Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Bali Bound
Śrīmad Bhāgavatam
›
Canto 8
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
सत्यं
समीक्ष्याब्जभवो
नखेन्दुभि-
र्हतस्वधामद्युतिरावृतोऽभ्यगात्
।
मरीचिमिश्रा
ऋषयो
बृहद्व्रताः
सनन्दनाद्या
नरदेव
योगिनः
2
▾
Meaning
Keep
वेदोपवेदा
नियमान्विता
यमा-
स्तर्केतिहासाङ्गपुराणसंहिताः
।
ये
चापरे
योगसमीरदीपित-
ज्ञानाग्निना
रन्धितकर्मकल्मषाः
।
ववन्दिरे
यत्स्मरणानुभावतः
स्वायम्भुवं
धाम
गता
अकर्मकम्
3
▾
Meaning
Keep
अथाङ्घ्रये
प्रोन्नमिताय
विष्णो-
रुपाहरत्पद्मभवोऽर्हणोदकम्
।
समर्च्य
भक्त्याभ्यगृणाच्छुचिश्रवा
यन्नाभिपङ्केरुहसम्भवः
स्वयम्
4
▾
Meaning
Keep
धातुः
कमण्डलुजलं
तदुरुक्रमस्य
पादावनेजनपवित्रतया
नरेन्द्र
।
स्वर्धुन्यभून्नभसि
सा
पतती
निमार्ष्टि
लोकत्रयं
भगवतो
विशदेव
कीर्तिः
5
▾
Meaning
Keep
ब्रह्मादयो
लोकनाथाः
स्वनाथाय
समादृताः
।
सानुगा
बलिमाजह्रुः
सङ्क्षिप्तात्मविभूतये
6
▾
Meaning
Keep
तोयैः
समर्हणैः
स्रग्भिर्दिव्यगन्धानुलेपनैः
।
धूपैर्दीपैः
सुरभिभिर्लाजाक्षतफलाङ्कुरैः
7
▾
Meaning
Keep
स्तवनैर्जयशब्दैश्च
तद्वीर्यमहिमाङ्कितैः
।
नृत्यवादित्रगीतैश्च
शङ्खदुन्दुभिनिःस्वनैः
8
▾
Meaning
Keep
जाम्बवान्
ऋक्षराजस्तु
भेरीशब्दैर्मनोजवः
।
विजयं
दिक्षु
सर्वासु
महोत्सवमघोषयत्
9
▾
Meaning
Keep
महीं
सर्वां
हृतां
दृष्ट्वा
त्रिपदव्याजयाच्ञया
।
ऊचुः
स्वभर्तुरसुरा
दीक्षितस्यात्यमर्षिताः
10
▾
Meaning
Keep
न
वायं
ब्रह्मबन्धुर्विष्णुर्मायाविनां
वरः
।
द्विजरूपप्रतिच्छन्नो
देवकार्यं
चिकीर्षति
11
▾
Meaning
Keep
अनेन
याचमानेन
शत्रुणा
वटुरूपिणा
।
सर्वस्वं
नो
हृतं
भर्तुर्न्यस्तदण्डस्य
बर्हिषि
12
▾
Meaning
Keep
सत्यव्रतस्य
सततं
दीक्षितस्य
विशेषतः
।
नानृतं
भाषितुं
शक्यं
ब्रह्मण्यस्य
दयावतः
13
▾
Meaning
Keep
तस्मादस्य
वधो
धर्मो
भर्तुः
शुश्रूषणं
च
नः
।
इत्यायुधानि
जगृहुर्बलेरनुचरासुराः
14
▾
Meaning
Keep
ते
सर्वे
वामनं
हन्तुं
शूलपट्टिशपाणयः
।
अनिच्छन्तो
बले
राजन्प्राद्रवन्जातमन्यवः
15
▾
Meaning
Keep
तानभिद्रवतो
दृष्ट्वा
दितिजानीकपान्
नृप
।
प्रहस्यानुचरा
विष्णोः
प्रत्यषेधन्नुदायुधाः
16
▾
Meaning
Keep
नन्दः
सुनन्दोऽथ
जयो
विजयः
प्रबलो
बलः
।
कुमुदः
कुमुदाक्षश्च
विष्वक्सेनः
