Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Other Sons of Manu
Śrīmad Bhāgavatam
›
Canto 9
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एवं
गतेऽथ
सुद्युम्ने
मनुर्वैवस्वतः
सुते
।
पुत्रकामस्तपस्तेपे
यमुनायां
शतं
समाः
2
▾
Meaning
Keep
ततोऽयजन्मनुर्देवमपत्यार्थं
हरिं
प्रभुम्
।
इक्ष्वाकुपूर्वजान्पुत्राँल्लेभे
स्वसदृशान्दश
3
▾
Meaning
Keep
पृषध्रस्तु
मनोः
पुत्रो
गोपालो
गुरुणा
कृतः
।
पालयामास
गा
यत्तो
रात्र्यां
वीरासनव्रतः
4
▾
Meaning
Keep
एकदा
प्राविशद्गोष्ठं
शार्दूलो
निशि
वर्षति
।
शयाना
गाव
उत्थाय
भीतास्ता
बभ्रमुर्व्रजे
5
▾
Meaning
Keep
एकां
जग्राह
बलवान्
सा
चुक्रोश
भयातुरा
।
तस्यास्तु
क्रन्दितं
श्रुत्वा
पृषध्रोऽनुससार
ह
6
▾
Meaning
Keep
खड्गमादाय
तरसा
प्रलीनोडुगणे
निशि
।
अजानन्नहनद्बभ्रोः
शिरः
शार्दूलशङ्कया
7
▾
Meaning
Keep
व्याघ्रोऽपि
वृक्णश्रवणो
निस्त्रिंशाग्राहतस्ततः
।
निश्चक्राम
भृशं
भीतो
रक्तं
पथि
समुत्सृजन्
8
▾
Meaning
Keep
मन्यमानो
हतं
व्याघ्रं
पृषध्रः
परवीरहा
।
अद्राक्षीत्स्वहतां
बभ्रुं
व्युष्टायां
निशि
दुःखितः
9
▾
Meaning
Keep
तं
शशाप
कुलाचार्यः
कृतागसमकामतः
।
न
क्षत्रबन्धुः
शूद्रस्त्वं
कर्मणा
भवितामुना
10
▾
Meaning
Keep
एवं
शप्तस्तु
गुरुणा
प्रत्यगृह्णात्कृताञ्जलिः
।
अधारयद्व्रतं
वीर
ऊर्ध्वरेता
मुनिप्रियम्
11
▾
Meaning
Keep
वासुदेवे
भगवति
सर्वात्मनि
परेऽमले
।
एकान्तित्वं
गतो
भक्त्या
सर्वभूतसुहृत्समः
12
▾
Meaning
Keep
विमुक्तसङ्गः
शान्तात्मा
संयताक्षोऽपरिग्रहः
।
यदृच्छयोपपन्नेन
कल्पयन्
वृत्तिमात्मनः
13
▾
Meaning
Keep
आत्मन्यात्मानमाधाय
ज्ञानतृप्तः
समाहितः
।
विचचार
महीमेतां
जडान्धबधिराकृतिः
14
▾
Meaning
Keep
एवंवृत्तो
वनं
गत्वा
दृष्ट्वा
दावाग्निमुत्थितम्
।
तेनोपयुक्तकरणो
ब्रह्म
प्राप
परं
मुनिः
15
▾
Meaning
Keep
कविः
कनीयान्
विषयेषु
निःस्पृहो
विसृज्य
राज्यं
सह
बन्धुभिर्वनम्
।
निवेश्य
चित्ते
पुरुषं
स्वरोचिषं
विवेश
कैशोरवयाः
परं
गतः
16
▾
Meaning
Keep
करूषान्मानवादासन्
कारूषाः
क्षत्रजातयः
।
उत्तरापथगोप्तारो
ब्रह्मण्या
धर्मवत्सलाः
17
▾
Meaning
Keep
धृष्टाद्धार्ष्टमभूत्क्षत्रं
ब्रह्मभूयं
गतं
क्षितौ
।
नृगस्य
वंशः
सुमतिर्भूतज्योतिस्ततो
वसुः
18
▾
Meaning
Keep
वसोः
प्रतीकस्तत्पुत्र
ओघवानोघवत्पिता
।
कन्या
