Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Doings of Rama
Śrīmad Bhāgavatam
›
Canto 9
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
खट्वाङ्गाद्दीर्घबाहुश्च
रघुस्तस्मात्पृथुश्रवाः
।
अजस्ततो
महाराजस्तस्माद्दशरथोऽभवत्
2
▾
Meaning
Keep
तस्यापि
भगवानेष
साक्षाद्ब्रह्ममयो
हरिः
।
अंशांशेन
चतुर्धागात्पुत्रत्वं
प्रार्थितः
सुरैः
।
रामलक्ष्मणभरतशत्रुघ्ना
इति
संज्ञया
3
▾
Meaning
Keep
तस्यानुचरितं
राजन्नृषिभिस्तत्त्वदर्शिभिः
।
श्रुतं
हि
वर्णितं
भूरि
त्वया
सीतापतेर्मुहुः
4
▾
Meaning
Keep
गुर्वर्थे
त्यक्तराज्यो
व्यचरदनुवनं
पद्मपद्भ्यां
प्रियायाः
पाणिस्पर्शाक्षमाभ्यां
मृजितपथरुजो
यो
हरीन्द्रानुजाभ्याम्
।
वैरूप्याच्छूर्पणख्याः
प्रियविरहरुषाऽऽरोपितभ्रूविजृम्भ-
त्रस्ताब्धिर्बद्धसेतुः
खलदवदहनः
कोसलेन्द्रोऽवतान्नः
5
▾
Meaning
Keep
विश्वामित्राध्वरे
येन
मारीचाद्या
निशाचराः
।
पश्यतो
लक्ष्मणस्यैव
हता
नैरृतपुङ्गवाः
6
▾
Meaning
Keep
यो
लोकवीरसमितौ
धनुरैशमुग्रं
सीतास्वयंवरगृहे
त्रिशतोपनीतम्
।
आदाय
बालगजलील
इवेक्षुयष्टिं
सज्ज्यीकृतं
नृप
विकृष्य
बभञ्ज
मध्ये
7
▾
Meaning
Keep
जित्वानुरूपगुणशीलवयोऽङ्गरूपां
सीताभिधां
श्रियमुरस्यभिलब्धमानाम्
।
मार्गे
व्रजन्
भृगुपतेर्व्यनयत्प्ररूढं
दर्पं
महीमकृत
यस्त्रिरराजबीजाम्
8
▾
Meaning
Keep
यः
सत्यपाशपरिवीतपितुर्निदेशं
स्त्रैणस्य
चापि
शिरसा
जगृहे
सभार्यः
।
राज्यं
श्रियं
प्रणयिनः
सुहृदो
निवासं
त्यक्त्वा
ययौ
वनमसूनिव
मुक्तसङ्गः
9
▾
Meaning
Keep
रक्षःस्वसुर्व्यकृत
रूपमशुद्धबुद्धे-
स्तस्याः
खरत्रिशिरदूषणमुख्यबन्धून्
।
जघ्ने
चतुर्दशसहस्रमपारणीय-
कोदण्डपाणिरटमान
उवास
कृच्छ्रम्
10
▾
Meaning
Keep
सीताकथाश्रवणदीपितहृच्छयेन
सृष्टं
विलोक्य
नृपते
दशकन्धरेण
।
जघ्नेऽद्भुतैणवपुषाऽऽश्रमतोऽपकृष्टो
मारीचमाशु
विशिखेन
यथा
कमुग्रः
11
▾
Meaning
Keep
रक्षोऽधमेन
वृकवद्विपिनेऽसमक्षं
वैदेहराजदुहितर्यपयापितायाम्
।
भ्रात्रा
वने
कृपणवत्प्रियया
वियुक्तः
स्त्रीसङ्गिनां
गतिमिति
प्रथयंश्चचार
12
▾
Meaning
Keep
दग्ध्वाऽऽत्मकृत्यहतकृत्यमहन्