पतत्त्रिराट्
17
▾
Meaning
Keep
जयन्तः
श्रुतदेवश्च
पुष्पदन्तोऽथ
सात्वतः
।
सर्वे
नागायुतप्राणाश्चमूं
ते
जघ्नुरासुरीम्
18
▾
Meaning
Keep
हन्यमानान्
स्वकान्
दृष्ट्वा
पुरुषानुचरैर्बलिः
।
वारयामास
संरब्धान्
काव्यशापमनुस्मरन्
19
▾
Meaning
Keep
हे
विप्रचित्ते
हे
राहो
हे
नेमे
श्रूयतां
वचः
।
मा
युध्यत
निवर्तध्वं
न
नः
कालोऽयमर्थकृत्
20
▾
Meaning
Keep
यः
प्रभुः
सर्वभूतानां
सुखदुःखोपपत्तये
।
तं
नातिवर्तितुं
दैत्याः
पौरुषैरीश्वरः
पुमान्
21
▾
Meaning
Keep
यो
नो
भवाय
प्रागासीदभवाय
दिवौकसाम्
।
स
एव
भगवानद्य
वर्तते
तद्विपर्ययम्
22
▾
Meaning
Keep
बलेन
सचिवैर्बुद्ध्या
दुर्गैर्मन्त्रौषधादिभिः
।
सामादिभिरुपायैश्च
कालं
नात्येति
वै
जनः
23
▾
Meaning
Keep
भवद्भिर्निर्जिता
ह्येते
बहुशोऽनुचरा
हरेः
।
दैवेनर्द्धैस्त
एवाद्य
युधि
जित्वा
नदन्ति
नः
24
▾
Meaning
Keep
एतान्
वयं
विजेष्यामो
यदि
दैवं
प्रसीदति
।
तस्मात्कालं
प्रतीक्षध्वं
यो
नोऽर्थत्वाय
कल्पते
25
▾
Meaning
Keep
पत्युर्निगदितं
श्रुत्वा
दैत्यदानवयूथपाः
।
रसां
निर्विविशू
राजन्
विष्णुपार्षदताडिताः
26
▾
Meaning
Keep
अथ
तार्क्ष्यसुतो
ज्ञात्वा
विराट्प्रभुचिकीर्षितम्
।
बबन्ध
वारुणैः
पाशैर्बलिं
सूत्येऽहनि
क्रतौ
27
▾
Meaning
Keep
हाहाकारो
महानासीद्रोदस्योः
सर्वतोदिशम्
।
निगृह्यमाणेऽसुरपतौ
विष्णुना
प्रभविष्णुना
28
▾
Meaning
Keep
तं
बद्धं
वारुणैः
पाशैर्भगवानाह
वामनः
।
नष्टश्रियं
स्थिरप्रज्ञमुदारयशसं
नृप
29
▾
Meaning
Keep
पदानि
त्रीणि
दत्तानि
भूमेर्मह्यं
त्वयासुर
।
द्वाभ्यां
क्रान्ता
मही
सर्वा
तृतीयमुपकल्पय
30
▾
Meaning
Keep
यावत्तपत्यसौ
गोभिर्यावदिन्दुः
सहोडुभिः
।
यावद्वर्षति
पर्जन्यस्तावती
भूरियं
तव
31
▾
Meaning
Keep
पदैकेन
मयाक्रान्तो
भूर्लोकः
खं
दिशस्तनोः
।
स्वर्लोकस्ते
द्वितीयेन
पश्यतस्ते
स्वमात्मना
32
▾
Meaning
Keep
प्रतिश्रुतमदातुस्ते
निरये
वास
इष्यते
।
विश
त्वं
निरयं
तस्माद्गुरुणा
चानुमोदितः
33
▾
Meaning
Keep
वृथा
मनोरथस्तस्य
दूरः
स्वर्गः
पतत्यधः
।
प्रतिश्रुतस्यादानेन
योऽर्थिनं
विप्रलम्भते
34
▾
Meaning
Keep
विप्रलब्धो
ददामीति
त्वयाहं
चाढ्यमानिना
।
तद्व्यलीकफलं
भुङ्क्ष्व
निरयं
कतिचित्समाः
Previous
←
Bali Keeps His Word, and the Form Grows
Next
Set Your Third Step on My Head
→