Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Bhagiratha Brings the River Down
Śrīmad Bhāgavatam
›
Canto 9
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अंशुमांश्च
तपस्तेपे
गङ्गानयनकाम्यया
।
कालं
महान्तं
नाशक्नोत्ततः
कालेन
संस्थितः
2
▾
Meaning
Keep
दिलीपस्तत्सुतस्तद्वदशक्तः
कालमेयिवान्
।
भगीरथस्तस्य
पुत्रस्तेपे
स
सुमहत्तपः
3
▾
Meaning
Keep
दर्शयामास
तं
देवी
प्रसन्ना
वरदास्मि
ते
।
इत्युक्तः
स्वमभिप्रायं
शशंसावनतो
नृपः
4
▾
Meaning
Keep
कोऽपि
धारयिता
वेगं
पतन्त्या
मे
महीतले
।
अन्यथा
भूतलं
भित्त्वा
नृप
यास्ये
रसातलम्
5
▾
Meaning
Keep
किं
चाहं
न
भुवं
यास्ये
नरा
मय्यामृजन्त्यघम्
।
मृजामि
तदघं
कुत्र
राजंस्तत्र
विचिन्त्यताम्
6
▾
Meaning
Keep
साधवो
न्यासिनः
शान्ता
ब्रह्मिष्ठा
लोकपावनाः
।
हरन्त्यघं
तेऽङ्गसङ्गात्तेष्वास्ते
ह्यघभिद्धरिः
7
▾
Meaning
Keep
धारयिष्यति
ते
वेगं
रुद्रस्त्वात्मा
शरीरिणाम्
।
यस्मिन्नोतमिदं
प्रोतं
विश्वं
शाटीव
तन्तुषु
8
▾
Meaning
Keep
इत्युक्त्वा
स
नृपो
देवं
तपसातोषयच्छिवम्
।
कालेनाल्पीयसा
राजंस्तस्येशसमतुष्यत
9
▾
Meaning
Keep
तथेति
राज्ञाभिहितं
सर्वलोकहितः
शिवः
।
दधारावहितो
गङ्गां
पादपूतजलां
हरेः
10
▾
Meaning
Keep
भगीरथः
स
राजर्षिर्निन्ये
भुवनपावनीम्
।
यत्र
स्वपितॄणां
देहा
भस्मीभूताः
स्म
शेरते
11
▾
Meaning
Keep
रथेन
वायुवेगेन
प्रयान्तमनुधावती
।
देशान्
पुनन्ती
निर्दग्धानासिञ्चत्सगरात्मजान्
12
▾
Meaning
Keep
यज्जलस्पर्शमात्रेण
ब्रह्मदण्डहता
अपि
।
सगरात्मजा
दिवं
जग्मुः
केवलं
देहभस्मभिः
13
▾
Meaning
Keep
भस्मीभूताङ्गसङ्गेन
स्वर्याताः
सगरात्मजाः
।
किं
पुनः
श्रद्धया
देवीं
सेवन्ते
ये
धृतव्रताः
14
▾
Meaning
Keep
न
ह्येतत्परमाश्चर्यं
स्वर्धुन्या
यदिहोदितम्
।
अनन्तचरणाम्भोजप्रसूताया
भवच्छिदः
15
▾
Meaning
Keep
सन्निवेश्य
मनो
यस्मिञ्छ्रद्धया
मुनयोऽमलाः
।
त्रैगुण्यं
दुस्त्यजं
हित्वा
सद्यो
यातास्तदात्मताम्
16
▾
Meaning
Keep
श्रुतो
भगीरथाज्जज्ञे
तस्य
नाभोऽपरोऽभवत्
।
सिन्धुद्वीपस्ततस्तस्मादयुतायुस्ततोऽभवत्
17
▾