कबन्धं
सख्यं
विधाय
कपिभिर्दयितागतिं
तैः
।
बुद्ध्वाथ
वालिनि
हते
प्लवगेन्द्रसैन्यै-
र्वेलामगात्स
मनुजोऽजभवार्चिताङ्घ्रिः
13
▾
Meaning
Keep
यद्रोषविभ्रमविवृत्तकटाक्षपात-
सम्भ्रान्तनक्रमकरो
भयगीर्णघोषः
।
सिन्धुः
शिरस्यर्हणं
परिगृह्य
रूपी
पादारविन्दमुपगम्य
बभाष
एतत्
14
▾
Meaning
Keep
न
त्वां
वयं
जडधियो
नु
विदाम
भूमन्
कूटस्थमादिपुरुषं
जगतामधीशम्
।
यत्सत्त्वतः
सुरगणा
रजसः
प्रजेशा
मन्योश्च
भूतपतयः
स
भवान्
गुणेशः
15
▾
Meaning
Keep
कामं
प्रयाहि
जहि
विश्रवसोऽवमेहं
त्रैलोक्यरावणमवाप्नुहि
वीर
पत्नीम्
।
बध्नीहि
सेतुमिह
ते
यशसो
वितत्यै
गायन्ति
दिग्विजयिनो
यमुपेत्य
भूपाः
16
▾
Meaning
Keep
बद्ध्वोदधौ
रघुपतिर्विविधाद्रिकूटैः
सेतुं
कपीन्द्रकरकम्पितभूरुहाङ्गैः
।
सुग्रीवनीलहनुमत्प्रमुखैरनीकै-
र्लङ्कांविभीषणदृशाऽऽविशदग्रदग्धाम्
17
▾
Meaning
Keep
सा
वानरेन्द्रबलरुद्धविहारकोष्ठ-
श्रीद्वारगोपुरसदोवलभीविटङ्का
।
निर्भज्यमानधिषणध्वजहेमकुम्भ-
शृङ्गाटका
गजकुलैर्ह्रदिनीव
घूर्णा
18
▾
Meaning
Keep
रक्षःपतिस्तदवलोक्य
निकुम्भकुम्भ-
धूम्राक्षदुर्मुखसुरान्तकनरान्तकादीन्
।
पुत्रं
प्रहस्तमतिकायविकम्पनादीन्
सर्वानुगान्
समहिनोदथ
कुम्भकर्णम्
19
▾
Meaning
Keep
तां
यातुधानपृतनामसिशूलचाप-
प्रासर्ष्टिशक्तिशरतोमरखड्गदुर्गाम्
।
सुग्रीवलक्ष्मणमरुत्सुतगन्धमाद-
नीलाङ्गदर्क्षपनसादिभिरन्वितोऽगात्
20
▾
Meaning
Keep
तेऽनीकपा
रघुपतेरभिपत्य
सर्वे
द्वन्द्वं
वरूथमिभपत्तिरथाश्वयोधैः
।
जघ्नुर्द्रुमैर्गिरिगदेषुभिरङ्गदाद्याः
सीताभिमर्षहतमङ्गलरावणेशान्
21
▾
Meaning
Keep
रक्षःपतिः
स्वबलनष्टिमवेक्ष्य
रुष्ट
आरुह्य
यानकमथाभिससार
रामम्
।
स्वःस्यन्दने
द्युमति
मातलिनोपनीते
विभ्राजमानमहनन्निशितैः
क्षुरप्रैः
22
▾
Meaning
Keep
रामस्तमाह
पुरुषादपुरीष
यन्नः
कान्तासमक्षमसतापहृता
श्ववत्ते
।
त्यक्तत्रपस्य
फलमद्य
जुगुप्सितस्य
यच्छामि
काल
इव
कर्तुरलङ्घच्वीर्यः
23
▾
Meaning
Keep
एवं
क्षिपन्
धनुषि
सन्धितमुत्ससर्ज
बाणं
स
वज्रमिव
तद्धृदयं
बिभेद
।
सोऽसृग्वमन्
दशमुखैर्न्यपतद्विमाना-
द्धाहेति
जल्पति
