Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Milk Vow
Śrīmad Bhāgavatam
›
Canto 8
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एवं
पुत्रेषु
नष्टेषु
देवमातादितिस्तदा
।
हृते
त्रिविष्टपे
दैत्यैः
पर्यतप्यदनाथवत्
2
▾
Meaning
Keep
एकदा
कश्यपस्तस्या
आश्रमं
भगवानगात्
।
निरुत्सवं
निरानन्दं
समाधेर्विरतश्चिरात्
3
▾
Meaning
Keep
स
पत्नीं
दीनवदनां
कृतासनपरिग्रहः
।
सभाजितो
यथान्यायमिदमाह
कुरूद्वह
4
▾
Meaning
Keep
अप्यभद्रं
न
विप्राणां
भद्रे
लोकेऽधुनाऽऽगतम्
।
न
धर्मस्य
न
लोकस्य
मृत्योश्छन्दानुवर्तिनः
5
▾
Meaning
Keep
अपि
वाकुशलं
किञ्चिद्गृहेषु
गृहमेधिनि
।
धर्मस्यार्थस्य
कामस्य
यत्र
योगो
ह्ययोगिनाम्
6
▾
Meaning
Keep
अपि
वातिथयोऽभ्येत्य
कुटुम्बासक्तया
त्वया
।
गृहादपूजिता
याताः
प्रत्युत्थानेन
वा
क्वचित्
7
▾
Meaning
Keep
गृहेषु
येष्वतिथयो
नार्चिताः
सलिलैरपि
।
यदि
निर्यान्ति
ते
नूनं
फेरुराजगृहोपमाः
8
▾
Meaning
Keep
अप्यग्नयस्तु
वेलायां
न
हुता
हविषा
सति
।
त्वयोद्विग्नधिया
भद्रे
प्रोषिते
मयि
कर्हिचित्
9
▾
Meaning
Keep
यत्पूजया
कामदुघान्
याति
लोकान्
गृहान्वितः
।
ब्राह्मणोऽग्निश्च
वै
विष्णोः
सर्वदेवात्मनो
मुखम्
10
▾
Meaning
Keep
अपि
सर्वे
कुशलिनस्तव
पुत्रा
मनस्विनि
।
लक्षयेऽस्वस्थमात्मानं
भवत्या
लक्षणैरहम्
11
▾
Meaning
Keep
भद्रं
द्विजगवां
ब्रह्मन्
धर्मस्यास्य
जनस्य
च
।
त्रिवर्गस्य
परं
क्षेत्रं
गृहमेधिन्
गृहा
इमे
12
▾
Meaning
Keep
अग्नयोऽतिथयो
भृत्या
भिक्षवो
ये
च
लिप्सवः
।
सर्वं
भगवतो
ब्रह्मन्ननुध्यानान्न
रिष्यति
13
▾
Meaning
Keep
को
नु
मे
भगवन्
कामो
न
सम्पद्येत
मानसः
।
यस्या
भवान्
प्रजाध्यक्ष
एवं
धर्मान्
प्रभाषते
14
▾
Meaning
Keep
तवैव
मारीच
मनःशरीरजाः
प्रजा
इमाः
सत्त्वरजस्तमोजुषः
।
समो
भवांस्तास्वसुरादिषु
प्रभो
तथापि
भक्तं
भजते
महेश्वरः
15
▾
Meaning
Keep
तस्मादीश
भजन्त्या
मे
श्रेयश्चिन्तय
सुव्रत
।
हृतश्रियो
हृतस्थानान्
सपत्नैः
पाहि
नः
प्रभो
16
▾
Meaning
Keep
परैर्विवासिता
साहं
मग्ना
व्यसनसागरे
।
ऐश्वर्यं
श्रीर्यशः
स्थानं
हृतानि
प्रबलैर्मम
17
▾
Meaning
Keep
यथा
तानि
पुनः
साधो
प्रपद्येरन्
ममात्मजाः
।
तथा
विधेहि
कल्याणं
धिया
कल्याणकृत्तम
18
▾
Meaning
Keep
एवमभ्यर्थितोऽदित्या
कस्तामाह
स्मयन्निव
।
अहो
मायाबलं
विष्णोः
स्नेहबद्धमिदं
जगत्
19
▾
Meaning
Keep
क्व
देहो
भौतिकोऽनात्मा
क्व
चात्मा
प्रकृतेः
परः
।
कस्य
के
पतिपुत्राद्या
मोह
एव
हि
कारणम्
20
▾
Meaning
Keep
उपतिष्ठस्व
पुरुषं
भगवन्तं
जनार्दनम्
।
सर्वभूतगुहावासं
वासुदेवं
