Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Sukanya and Cyavana
Śrīmad Bhāgavatam
›
Canto 9
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
शर्यातिर्मानवो
राजा
ब्रह्मिष्ठः
सम्बभूव
ह
।
यो
वा
अङ्गिरसां
सत्रे
द्वितीयमहऊचिवान्
2
▾
Meaning
Keep
सुकन्या
नाम
तस्यासीत्कन्या
कमललोचना
।
तया
सार्धं
वनगतो
ह्यगमच्च्यवनाश्रमम्
3
▾
Meaning
Keep
सा
सखीभिः
परिवृता
विचिन्वन्त्यङ्घ्रिपान्
वने
।
वल्मीकरन्ध्रे
ददृशे
खद्योते
इव
ज्योतिषी
4
▾
Meaning
Keep
ते
दैवचोदिता
बाला
ज्योतिषी
कण्टकेन
वै
।
अविध्यन्मुग्धभावेन
सुस्रावासृक्
ततो
बहिः
5
▾
Meaning
Keep
शकृन्मूत्रनिरोधोऽभूत्सैनिकानां
च
तत्क्षणात्
।
राजर्षिस्तमुपालक्ष्य
पुरुषान्
विस्मितोऽब्रवीत्
6
▾
Meaning
Keep
अप्यभद्रं
न
युष्माभिर्भार्गवस्य
विचेष्टितम्
।
व्यक्तं
केनापि
नस्तस्य
कृतमाश्रमदूषणम्
7
▾
Meaning
Keep
सुकन्या
प्राह
पितरं
भीता
किञ्चित्कृतं
मया
।
द्वे
ज्योतिषी
अजानन्त्या
निर्भिन्ने
कण्टकेन
वै
8
▾
Meaning
Keep
दुहितुस्तद्वचः
श्रुत्वा
शर्यातिर्जातसाध्वसः
।
मुनिं
प्रसादयामास
वल्मीकान्तर्हितं
शनैः
9
▾
Meaning
Keep
तदभिप्रायमाज्ञाय
प्रादाद्दुहितरं
मुनेः
।
कृच्छ्रान्मुक्तस्तमामन्त्र्य
पुरं
प्रायात्समाहितः
10
▾
Meaning
Keep
सुकन्या
च्यवनं
प्राप्य
पतिं
परमकोपनम्
।
प्रीणयामास
चित्तज्ञा
अप्रमत्तानुवृत्तिभिः
11
▾
Meaning
Keep
कस्यचित्त्वथ
कालस्य
नासत्यावाश्रमागतौ
।
तौ
पूजयित्वा
प्रोवाच
वयो
मे
दत्तमीश्वरौ
12
▾
Meaning
Keep
ग्रहं
ग्रहीष्ये
सोमस्य
यज्ञे
वामप्यसोमपोः
।
क्रियतां
मे
वयोरूपं
प्रमदानां
यदीप्सितम्
13
▾
Meaning
Keep
बाढमित्यूचतुर्विप्रमभिनन्द्य
भिषक्तमौ
।
निमज्जतां
भवानस्मिन्
ह्रदे
सिद्धविनिर्मिते
14
▾
Meaning
Keep
इत्युक्तो
जरया
ग्रस्त
देहो
धमनिसन्ततः
।
ह्रदं
प्रवेशितोऽश्विभ्यां
वलीपलितविप्रिहः
15
▾
Meaning
Keep
पुरुषास्त्रय
उत्तस्थुरपीव्या
वनिताप्रियाः
।
पद्मस्रजः
कुण्डलिनस्तुल्यरूपाः
सुवाससः
16
▾
Meaning
Keep
तान्निरीक्ष्य
वरारोहा
सरूपान्
सूर्यवर्चसः
।
अजानती
पतिं
साध्वी
अश्विनौ
शरणं
ययौ
17
▾
Meaning
Keep
दर्शयित्वा
पतिं
तस्यै
पातिव्रत्येन
तोषितौ
।
ऋषिमामन्त्र्य
ययतुर्विमानेन
त्रिविष्टपम्
18
▾
Meaning
Keep
यक्ष्यमाणोऽथ
शर्यातिश्च्यवनस्याश्रमं
गतः
।
ददर्श
दुहितुः
पार्श्वे
पुरुषं