चौघवती
नाम
सुदर्शन
उवाह
ताम्
19
▾
Meaning
Keep
चित्रसेनो
नरिष्यन्तादृक्षस्तस्य
सुतोऽभवत्
।
तस्य
मीढ्वांस्ततः
कूर्च
इन्द्रसेनस्तु
तत्सुतः
20
▾
Meaning
Keep
वीतिहोत्रस्त्विन्द्रसेनात्तस्य
सत्यश्रवा
अभूत्
।
उरुश्रवाः
सुतस्तस्य
देवदत्तस्ततोऽभवत्
21
▾
Meaning
Keep
ततोऽग्निवेश्यो
भगवानग्निः
स्वयमभूत्सुतः
।
कानीन
इति
विख्यातो
जातूकर्ण्यो
महान्
ऋषिः
22
▾
Meaning
Keep
ततो
ब्रह्मकुलं
जातमाग्निवेश्यायनं
नृप
।
नरिष्यन्तान्वयः
प्रोक्तो
दिष्टवंशमतः
शृणु
23
▾
Meaning
Keep
नाभागो
दिष्टपुत्रोऽन्यः
कर्मणा
वैश्यतां
गतः
।
भलन्दनः
सुतस्तस्य
वत्सप्रीतिर्भलन्दनात्
24
▾
Meaning
Keep
वत्सप्रीतेः
सुतः
प्रांशुस्तत्सुतं
प्रमतिं
विदुः
।
खनित्रः
प्रमतेस्तस्माच्चाक्षुषोऽथ
विविंशतिः
25
▾
Meaning
Keep
विविंशति
सुतो
रम्भः
खनीनेत्रोऽस्य
धार्मिकः
।
करन्धमो
महाराज
तस्यासीदात्मजो
नृप
26
▾
Meaning
Keep
तस्यावीक्षित्सुतो
यस्य
मरुत्तश्चक्रवर्त्यभूत्
।
संवर्तोऽयाजयद्यं
वै
महायोग्यङ्गिरःसुतः
27
▾
Meaning
Keep
मरुत्तस्य
यथा
यज्ञो
न
तथान्योऽस्ति
कश्चन
।
सर्वं
हिरण्मयं
त्वासीद्
यत्
किञ्चिच्चास्य
शोभनम्
28
▾
Meaning
Keep
अमाद्यदिन्द्रः
सोमेन
दक्षिणाभिर्द्विजातयः
।
मरुतः
परिवेष्टारो
विश्वेदेवाः
सभासदः
29
▾
Meaning
Keep
मरुत्तस्य
दमः
पुत्रस्तस्यासीद्राज्यवर्धनः
।
सुधृतिस्तत्सुतो
जज्ञे
सौधृतेयो
नरः
सुतः
30
▾
Meaning
Keep
तत्सुतः
केवलस्तस्माद्धुन्धुमान्वेगवांस्ततः
।
ब
धुन्स्तस्याभवद्यस्य
तृणबिन्दुर्महीपतिः
31
▾
Meaning
Keep
तं
भेजेऽलम्बुषा
देवी
भजनीयगुणालयम्
।
वराप्सरा
यतः
पुत्राः
कन्या
चेलविलाभवत्
32
▾
Meaning
Keep
यस्यामुत्पादयामास
विश्रवा
धनदं
सुतम्
।
प्रादाय
विद्यां
परमामृषिर्योगेश्वरः
पितुः
33
▾
Meaning
Keep
विशालः
शून्यबन्धुश्च
धूम्रकेतुश्च
तत्सुताः
।
विशालो
वंशकृद्राजा
वैशालीं
निर्ममे
पुरीम्
34
▾
Meaning
Keep
हेमचन्द्रः
सुतस्तस्य
धूम्राक्षस्तस्य
चात्मजः
।
तत्पुत्रात्संयमादासीत्कृशाश्वः
सहदेवजः
35
▾
Meaning
Keep
कृशाश्वात्
सोमदत्तोऽभूद्
योऽश्वमेधैरिडस्पतिम्
।
इष्ट्वा
पुरुषमापाग्र्यां
गतिं
योगेश्वराश्रिताम्
36
▾
Meaning
Keep
सौमदत्तिस्तु
सुमतिस्तत्पुत्रो
जनमेजयः
।
एते
वैशालभूपालास्तृणबिन्दोर्यशोधराः
Previous
←
The Line of Manu, and Sudyumna
Next
Sukanya and Cyavana
→