जगद्गुरुम्
21
▾
Meaning
Keep
स
विधास्यति
ते
कामान्
हरिर्दीनानुकम्पनः
।
अमोघा
भगवद्भक्तिर्नेतरेति
मतिर्मम
22
▾
Meaning
Keep
केनाहं
विधिना
ब्रह्मन्नुपस्थास्ये
जगत्पतिम्
।
यथा
मे
सत्यसङ्कल्पो
विदध्यात्स
मनोरथम्
23
▾
Meaning
Keep
आदिश
त्वं
द्विजश्रेष्ठ
विधिं
तदुपधावनम्
।
आशु
तुष्यति
मे
देवः
सीदन्त्याः
सह
पुत्रकैः
24
▾
Meaning
Keep
एतन्मे
भगवान्
पृष्टः
प्रजाकामस्य
पद्मजः
।
यदाह
ते
प्रवक्ष्यामि
व्रतं
केशवतोषणम्
25
▾
Meaning
Keep
फाल्गुनस्यामले
पक्षे
द्वादशाहं
पयोव्रतम्
।
अर्चयेदरविन्दाक्षं
भक्त्या
परमयान्वितः
26
▾
Meaning
Keep
सिनीवाल्यां
मृदाऽऽलिप्य
स्नायात्क्रोडविदीर्णया
।
यदि
लभ्येत
वै
स्रोतस्येतं
मन्त्रमुदीरयेत्
27
▾
Meaning
Keep
त्वं
देव्यादिवराहेण
रसायाः
स्थानमिच्छता
।
उद्धृतासि
नमस्तुभ्यं
पाप्मानं
मे
प्रणाशय
28
▾
Meaning
Keep
निर्वर्तितात्मनियमो
देवमर्चेत्समाहितः
।
अर्चायां
स्थण्डिले
सूर्ये
जले
वह्नौ
गुरावपि
Hymn
29
▾
Meaning
Keep
नमस्तुभ्यं
भगवते
पुरुषाय
महीयसे
।
सर्वभूतनिवासाय
वासुदेवाय
साक्षिणे
30
▾
Meaning
Keep
नमोऽव्यक्ताय
सूक्ष्माय
प्रधानपुरुषाय
च
।
चतुर्विंशद्गुणज्ञाय
गुणसङ्ख्यानहेतवे
31
▾
Meaning
Keep
नमो
द्विशीर्ष्णे
त्रिपदे
चतुःशृङ्गाय
तन्तवे
।
सप्तहस्ताय
यज्ञाय
त्रयीविद्यात्मने
नमः
32
▾
Meaning
Keep
नमः
शिवाय
रुद्राय
नमः
शक्तिधराय
च
।
सर्वविद्याधिपतये
भूतानां
पतये
नमः
33
▾
Meaning
Keep
नमो
हिरण्यगर्भाय
प्राणाय
जगदात्मने
।
योगैश्वर्यशरीराय
नमस्ते
योगहेतवे
34
▾
Meaning
Keep
नमस्त
आदिदेवाय
साक्षिभूताय
ते
नमः
।
नारायणाय
ऋषये
नराय
हरये
नमः
35
▾
Meaning
Keep
नमो
मरकतश्यामवपुषेऽधिगतश्रिये
।
केशवाय
नमस्तुभ्यं
नमस्ते
पीतवाससे
36
▾
Meaning
Keep
त्वं
सर्ववरदः
पुंसां
वरेण्य
वरदर्षभ
।
अतस्ते
श्रेयसे
धीराः
पादरेणुमुपासते
37
▾
Meaning
Keep
अन्ववर्तन्त
यं
देवाः
श्रीश्च
तत्पादपद्मयोः
।
स्पृहयन्त
इवामोदं
भगवान्
मे
प्रसीदताम्
38
▾
Meaning
Keep
एतैर्मन्त्रैर्हृषीकेशमावाहनपुरस्कृतम्
।
अर्चयेच्छ्रद्धया
युक्तः
पाद्योपस्पर्शनादिभिः
39
▾
Meaning
Keep
अर्चित्वा
गन्धमाल्याद्यैः
पयसा
स्नपयेद्विभुम्
।
वस्त्रोपवीताभरणपाद्योपस्पर्शनैस्ततः
।
गन्धधूपादिभिश्चार्चेद्द्वादशाक्षरविद्यया
40
▾
Meaning
Keep
शृतं
पयसि
नैवेद्यं
शाल्यन्नं
विभवे
सति
।
ससर्पिः
सगुडं
दत्त्वा
जुहुयान्मूलविद्यया
41
▾
Meaning
Keep
निवेदितं
तद्भक्ताय
दद्याद्भुञ्जीत
वा
स्वयम्
।
दत्त्वाऽऽचमनमर्चित्वा
ताम्बूलं
च
निवेदयेत्
42
▾
Meaning
Keep
जपेदष्टोत्तरशतं
स्तुवीत