सूर्यवर्चसम्
19
▾
Meaning
Keep
राजा
दुहितरं
प्राह
कृतपादाभिवन्दनाम्
।
आशिषश्चाप्रयुञ्जानो
नातिप्रीतिमना
इव
20
▾
Meaning
Keep
चिकीर्षितं
ते
किमिदं
पतिस्त्वया
प्रलम्भितो
लोकनमस्कृतो
मुनिः
।
यत्त्वं
जराग्रस्तमसत्यसम्मतं
विहाय
जारं
भजसेऽमुमध्वगम्
21
▾
Meaning
Keep
कथं
मतिस्तेऽवगतान्यथा
सतां
कुलप्रसूते
कुलदूषणं
त्विदम्
।
बिभर्षि
जारं
यदपत्रपा
कुलं
पितुश्च
भर्तुश्च
नयस्यधस्तमः
22
▾
Meaning
Keep
एवं
ब्रुवाणं
पितरं
स्मयमाना
शुचिस्मिता
।
उवाच
तात
जामाता
तवैष
भृगुनन्दनः
23
▾
Meaning
Keep
शशंस
पित्रे
तत्सर्वं
वयोरूपाभिलम्भनम्
।
विस्मितः
परमप्रीतस्तनयां
परिषस्वजे
24
▾
Meaning
Keep
सोमेन
याजयन्
वीरं
ग्रहं
सोमस्य
चाग्रहीत्
।
असोमपोरप्यश्विनोश्च्यवनः
स्वेन
तेजसा
25
▾
Meaning
Keep
हन्तुं
तमाददे
वज्रं
सद्योमन्युरमर्षितः
।
सवज्रं
स्तम्भयामास
भुजमिन्द्रस्य
भार्गवः
26
▾
Meaning
Keep
अन्वजानंस्ततः
सर्वे
ग्रहं
सोमस्य
चाश्विनोः
।
भिषजाविति
यत्पूर्वं
सोमाहुत्या
बहिष्कृतौ
27
▾
Meaning
Keep
उत्तानबर्हिरानर्तो
भूरिषेण
इति
त्रयः
।
शर्यातेरभवन्पुत्रा
आनर्ताद्रेवतोऽभवत्
28
▾
Meaning
Keep
सोऽन्तःसमुद्रे
नगरीं
विनिर्माय
कुशस्थलीम्
।
आस्थितोऽभुङ्क्त
विषयानानर्तादीनरिन्दम
29
▾
Meaning
Keep
तस्य
पुत्रशतं
जज्ञे
ककुद्मिज्येष्ठमुत्तमम्
।
ककुद्मी
रेवतीं
कन्यां
स्वामादाय
विभुं
गतः
30
▾
Meaning
Keep
पुत्र्या
वरं
परिप्रष्टुं
ब्रह्मलोकमपावृतम्
।
आवर्तमाने
गान्धर्वे
स्थितोऽलब्धक्षणः
क्षणम्
31
▾
Meaning
Keep
तदन्त
आद्यमानम्य
स्वाभिप्रायं
न्यवेदयत्
।
तच्छ्रुत्वा
भगवान्
ब्रह्मा
प्रहस्य
तमुवाच
ह
32
▾
Meaning
Keep
अहो
राजन्
निरुद्धास्ते
कालेन
हृदि
ये
कृताः
।
तत्पुत्रपौत्रनप्तॄणां
गोत्राणि
च
न
शृण्महे
33
▾
Meaning
Keep
कालोऽभियातस्त्रिणवचतुर्युगविकल्पितः
।
तद्गच्छ
देवदेवांशो
बलदेवो
महाबलः
34
▾
Meaning
Keep
कन्यारत्नमिदं
राजन्
नररत्नाय
देहि
भोः
।
भुवो
भारावताराय
भगवान्
भूतभावनः
35
▾
Meaning
Keep
अवतीर्णो
निजांशेन
पुण्यश्रवणकीर्तनः
।
इत्यादिष्टोऽभिवन्द्याजं
नृपः
स्वपुरमागतः
।
त्यक्तं
पुण्यजनत्रासाद्भ्रातृभिर्दिक्ष्ववस्थितैः
36
▾
Meaning
Keep
सुतां
दत्त्वानवद्याङ्गीं
बलाय
बलशालिने
।
बदर्याख्यं
गतो
राजा
तप्तुं
नारायणाश्रमम्
Previous
←
The Other Sons of Manu
Next
Ambarisa and the Disc
→