Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Disc Is Quieted
Śrīmad Bhāgavatam
›
Canto 9
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एवं
भगवतादिष्टो
दुर्वासाश्चक्रतापितः
।
अम्बरीषमुपावृत्य
तत्पादौ
दुःखितोऽग्रहीत्
Hymn
2
▾
Meaning
Keep
तस्य
सोद्यममावीक्ष्य
पादस्पर्शविलज्जितः
।
अस्तावीत्
तद्धरेरस्त्रं
कृपया
पीडितो
भृशम्
3
▾
Meaning
Keep
त्वमग्निर्भगवान्
सूर्यस्त्वं
सोमो
ज्योतिषां
पतिः
।
त्वमापस्त्वं
क्षितिर्व्योम
वायुर्मात्रेन्द्रियाणि
च
4
▾
Meaning
Keep
सुदर्शन
नमस्तुभ्यं
सहस्राराच्युतप्रिय
।
सर्वास्त्रघातिन्
विप्राय
स्वस्ति
भूया
इडस्पते
5
▾
Meaning
Keep
त्वं
धर्मस्त्वमृतं
सत्यं
त्वं
यज्ञोऽखिलयज्ञभुक्
।
त्वं
लोकपालः
सर्वात्मा
त्वं
तेजः
पौरुषं
परम्
6
▾
Meaning
Keep
नमः
सुनाभाखिलधर्मसेतवे
ह्यधर्मशीलासुरधूमकेतवे
।
त्रैलोक्यगोपाय
विशुद्धवर्चसे
मनोजवायाद्भुतकर्मणे
गृणे
7
▾
Meaning
Keep
त्वत्तेजसा
धर्ममयेन
संहृतं
तमः
प्रकाशश्च
दृशो
महात्मनाम्
।
दुरत्ययस्ते
महिमा
गिरां
पते
त्वद्रूपमेतत्
सदसत्
परावरम्
8
▾
Meaning
Keep
यदा
विसृष्टस्त्वमनञ्जनेन
वै
बलं
प्रविष्टोऽजित
दैत्यदानवम्
।
बाहूदरोर्वङ्घ्रिशिरोधराणि
वृक्णन्नजस्रं
प्रधने
विराजसे
9
▾
Meaning
Keep
स
त्वं
जगत्त्राणखलप्रहाणये
निरूपितः
सर्वसहो
गदाभृता
।
विप्रस्य
चास्मत्कुलदैवहेतवे
विधेहि
भद्रं
तदनुग्रहो
हि
नः
10
▾
Meaning
Keep
यद्यस्ति
दत्तमिष्टं
वा
स्वधर्मो
वा
स्वनुष्ठितः
।
कुलं
नो
विप्रदैवं
चेद्द्विजो
भवतु
विज्वरः
11
▾
Meaning
Keep
यदि
नो
भगवान्
प्रीत
एकः
सर्वगुणाश्रयः
।
सर्वभूतात्मभावेन
द्विजो
भवतु
विज्वरः
12
▾
Meaning
Keep
इति
संस्तुवतो
राज्ञो
विष्णुचक्रं
सुदर्शनम्
।
अशाम्यत्सर्वतो
विप्रं
प्रदहद्राजयाच्ञया
13
▾
Meaning
Keep
स
मुक्तोऽस्त्राग्नितापेन
दुर्वासाः
स्वस्तिमांस्ततः
।
प्रशशंस
तमुर्वीशं
युञ्जानः
परमाशिषः
14
▾
Meaning
Keep
अहो
अनन्तदासानां
महत्त्वं
दृष्टमद्य
मे
।
कृतागसोऽपि
यद्राजन्
मङ्गलानि
समीहसे
15
▾
Meaning
Keep
दुष्करः
को
नु
साधूनां
दुस्त्यजो
वा
महात्मनाम्
।
यैः
सङ्गृहीतो
भगवान्
सात्वतामृषभो
हरिः
16
▾
Meaning
Keep
यन्नामश्रुतिमात्रेण
पुमान्
भवति
निर्मलः
।
तस्य
तीर्थपदः
किं
वा
दासानामवशिष्यते
17
▾
Meaning
Keep
राजन्ननुगृहीतोऽहं
त्वयातिकरुणात्मना
।
मदघं
पृष्ठतः
कृत्वा
प्राणा
यन्मेऽभिरक्षिताः
18
▾
Meaning
Keep
राजा
तमकृताहारः
प्रत्यागमनकाङ्क्षया
।
चरणावुपसङ्गृह्य
प्रसाद्य
समभोजयत्
19
▾
Meaning
Keep
सोऽशित्वाऽऽदृतमानीतमातिथ्यं
सार्वकामिकम्
।
तृप्तात्मा
नृपतिं
प्राह
भुज्यतामिति
सादरम्
20
▾
Meaning
Keep
प्रीतोऽस्म्यनुगृहीतोऽस्मि
तव
भागवतस्य
वै
।
दर्शनस्पर्शनालापैरातिथ्येनात्ममेधसा
21
▾
Meaning
Keep
कर्मावदातमेतत्ते
गायन्ति
स्वःस्त्रियो
मुहुः
।
कीर्तिं
परमपुण्यां
च
कीर्तयिष्यति
भूरियम्
22
▾
Meaning
Keep
एवं
संकीर्त्य
राजानं
दुर्वासाः
परितोषितः
।
ययौ
विहायसामन्त्र्य
ब्रह्मलोकमहैतुकम्
23
▾
Meaning
Keep
संवत्सरोऽत्यगात्तावद्यावता
नागतो
गतः
।
मुनिस्तद्दर्शनाकाङ्क्षो
राजाब्भक्षो
बभूव
ह
24
▾
Meaning
Keep
गतेऽथ
दुर्वाससि
सोऽम्बरीषो
द्विजोपयोगातिपवित्रमाहरत्
।
ऋषेर्विमोक्षं
व्यसनं
च
बुद्ध्वा
मेने
स्ववीर्यं
च
परानुभावम्
25
▾
Meaning
Keep
एवं
विधानेकगुणः
स
राजा
परात्मनि
ब्रह्मणि
वासुदेवे
।
क्रियाकलापैः
समुवाह
भक्तिं
ययाविरिञ्च्यान्निरयांश्चकार
26
▾
Meaning
Keep
अथाम्बरीषस्तनयेषु
राज्यं
समानशीलेषु
विसृज्य
धीरः
।
वनं
विवेशात्मनि
वासुदेवे
मनो
दधद्ध्वस्तगुणप्रवाहः
27
▾
Meaning
Keep
इत्येतत्
पुण्यमाख्यानमम्बरीषस्य
भूपते
।
सङ्कीर्तयन्ननुध्यायन्
भक्तो
भगवतो
भवेत्
Previous
←
Ambarisa and the Disc
Next
Saubhari in the Water
→