स्तुतिभिः
प्रभुम्
।
कृत्वा
प्रदक्षिणं
भूमौ
प्रणमेद्दण्डवन्मुदा
43
▾
Meaning
Keep
कृत्वा
शिरसि
तच्छेषां
देवमुद्वासयेत्ततः
।
द्व्यवरान्
भोजयेद्विप्रान्
पायसेन
यथोचितम्
44
▾
Meaning
Keep
भुञ्जीत
तैरनुज्ञातः
सेष्टः
शेषं
सभाजितैः
।
ब्रह्मचार्यथ
तद्रात्र्यां
श्वोभूते
प्रथमेऽहनि
45
▾
Meaning
Keep
स्नातः
शुचिर्यथोक्तेन
विधिना
सुसमाहितः
।
पयसा
स्नापयित्वार्चेद्यावद्व्रतसमापनम्
46
▾
Meaning
Keep
पयोभक्षो
व्रतमिदं
चरेद्विष्ण्वर्चनादृतः
।
पूर्ववज्जुहुयादग्निं
ब्राह्मणांश्चापि
भोजयेत्
47
▾
Meaning
Keep
एवं
त्वहरहः
कुर्याद्द्वादशाहं
पयोव्रतम्
।
हरेराराधनं
होममर्हणं
द्विजतर्पणम्
48
▾
Meaning
Keep
प्रतिपद्दिनमारभ्य
यावच्
छुक्लत्रयोदशीम्
।
ब्रह्मचर्यमधःस्वप्नं
स्नानं
त्रिषवणं
चरेत्
49
▾
Meaning
Keep
वर्जयेदसदालापं
भोगानुच्चावचांस्तथा
।
अहिंस्रः
सर्वभूतानां
वासुदेवपरायणः
50
▾
Meaning
Keep
त्रयोदश्यामथो
विष्णोः
स्नपनं
पञ्चकैर्विभोः
।
कारयेच्छास्त्रदृष्टेन
विधिना
विधिकोविदैः
51
▾
Meaning
Keep
पूजां
च
महतीं
कुर्याद्वित्तशाठ्यविवर्जितः
।
चरुं
निरूप्य
पयसि
शिपिविष्टाय
विष्णवे
52
▾
Meaning
Keep
सूक्तेन
तेन
पुरुषं
यजेत
सुसमाहितः
।
नैवेद्यं
चातिगुणवद्
दद्यात्पुरुषतुष्टिदम्
53
▾
Meaning
Keep
आचार्यं
ज्ञानसम्पन्नं
वस्त्राभरणधेनुभिः
।
तोषयेदृत्विजश्चैव
तद्विद्ध्याराधनं
हरेः
54
▾
Meaning
Keep
भोजयेत्तान्गुणवता
सदन्नेन
शुचिस्मिते
।
अन्यांश्च
ब्राह्मणान्छक्त्या
ये
च
तत्र
समागताः
55
▾
Meaning
Keep
दक्षिणां
गुरवे
दद्यादृत्विग्भ्यश्च
यथार्हतः
।
अन्नाद्येनाश्वपाकांश्च
प्रीणयेत्समुपागतान्
56
▾
Meaning
Keep
भुक्तवत्सु
च
सर्वेषु
दीनान्धकृपणेषुच
।
विष्णोस्तत्प्रीणनं
विद्वान्भुञ्जीत
सह
बन्धुभिः
57
▾
Meaning
Keep
नृत्यवादित्रगीतैश्च
स्तुतिभिः
स्वस्तिवाचकैः
।
कारयेत्तत्कथाभिश्च
पूजां
भगवतोऽन्वहम्
58
▾
Meaning
Keep
एतत्पयोव्रतं
नाम
पुरुषाराधनं
परम्
।
पितामहेनाभिहितं
मया
ते
समुदाहृतम्
59
▾
Meaning
Keep
त्वं
चानेन
महाभागे
सम्यक्
चीर्णेन
केशवम्
।
आत्मना
शुद्धभावेन
नियतात्मा
भजाव्ययम्
60
▾
Meaning
Keep
अयं
वै
सर्वयज्ञाख्यः
सर्वव्रतमिति
स्मृतम्
।
तपःसारमिदं
भद्रे
दानं
चेश्वरतर्पणम्
61
▾
Meaning
Keep
त
एव
नियमाः
साक्षात्त
एव
च
यमोत्तमाः
।
तपो
दानं
व्रतं
यज्ञो
येन
तुष्यत्यधोक्षजः
62
▾
Meaning
Keep
तस्मादेतद्व्रतं
भद्रे
प्रयता
श्रद्धया
चर
।
भगवान्
परितुष्टस्ते
वरानाशु
विधास्यति
Previous
←
Bali Takes the City of the Gods
Next
Aditi Keeps the Vow, and He Comes
→