Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Bali Keeps His Word, and the Form Grows
Śrīmad Bhāgavatam
›
Canto 8
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
बलिरेवं
गृहपतिः
कुलाचार्येण
भाषितः
।
तूष्णीं
भूत्वा
क्षणं
राजन्नुवाचावहितो
गुरुम्
2
▾
Meaning
Keep
सत्यं
भगवता
प्रोक्तं
धर्मोऽयं
गृहमेधिनाम्
।
अर्थं
कामं
यशो
वृत्तिं
यो
न
बाधेत
कर्हिचित्
3
▾
Meaning
Keep
स
चाहं
वित्तलोभेन
प्रत्याचक्षे
कथं
द्विजम्
।
प्रतिश्रुत्य
ददामीति
प्राह्रादिः
कितवो
यथा
4
▾
Meaning
Keep
न
ह्यसत्यात्परोऽधर्म
इति
होवाच
भूरियम्
।
सर्वं
सोढुमलं
मन्ये
ऋतेऽलीकपरं
नरम्
5
▾
Meaning
Keep
नाहं
बिभेमि
निरयान्नाधन्यादसुखार्णवात्
।
न
स्थानच्यवनान्मृत्योर्यथा
विप्रप्रलम्भनात्
6
▾
Meaning
Keep
यद्यद्धास्यति
लोकेऽस्मिन्
सम्परेतं
धनादिकम्
।
तस्य
त्यागे
निमित्तं
किं
विप्रस्तुष्येन्न
तेन
चेत्
7
▾
Meaning
Keep
श्रेयः
कुर्वन्ति
भूतानां
साधवो
दुस्त्यजासुभिः
।
दध्यङ्
शिबिप्रभृतयः
को
विकल्पो
धरादिषु
8
▾
Meaning
Keep
यैरियं
बुभुजे
ब्रह्मन्
दैत्येन्द्रैरनिवर्तिभिः
।
तेषां
कालोऽग्रसील्लोकान्
न
यशोऽधिगतं
भुवि
9
▾
Meaning
Keep
सुलभा
युधि
विप्रर्षे
ह्यनिवृत्तास्तनुत्यजः
।
न
तथा
तीर्थ
आयाते
श्रद्धया
ये
धनत्यजः
10
▾
Meaning
Keep
मनस्विनः
कारुणिकस्य
शोभनं
यदर्थिकामोपनयेन
दुर्गतिः
।
कुतः
पुनर्ब्रह्मविदां
भवादृशां
ततो
वटोरस्य
ददामि
वाञ्छितम्
11
▾
Meaning
Keep
यजन्ति
यज्ञं
क्रतुभिर्यमादृता
भवन्त
आम्नायविधानकोविदाः
।
स
एव
विष्णुर्वरदोऽस्तु
वा
परो
दास्याम्यमुष्मै
क्षितिमीप्सितां
मुने
12
▾
Meaning
Keep
यद्यप्यसावधर्मेण
मां
बध्नीयादनागसम्
।
तथाप्येनं
न
हिंसिष्ये
भीतं
ब्रह्मतनुं
रिपुम्
13
▾
Meaning
Keep
एष
वा
उत्तमश्लोको
न
जिहासति
यद्यशः
।
हत्वा
मैनां
हरेद्युद्धे
शयीत
निहतो
मया
14
▾
Meaning
Keep
एवमश्रद्धितं
शिष्यमनादेशकरं
गुरुः
।
शशाप
दैवप्रहितः
सत्यसन्धं
मनस्विनम्
15
▾
Meaning
Keep
दृढं
पण्डितमान्यज्ञः
स्तब्धोऽस्यस्मदुपेक्षया
।
मच्छासनातिगो
यस्त्वमचिराद्भ्रश्यसे
श्रियः
16
▾
Meaning
Keep
एवं
शप्तः
स्वगुरुणा
सत्यान्न
चलितो
महान्
।
वामनाय
ददावेनामर्चित्वोदकपूर्वकम्
17
▾
Meaning
Keep
विन्ध्यावलिस्तदाऽऽगत्य
पत्नी
जालकमालिनी
।
आनिन्ये
कलशं
हैममवनेजन्यपां
भृतम्
18
▾
Meaning
Keep
यजमानः
स्वयं
तस्य
श्रीमत्पादयुगं
मुदा
।
अवनिज्यावहन्मूर्ध्नि
तदपो
विश्वपावनीः
19
▾
Meaning
Keep
तदासुरेन्द्रं
दिवि
देवतागणा
गन्धर्वविद्याधरसिद्धचारणाः
तत्
कर्म