Meaning
Keep
ऋतूपर्णो
नलसखो
योऽश्वविद्यामयान्नलात्
।
दत्त्वाक्षहृदयं
चास्मै
सर्वकामस्तु
तत्सुतम्
18
▾
Meaning
Keep
ततः
सुदासस्तत्पुत्रो
मदयन्तीपतिर्नृपः
।
आहुर्मित्रसहं
यं
वै
कल्माषाङ्घ्रिमुत
क्वचित्
।
वसिष्ठशापाद्रक्षोऽभूदनपत्यः
स्वकर्मणा
19
▾
Meaning
Keep
किं
निमित्तो
गुरोः
शापः
सौदासस्य
महात्मनः
।
एतद्वेदितुमिच्छामः
कथ्यतां
न
रहो
यदि
20
▾
Meaning
Keep
सौदासो
मृगयां
किञ्चिच्चरन्
रक्षो
जघान
ह
।
मुमोच
भ्रातरं
सोऽथ
गतः
प्रतिचिकीर्षया
21
▾
Meaning
Keep
सञ्चिन्तयन्नघं
राज्ञः
सूदरूपधरो
गृहे
।
गुरवे
भोक्तुकामाय
पक्त्वा
निन्ये
नरामिषम्
22
▾
Meaning
Keep
परिवेक्ष्यमाणं
भगवान्
विलोक्याभक्ष्यमञ्जसा
।
राजानमशपत्क्रुद्धो
रक्षो
ह्येवं
भविष्यसि
23
▾
Meaning
Keep
रक्षःकृतं
तद्विदित्वा
चक्रे
द्वादशवार्षिकम्
।
सोऽप्यपोऽञ्जलिनादाय
गुरुं
शप्तुं
समुद्यतः
24
▾
Meaning
Keep
वारितो
मदयन्त्यापो
रुशतीः
पादयोर्जहौ
।
दिशः
खमवनीं
सर्वं
पश्यन्
जीवमयं
नृपः
25
▾
Meaning
Keep
राक्षसं
भावमापन्नः
पादे
कल्माषतां
गतः
।
व्यवायकाले
ददृशे
वनौकोदम्पती
द्विजौ
26
▾
Meaning
Keep
क्षुधार्तो
जगृहे
विप्रं
तत्पत्न्याहाकृतार्थवत्
।
न
भवान्
राक्षसः
साक्षादिक्ष्वाकूणां
महारथः
27
▾
Meaning
Keep
मदयन्त्याः
पतिर्वीर
नाधर्मं
कर्तुमर्हसि
।
देहि
मेऽपत्यकामाया
अकृतार्थं
पतिं
द्विजम्
28
▾
Meaning
Keep
देहोऽयं
मानुषो
राजन्
पुरुषस्याखिलार्थदः
।
तस्मादस्य
वधो
वीर
सर्वार्थवध
उच्यते
29
▾
Meaning
Keep
एष
हि
ब्राह्मणो
विद्वांस्तपःशीलगुणान्वितः
।
आरिराधयिषुर्ब्रह्म
महापुरुषसंज्ञितम्
।
सर्वभूतात्मभावेन
भूतेष्वन्तर्हितं
गुणैः
30
▾
Meaning
Keep
सोऽयं
ब्रह्मर्षिवर्यस्ते
राजर्षिप्रवराद्विभो
।
कथमर्हति
धर्मज्ञ
वधं
पितुरिवात्मजः
31
▾
Meaning
Keep
तस्य
साधोरपापस्य
भ्रूणस्य
ब्रह्मवादिनः
।
कथं
वधं
यथा
बभ्रोर्मन्यते
सन्मतो
भवान्
32
▾
Meaning
Keep
यद्ययं
क्रियते
भक्ष्यस्तर्हि
मां
खाद
पूर्वतः
।
न
जीविष्ये
विना
येन
क्षणं
च
मृतकं
यथा
33
▾
Meaning
Keep
एवं
करुणभाषिण्या
विलपन्त्या
अनाथवत्
।
व्याघ्रः
