Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Fourteen Manus
Śrīmad Bhāgavatam
›
Canto 8
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
मनुर्विवस्वतः
पुत्रः
श्राद्धदेव
इति
श्रुतः
।
सप्तमो
वर्तमानो
यस्तदपत्यानि
मे
शृणु
2
▾
Meaning
Keep
इक्ष्वाकुर्नभगश्चैव
धृष्टः
शर्यातिरेव
च
।
नरिष्यन्तोऽथ
नाभागः
सप्तमो
दिष्ट
उच्यते
3
▾
Meaning
Keep
तरूषश्च
पृषध्रश्च
दशमो
वसुमान्स्मृतः
।
मनोर्वैवस्वतस्यैते
दशपुत्राः
परन्तप
4
▾
Meaning
Keep
आदित्या
वसवो
रुद्रा
विश्वेदेवा
मरुद्गणाः
।
अश्विनावृभवो
राजन्निन्द्रस्तेषां
पुरन्दरः
5
▾
Meaning
Keep
कश्यपोऽत्रिर्वसिष्ठश्च
विश्वामित्रोऽथ
गौतमः
।
जमदग्निर्भरद्वाज
इति
सप्तर्षयः
स्मृताः
6
▾
Meaning
Keep
अत्रापि
भगवज्जन्म
कश्यपाददितेरभूत्
।
आदित्यानामवरजो
विष्णुर्वामनरूपधृक्
7
▾
Meaning
Keep
सङ्क्षेपतो
मयोक्तानि
सप्तमन्वन्तराणि
ते
।
भविष्याण्यथ
वक्ष्यामि
विष्णोः
शक्त्यान्वितानि
च
8
▾
Meaning
Keep
विवस्वतश्च
द्वे
जाये
विश्वकर्मसुते
उभे
।
संज्ञा
छाया
च
राजेन्द्र
ये
प्रागभिहिते
तव
9
▾
Meaning
Keep
तृतीयां
वडवामेके
तासां
संज्ञासुतास्त्रयः
।
यमो
यमी
श्राद्धदेवश्छायायाश्च
सुतान्छृणु
10
▾
Meaning
Keep
सावर्णिस्तपती
कन्या
भार्या
संवरणस्य
या
।
शनैश्चरस्तृतीयोऽभूदश्विनौ
वडवात्मजौ
11
▾
Meaning
Keep
अष्टमेऽन्तर
आयाते
सावर्णिर्भविता
मनुः
।
निर्मोकविरजस्काद्याः
सावर्णितनया
नृप
12
▾
Meaning
Keep
तत्र
देवाः
सुतपसो
विरजा
अमृतप्रभाः
।
तेषां
विरोचनसुतो
बलिरिन्द्रो
भविष्यति
13
▾
Meaning
Keep
दत्त्वेमां
याचमानाय
विष्णवे
यः
पदत्रयम्
।
राद्धमिन्द्रपदं
हित्वा
ततः
सिद्धिमवाप्स्यति
14
▾
Meaning
Keep
योऽसौ
भगवता
बद्धः
प्रीतेन
सुतले
पुनः
।
निवेशितोऽधिके
स्वर्गादधुनाऽऽस्ते
स्वराडिव
15
▾
Meaning
Keep
गालवो
दीप्तिमान्
रामो
द्रोणपुत्रः
कृपस्तथा
।
ऋष्यशृङ्गः
पितास्माकं
भगवान्
बादरायणः
16
▾
Meaning
Keep
इमे
सप्तर्षयस्तत्र
भविष्यन्ति
स्वयोगतः
।
इदानीमासते
राजन्
स्वे
स्व
आश्रममण्डले
17
▾
Meaning
Keep
देवगुह्यात्सरस्वत्यां
सार्वभौम
इति
प्रभुः
।
स्थानं
पुरन्दराद्धृत्वा
बलये
दास्यतीश्वरः
18
▾
Meaning
Keep
नवमो
दक्षसावर्णिर्मनुर्वरुणसम्भवः
।
भूतकेतुर्दीप्तकेतुरित्याद्यास्तत्सुता