जने
सुकृतीव
रिक्तः
24
▾
Meaning
Keep
ततो
निष्क्रम्य
लङ्काया
यातुधान्यः
सहस्रशः
।
मन्दोदर्या
समं
स्मिन्
प्ररुदन्त्य
उपाद्रवन्
25
▾
Meaning
Keep
स्वान्
स्वान्
बन्धून्
परिष्वज्य
लक्ष्मणेषुभिरर्दितान्
।
रुरुदुः
सुस्वरं
दीना
घ्नन्त्य
आत्मानमात्मना
26
▾
Meaning
Keep
हा
हताः
स्म
वयं
नाथ
लोकरावण
रावण
।
कं
यायाच्छरणं
लङ्का
त्वद्विहीना
परार्दिता
27
▾
Meaning
Keep
नैवं
वेद
महाभाग
भवान्कामवशं
गतः
।
तेजोऽनुभावं
सीताया
येन
नीतो
दशामिमाम्
28
▾
Meaning
Keep
कृतैषा
विधवा
लङ्का
वयं
च
कुलनन्दन
।
देहः
कृतोऽन्नं
गृध्राणामात्मा
नरकहेतवे
29
▾
Meaning
Keep
स्वानां
विभीषणश्चक्रे
कोसलेन्द्रानुमोदितः
।
पितृमेधविधानेन
यदुक्तं
साम्परायिकम्
30
▾
Meaning
Keep
ततो
ददर्श
भगवानशोकवनिकाश्रमे
।
क्षामां
स्वविरहव्याधिं
शिंशपामूलमास्थिताम्
31
▾
Meaning
Keep
रामः
प्रियतमां
भार्यां
दीनां
वीक्ष्यान्वकम्पत
।
आत्मसन्दर्शनाह्लादविकसन्मुखपङ्कजाम्
32
▾
Meaning
Keep
आरोप्यारुरुहे
यानं
भ्रातृभ्यां
हनुमद्युतः
।
विभीषणाय
भगवान्
दत्त्वा
रक्षोगणेशताम्
33
▾
Meaning
Keep
लङ्कामायुश्च
कल्पान्तं
ययौ
चीर्णव्रतः
पुरीम्
।
अवकीर्यमाणः
कुसुमैर्लोकपालार्पितैः
पथि
34
▾
Meaning
Keep
उपगीयमानचरितः
शतधृत्यादिभिर्मुदा
।
गोमूत्रयावकं
श्रुत्वा
भ्रातरं
वल्कलाम्बरम्
35
▾
Meaning
Keep
महाकारुणिकोऽतप्यज्जटिलं
स्थण्डिलेशयम्
।
भरतः
प्राप्तमाकर्ण्य
पौरामात्यपुरोहितैः
36
▾
Meaning
Keep
पादुके
शिरसि
न्यस्य
रामं
प्रत्युद्यतोऽग्रजम्
।
नन्दिग्रामात्स्वशिबिराद्गीतवादित्रनिःस्वनैः
37
▾
Meaning
Keep
ब्रह्मघोषेण
च
मुहुः
पठद्भिर्ब्रह्मवादिभिः
।
स्वर्णकक्षपताकाभिर्हैमैश्चित्रध्वजै
रथैः
38
▾
Meaning
Keep
सदश्वै
रुक्मसन्नाहैर्भटैः
पुरटवर्मभिः
।
श्रेणीभिर्वारमुख्याभिर्भृत्यैश्चैव
पदानुगैः
39
▾
Meaning
Keep
पारमेष्ठ्यान्युपादाय
पण्यान्युच्चावचानि
च
।
पादयोर्न्यपतत्प्रेम्णा
प्रक्लिन्नहृदयेक्षणः
40
▾
Meaning
Keep
पादुके
न्यस्य
पुरतः
प्राञ्जलिर्बाष्पलोचनः
।
तमाश्लिष्य
चिरं
दोर्भ्यां
स्नापयन्
नेत्रजैर्जलैः
41