सर्वेऽपि
गृणन्त
आर्जवं
प्रसूनवर्षैर्ववृषुर्मुदान्विताः
20
▾
Meaning
Keep
नेदुर्मुहुर्दुन्दुभयः
सहस्रशो
गन्धर्वकिम्पूरुषकिन्नरा
जगुः
।
मनस्विनानेन
कृतं
सुदुष्करं
विद्वानदाद्यद्रिपवे
जगत्त्रयम्
21
▾
Meaning
Keep
तद्वामनं
रूपमवर्धताद्भुतं
हरेरनन्तस्य
गुणत्रयात्मकम्
।
भूः
खं
दिशो
द्यौर्विवराः
पयोधय-
स्तिर्यङ्
नृदेवा
ऋषयो
यदासत
22
▾
Meaning
Keep
काये
बलिस्तस्य
महाविभूतेः
सहर्त्विगाचार्यसदस्य
एतत्
।
ददर्श
विश्वं
त्रिगुणं
गुणात्मके
भूतेन्द्रियार्थाशयजीवयुक्तम्
23
▾
Meaning
Keep
रसामचष्टाङ्घ्रितलेऽथ
पादयो-
र्महीं
महीध्रान्पुरुषस्य
जङ्घयोः
।
पतत्त्रिणो
जानुनि
विश्वमूर्ते-
रूर्वोर्गणं
मारुतमिन्द्रसेनः
24
▾
Meaning
Keep
सन्ध्यां
विभोर्वाससि
गुह्य
ऐक्षत्
प्रजापतीञ्जघने
आत्ममुख्यान्
।
नाभ्यां
नभः
कुक्षिषु
सप्तसिन्धू-
नुरुक्रमस्योरसि
चर्क्षमालाम्
25
▾
Meaning
Keep
हृद्यङ्ग
धर्मं
स्तनयोर्मुरारेर्ऋतं
च
सत्य
च
मनस्यथेन्दुम्
।
श्रियं
च
वक्षस्यरविन्दहस्तां
कण्ठे
च
सामानि
समस्तरेफान्
26
▾
Meaning
Keep
इन्द्रप्रधानानमरान्भुजेषु
तत्कर्णयोः
ककुभो
द्यौश्च
मूर्ध्नि
।
केशेषु
मेघाञ्छ्वसनं
नासिकाया-
मक्ष्णोश्च
सूर्यं
वदने
च
वह्निम्
27
▾
Meaning
Keep
वाण्यां
च
छन्दांसि
रसे
जलेशं
भ्रुवोर्निषेधं
च
विधिं
च
पक्ष्मसु
।
अहश्च
रात्रिं
च
परस्य
पुंसो
मन्युं
ललाटेऽधर
एव
लोभम्
28
▾
Meaning
Keep
स्पर्शे
च
कामं
नृप
रेतसाऽम्भः
पृष्ठे
त्वधर्मं
क्रमणेषु
यज्ञम्
।
छायासु
मृत्युं
हसिते
च
मायां
तनूरुहेष्वोषधिजातयश्च
29
▾
Meaning
Keep
नदीश्च
नाडीषु
शिला
नखेषु
बुद्धावजं
देवगणान्
ऋषींश्च
।
प्राणेषु
गात्रे
स्थिरजङ्गमानि
सर्वाणि
भूतानि
ददर्श
वीरः
30
▾
Meaning
Keep
सर्वात्मनीदं
भुवनं
निरीक्ष्य
सर्वेऽसुराः
कश्मलमापुरङ्ग
।
सुदर्शनं
चक्रमसह्यतेजो
धनुश्च
शार्ङ्गं
स्तनयित्नुघोषम्
31
▾
Meaning
Keep
पर्जन्यघोषो
जलजः
पाञ्चजन्यः
कौमोदकी
विष्णुगदा
तरस्विनी
।
विद्याधरोऽसिः
शतचन्द्रयुक्त-
स्तूणोत्तमावक्षयसायकौ
च
32
▾
Meaning
Keep
सुनन्दमुख्या
उपतस्थुरीशं
पार्षदमुख्याः
सहलोकपालाः
।
स्फुरत्किरीटाङ्गदमीनकुण्डलः
श्रीवत्सरत्नोत्तममेखलाम्बरैः
33
▾
Meaning
Keep
मधुव्रतस्रग्वनमालया
वृतो
रराज
राजन्
भगवानुरुक्रमः
।
क्षितिं
पदैकेन
बलेर्विचक्रमे
नभः
शरीरेण
दिशश्च
बाहुभिः
34
▾
Meaning
Keep
पदं
द्वितीयं
क्रमतस्त्रिविष्टपं
न
वै
तृतीयाय
तदीयमण्वपि
।
उरुक्रमस्याङ्घ्रिरुपर्युपर्यथो
महर्जनाभ्यां
तपसः
परं
गतः
Previous
←
Three Paces, Measured by My Foot
Next
Bali Bound
→