पशुमिवाखादत्सौदासः
शापमोहितः
34
▾
Meaning
Keep
ब्राह्मणी
वीक्ष्य
दिधिषुं
पुरुषादेन
भक्षितम्
।
शोचन्त्यात्मानमुर्वीशमशपत्कुपिता
सती
35
▾
Meaning
Keep
यस्मान्मे
भक्षितः
पाप
कामार्तायाः
पतिस्त्वया
।
तवापि
मृत्युराधानादकृतप्रज्ञ
दर्शितः
36
▾
Meaning
Keep
एवं
मित्रसहं
शप्त्वा
पतिलोकपरायणा
।
तदस्थीनि
समिद्धेऽग्नौ
प्रास्य
भर्तुर्गतिं
गता
37
▾
Meaning
Keep
विशापो
द्वादशाब्दान्ते
मैथुनाय
समुद्यतः
।
विज्ञाप्य
ब्राह्मणीशापं
महिष्या
स
निवारितः
38
▾
Meaning
Keep
तत
ऊर्ध्वं
स
तत्याज
स्त्रीसुखं
कर्मणाप्रजाः
।
वसिष्ठस्तदनुज्ञातो
मदयन्त्यां
प्रजामधात्
39
▾
Meaning
Keep
सा
वै
सप्त
समा
गर्भमबिभ्रन्न
व्यजायत
।
जघ्नेऽश्मनोदरं
तस्याः
सोऽश्मकस्तेन
कथ्यते
40
▾
Meaning
Keep
अश्मकानमूलको
जज्ञे
यः
स्त्रीभिः
परिरक्षितः
।
नारीकवच
इत्युक्तो
निःक्षत्रे
मूलकोऽभवत्
41
▾
Meaning
Keep
ततो
दशरथस्तस्मात्पुत्र
ऐडविडिस्ततः
।
राजा
विश्वसहो
यस्य
खट्वाङ्गश्चक्रवर्त्यभूत्
42
▾
Meaning
Keep
यो
देवैरर्थितो
दैत्यानवधीद्युधि
दुर्जयः
।
मुहूर्तमायुर्ज्ञात्वैत्य
स्वपुरं
सन्दधे
मनः
43
▾
Meaning
Keep
न
मे
ब्रह्मकुलात्प्राणाः
कुलदैवान्न
चात्मजाः
।
न
श्रियो
न
मही
राज्यं
न
दाराश्चातिवल्लभाः
44
▾
Meaning
Keep
न
बाल्येऽपि
मतिर्मह्यमधर्मे
रमते
क्वचित्
।
नापश्यमुत्तमश्लोकादन्यत्किञ्चन
वस्त्वहम्
45
▾
Meaning
Keep
देवैः
कामवरो
दत्तो
मह्यं
त्रिभुवनेश्वरैः
।
न
वृणे
तमहं
कामं
भूतभावनभावनः
46
▾
Meaning
Keep
ये
विक्षिप्तेन्द्रियधियो
देवास्ते
स्वहृदि
स्थितम्
।
न
विन्दन्ति
प्रियं
शश्वदात्मानं
किमुतापरे
47
▾
Meaning
Keep
अथेशमायारचितेषु
सङ्गं
गुणेषु
गन्धर्वपुरोपमेषु
।
रूढं
प्रकृत्याऽऽत्मनि
विश्वकर्तु-
र्भावेन
हित्वा
तमहं
प्रपद्ये
48
▾
Meaning
Keep
इति
व्यवसितो
बुद्ध्या
नारायणगृहीतया
।
हित्वान्यभावमज्ञानं
ततः
स्वं
भावमास्थितः
49
▾
Meaning
Keep
यत्तद्ब्रह्म
परं
सूक्ष्ममशून्यं
शून्यकल्पितम्
।
भगवान्
वासुदेवेति
यं
गृणन्ति
हि
सात्वताः
Previous
←
Sagara's Sons and the Ash
Next
The Doings of Rama
→