिदमन्यदहं
बहिः
।
यतोऽव्ययस्य
नैतानि
तत्सत्यं
ब्रह्म
चिद्भवान्
6
▾
Meaning
Keep
तवैव
चरणाम्भोजं
श्रेयस्कामा
निराशिषः
।
विसृज्योभयतः
सङ्गं
मुनयः
समुपासते
7
▾
Meaning
Keep
त्वं
ब्रह्म
पूर्णममृतं
विगुणं
विशोक-
मानन्दमात्रमविकारमनन्यदन्यत्
।
विश्वस्य
हेतुरुदयस्थितिसंयमाना-
मात्मेश्वरश्च
तदपेक्षतयानपेक्षः
8
▾
Meaning
Keep
एकस्त्वमेव
सदसद्द्वयमद्वयं
च
स्वर्णं
कृताकृतमिवेह
न
वस्तुभेदः
।
अज्ञानतस्त्वयि
जनैर्विहितो
विकल्पो
यस्माद्गुणव्यतिकरो
निरुपाधिकस्य
9
▾
Meaning
Keep
त्वां
ब्रह्म
केचिदवयन्त्युत
धर्ममेके
एके
परं
सदसतोः
पुरुषं
परेशम्
।
अन्येऽवयन्ति
नवशक्तियुतं
परं
त्वां
केचिन्महापुरुषमव्ययमात्मतन्त्रम्
10
▾
Meaning
Keep
नाहं
परायुरृषयो
न
मरीचिमुख्या
जानन्ति
यद्विरचितं
खलु
सत्त्वसर्गाः
।
यन्मायया
मुषितचेतस
ईश
दैत्य-
मर्त्यादयः
किमुत
शश्वदभद्रवृत्ताः
11
▾
Meaning
Keep
स
त्वं
समीहितमदः
स्थितिजन्मनाशं
भूतेहितं
च
जगतो
भवबन्धमोक्षौ
।
वायुर्यथा
विशति
खं
च
चराचराख्यं
सर्वं
तदात्मकतयावगमोऽवरुन्त्से
12
▾
Meaning
Keep
अवतारा
मया
दृष्टा
रममाणस्य
ते
गुणैः
।
सोऽहं
तद्द्रष्टुमिच्छामि
यत्ते
योषिद्वपुर्धृतम्
13
▾
Meaning
Keep
येन
सम्मोहिता
दैत्याः
पायिताश्चामृतं
सुराः
।
तद्दिदृक्षव
आयाताः
परं
कौतूहलं
हि
नः
14
▾
Meaning
Keep
एवमभ्यर्थितो
विष्णुर्भगवान्
शूलपाणिना
।
प्रहस्य
भावगम्भीरं
गिरिशं
प्रत्यभाषत
15
▾
Meaning
Keep
कौतूहलाय
दैत्यानां
योषिद्वेषो
मया
कृतः
।
पश्यता
सुरकार्याणि
गते
पीयूषभाजने
16
▾
Meaning
Keep
तत्तेऽहं
दर्शयिष्यामि
दिदृक्षोः
सुरसत्तम
।
कामिनां
बहु
मन्तव्यं
सङ्कल्पप्रभवोदयम्
17
▾
Meaning
Keep
इति
ब्रुवाणो
भगवांस्तत्रैवान्तरधीयत
।
सर्वतश्चारयंश्चक्षुर्भव
आस्ते
सहोमया
18
▾
Meaning
Keep
ततो
ददर्शोपवने
वरस्त्रियं
विचित्रपुष्पारुणपल्लवद्रुमे
।
विक्रीडतीं
कन्दुकलीलया
लस-
द्दुकूलपर्यस्तनितम्बमेखलाम्
19
▾
Meaning
Keep
आवर्तनोद्वर्तनकम्पितस्तन-
प्रकृष्टहारोरुभरैः
पदे
पदे
।
प्रभज्यमानामिव
मध्यतश्चल-
त्पदप्रवालं
नयतीं
ततस्ततः
20
▾
Meaning
Keep
दिक्षु
भ्रमत्कन्दुकचापलैर्भृशं
प्रोद्विग्नतारायतलोललोचनाम्
।
स्वकर्णविभ्राजितकुण्डलोल्लस-
त्कपोलनीलालकमण्डिताननाम्
21
▾
Meaning
Keep
श्लथद्दुकूलं
कबरीं
च
विच्युतां
सन्नह्यतीं
वामकरेण
वल्गुना
।
विनिघ्नतीमन्यकरेण
कन्दुकं
विमोहयन्तीं
जगदात्ममायया
22
▾
Meaning
Keep
तां
वीक्ष्य
देव
इति
कन्दुकलीलयेष-
द्व्रीडास्फुटस्मितविसृष्टकटाक्षमुष्टः
।
स्त्रीप्रेक्षणप्रतिसमीक्षणविह्वलात्मा
नात्मानमन्तिक
उमां
स्वगणांश्च
वेद
23
▾
Meaning
Keep
तस्याः
कराग्रात्स
तु
कन्दुको
यदा
गतो
विदूरं
तमनुव्रजत्स्त्रियाः
।
वासः
ससूत्रं
लघु
मारुतोऽहर-
द्भवस्य
देवस्य
किलानुपश्यतः
24
▾
Meaning
Keep
एवं
तां
रुचिरापाङ्गीं
दर्शनीयां
मनोरमाम्
।
दृष्ट्वा
तस्यां
मनश्चक्रे
विषज्जन्त्यां
भवः
किल
25
▾
Meaning
Keep