नृप
19
▾
Meaning
Keep
पारा
मरीचिगर्भाद्या
देवा
इन्द्रोऽद्भुतः
स्मृतः
।
द्युतिमत्प्रमुखास्तत्र
भविष्यन्त्यृषयस्ततः
20
▾
Meaning
Keep
आयुष्मतोऽम्बुधारायामृषभो
भगवत्कला
।
भविता
येन
संराद्धां
त्रिलोकीं
भोक्ष्यतेऽद्भुतः
21
▾
Meaning
Keep
दशमो
ब्रह्मसावर्णिरुपश्लोकसुतो
मनुः
।
तत्सुता
भूरिषेणाद्या
हविष्मत्प्रमुखा
द्विजाः
22
▾
Meaning
Keep
हविष्मान्सुकृतः
सत्यो
जयो
मूर्तिस्तदा
द्विजाः
।
सुवासनविरुद्धाद्या
देवाः
शम्भुः
सुरेश्वरः
23
▾
Meaning
Keep
विष्वक्सेनो
विषूच्यां
तु
शम्भोः
सख्यं
करिष्यति
।
जातः
स्वांशेन
भगवान्
गृहे
विश्वसृजो
विभुः
24
▾
Meaning
Keep
मनुर्वै
धर्मसावर्णिरेकादशम
आत्मवान्
।
अनागतास्तत्सुताश्च
सत्यधर्मादयो
दश
25
▾
Meaning
Keep
विहङ्गमाः
कामगमा
निर्वाणरुचयः
सुराः
।
इन्द्रश्च
वैधृतस्तेषामृषयश्चारुणादयः
26
▾
Meaning
Keep
आर्यकस्य
सुतस्तत्र
धर्मसेतुरिति
स्मृतः
।
वैधृतायां
हरेरंशस्त्रिलोकीं
धारयिष्यति
27
▾
Meaning
Keep
भविता
रुद्रसावर्णी
राजन्
द्वादशमो
मनुः
।
देववानुपदेवश्च
देवश्रेष्ठादयः
सुताः
28
▾
Meaning
Keep
ऋतधामा
च
तत्रेन्द्रो
देवाश्च
हरितादयः
।
ऋषयश्च
तपोमूर्तिस्तपस्व्याग्नीध्रकादयः
29
▾
Meaning
Keep
स्वधामाख्यो
हरेरंशः
साधयिष्यति
तन्मनोः
।
अन्तरं
सत्यसहसः
सुनृतायाः
सुतो
विभुः
30
▾
Meaning
Keep
मनुस्त्रयोदशो
भाव्यो
देवसावर्णिरात्मवान्
।
चित्रसेनविचित्राद्या
देवसावर्णिदेहजाः
31
▾
Meaning
Keep
देवाः
सुकर्मसुत्रामसंज्ञा
इन्द्रो
दिवस्पतिः
।
निर्मोकतत्त्वदर्शाद्या
भविष्यन्त्यृषयस्तदा
32
▾
Meaning
Keep
देवहोत्रस्य
तनय
उपहर्ता
दिवस्पतेः
।
योगेश्वरो
हरेरंशो
बृहत्यां
सम्भविष्यति
33
▾
Meaning
Keep
मनुर्वा
इन्द्रसावर्णिश्चतुर्दशम
एष्यति
।
उरुगम्भीरबुद्धचाद्या
इन्द्रसावर्णिवीर्यजाः
34
▾
Meaning
Keep
पवित्राश्चाक्षुषा
देवाः
शुचिरिन्द्रो
भविष्यति
।
अग्निर्बाहुः
शुचिः
शुद्धो
मागधाद्यास्तपस्विनः
35
▾
Meaning
Keep
सत्रायणस्य
तनयो
बृहद्भानुस्तदा
हरिः
।
वितानायां
महाराज
क्रियातन्तून्
वितायिता
36
▾
Meaning
Keep
राजंश्चतुर्दशैतानि
त्रिकालानुगतानि
ते
।
प्रोक्तान्येभिर्मितः
कल्पो
युगसाहस्रपर्ययः
Previous
←
Siva Bewildered by Mohini
Next
The Work Appointed in Each Reign
→