▾
Meaning
Keep
रामो
लक्ष्मणसीताभ्यां
विप्रेभ्यो
येऽर्हसत्तमाः
।
तेभ्यः
स्वयं
नमश्चक्रे
प्रजाभिश्च
नमस्कृतः
42
▾
Meaning
Keep
धुन्वन्त
उत्तरासङ्गान्
पतिं
वीक्ष्य
चिरागतम्
।
उत्तराः
कोसला
माल्यैः
किरन्तो
ननृतुर्मुदा
43
▾
Meaning
Keep
पादुके
भरतोऽगृह्णाच्चामरव्यजनोत्तमे
।
विभीषणः
ससुग्रीवः
श्वेतच्छत्रं
मरुत्सुतः
44
▾
Meaning
Keep
धनुर्निषङ्गान्छत्रुघ्नः
सीता
तीर्थकमण्डलुम्
।
अबिभ्रदङ्गदः
खड्गं
हैमं
चर्मर्क्षराण्नृप
45
▾
Meaning
Keep
पुष्पकस्थोऽन्वितः
स्त्रीभिः
स्तूयमानश्च
वन्दिभिः
।
विरेजे
भगवान्राजन्ग्रहैश्चन्द्र
इवोदितः
46
▾
Meaning
Keep
भ्रात्राभिनन्दितः
सोऽथ
सोत्सवां
प्राविशत्पुरीम्
।
प्रविश्य
राजभवनं
गुरुपत्नीः
स्वमातरम्
47
▾
Meaning
Keep
गुरून्
वयस्यावरजान्
पूजितः
प्रत्यपूजयत्
।
वैदेही
लक्ष्मणश्चैव
यथावत्समुपेयतुः
48
▾
Meaning
Keep
पुत्रान्
स्वमातरस्तास्तु
प्राणांस्तन्व
इवोत्थिताः
।
आरोप्याङ्केऽभिषिञ्चन्त्यो
बाष्पौघैर्विजहुः
शुचः
49
▾
Meaning
Keep
जटा
निर्मुच्य
विधिवत्कुलवृद्धैः
समं
गुरुः
।
अभ्यषिञ्चद्यथैवेन्द्रं
चतुःसिन्धुजलादिभिः
50
▾
Meaning
Keep
एवं
कृतशिरःस्नानः
सुवासाः
स्रग्व्यलङ्कृतः
।
स्वलङ्कृतैः
सुवासोभिर्भ्रातृभिर्भार्यया
बभौ
51
▾
Meaning
Keep
अग्रहीदासनं
भ्रात्रा
प्रणिपत्य
प्रसादितः
।
प्रजाः
स्वधर्मनिरता
वर्णाश्रमगुणान्विताः
।
जुगोप
पितृवद्रामो
मेनिरे
पितरं
च
तम्
52
▾
Meaning
Keep
त्रेतायां
वर्तमानायां
कालः
कृतसमोऽभवत्
।
रामे
राजनि
धर्मज्ञे
सर्वभूतसुखावहे
53
▾
Meaning
Keep
वनानि
नद्यो
गिरयो
वर्षाणि
द्वीपसिन्धवः
।
सर्वे
कामदुघा
आसन्
प्रजानां
भरतर्षभ
54
▾
Meaning
Keep
नाधिव्याधिजराग्लानिदुःखशोकभयक्लमाः
।
मृत्युश्चानिच्छतां
नासीद्रामे
राजन्यधोक्षजे
55
▾
Meaning
Keep
एकपत्नीव्रतधरो
राजर्षिचरितः
शुचिः
।
स्वधर्मं
गृहमेधीयं
शिक्षयन्
स्वयमाचरत्
56
▾
Meaning
Keep
प्रेम्णानुवृत्त्या
शीलेन
प्रश्रयावनता
सती
।
धिया
ह्रिया
च
भावज्ञा
भर्तुः
सीताहरन्मनः
Previous
←
Bhagiratha Brings the River Down
Next
Rama on the Throne
→