तयापहृतविज्ञानस्तत्कृतस्मरविह्वलः
।
भवान्या
अपि
पश्यन्त्या
गतह्रीस्तत्पदं
ययौ
26
▾
Meaning
Keep
सा
तमायान्तमालोक्य
विवस्त्रा
व्रीडिता
भृशम्
।
निलीयमाना
वृक्षेषु
हसन्ती
नान्वतिष्ठत
27
▾
Meaning
Keep
तामन्वगच्छद्भगवान्
भवः
प्रमुषितेन्द्रियः
।
कामस्य
च
वशं
नीतः
करेणुमिव
यूथपः
28
▾
Meaning
Keep
सोऽनुव्रज्यातिवेगेन
गृहीत्वानिच्छतीं
स्त्रियम्
।
केशबन्ध
उपानीय
बाहुभ्यां
परिषस्वजे
29
▾
Meaning
Keep
सोपगूढा
भगवता
करिणा
करिणी
यथा
।
इतस्ततः
प्रसर्पन्ती
विप्रकीर्णशिरोरुहा
30
▾
Meaning
Keep
आत्मानं
मोचयित्वाङ्ग
सुरर्षभभुजान्तरात्
।
प्राद्रवत्सा
पृथुश्रोणी
माया
देवविनिर्मिता
31
▾
Meaning
Keep
तस्यासौ
पदवीं
रुद्रो
विष्णोरद्भुतकर्मणः
।
प्रत्यपद्यत
कामेन
वैरिणेव
विनिर्जितः
32
▾
Meaning
Keep
तस्यानुधावतो
रेतश्चस्कन्दामोघरेतसः
।
शुष्मिणो
यूथपस्येव
वासितामनुधावतः
33
▾
Meaning
Keep
यत्र
यत्रापतन्मह्यां
रेतस्तस्य
महात्मनः
।
तानि
रूप्यस्य
हेम्नश्च
क्षेत्राण्यासन्
महीपते
34
▾
Meaning
Keep
सरित्सरस्सु
शैलेषु
वनेषूपवनेषु
च
।
यत्र
क्व
चासन्नृषयस्तत्र
सन्निहितो
हरः
35
▾
Meaning
Keep
स्कन्ने
रेतसि
सोऽपश्यदात्मानं
देवमायया
।
जडीकृतं
नृपश्रेष्ठ
सन्न्यवर्तत
कश्मलात्
36
▾
Meaning
Keep
अथावगतमाहात्म्य
आत्मनो
जगदात्मनः
।
अपरिज्ञेयवीर्यस्य
न
मेने
तदु
हाद्भुतम्
37
▾
Meaning
Keep
तमविक्लवमव्रीडमालक्ष्य
मधुसूदनः
।
उवाच
परमप्रीतो
बिभ्रत्स्वां
पौरुषीं
तनुम्
38
▾
Meaning
Keep
श्रीभगवानुवाच ।
दिष्ट्या त्वं विबुधश्रेष्ठ स्वां निष्ठामात्मना स्थितः ।
यन्मे स्त्रीरूपया स्वैरं मोहितोऽप्यङ्ग मायया
39
▾
Meaning
Keep
को
नु
मेऽतितरेन्मायां
विषक्तस्त्वदृते
पुमान्
।
तांस्तान्
विसृजतीं
भावान्
दुस्तरामकृतात्मभिः
40
▾
Meaning
Keep
सेयं
गुणमयी
माया
न
त्वामभिभविष्यति
।
मया
समेता
कालेन
कालरूपेण
भागशः
41
▾
Meaning
Keep
एवं
भगवता
राजन्
श्रीवत्साङ्केन
सत्कृतः
।
आमन्त्र्य
तं
परिक्रम्य
सगणः
स्वालयं
ययौ
42
▾
Meaning
Keep
आत्मांशभूतां
तां
मायां
भवानीं
भगवान्भवः
।
सम्मतामृषिमुख्यानां
प्रीत्याचष्टाथ
भारत
43
▾
Meaning
Keep
अपि
व्यपश्यस्त्वमजस्य
मायां
परस्य
पुंसः
परदेवतायाः
।
अहं
कलानामृषभो
विमुह्ये
ययावशोऽन्ये
किमुतास्वतन्त्राः
44
▾
Meaning
Keep
यं
मामपृच्छस्त्वमुपेत्य
योगात्
समासहस्रान्त
उपारतं
वै
।
स
एष
साक्षात्पुरुषः
पुराणो
न
यत्र
कालो
विशते
न
वेदः
45
▾
Meaning
Keep
इति
तेऽभिहितस्तात
विक्रमः
शार्ङ्गधन्वनः
।
सिन्धोर्निर्मथने
येन
धृतः
पृष्ठे
महाचलः
46
▾
Meaning
Keep
एतन्मुहुः
कीर्तयतोऽनुशृण्वतो
न
रिष्यते
जातु
समुद्यमः
क्वचित्
।
यदुत्तमश्लोकगुणानुवर्णनं
समस्तसंसारपरिश्रमापहम्
47
▾
Meaning
Keep
असदविषयमङ्घ्रिं
भावगम्यं
प्रपन्ना-
नमृतममरवर्यानाशयत्
सिन्धुमथ्यम्
।
कपटयुवतिवेषो
मोहयन्
यः
सुरारीं-
स्तमहमुपसृतानां
कामपूरं
नतोऽस्मि
Previous
←
Indra Kills Namuci
Next
The Fourteen Manus
→