Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Rama on the Throne
Śrīmad Bhāgavatam
›
Canto 9
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
भगवानात्मनाऽऽत्मानं
राम
उत्तमकल्पकैः
।
सर्वदेवमयं
देवमीजेऽथाचार्यवान्मखैः
2
▾
Meaning
Keep
होत्रेऽददाद्दिशं
प्राचीं
ब्रह्मणे
दक्षिणां
प्रभुः
।
अध्वर्यवे
प्रतीचीं
च
उदीचीं
सामगाय
सः
3
▾
Meaning
Keep
आचार्याय
ददौ
शेषां
यावती
भूस्तदन्तरा
।
मन्यमान
इदं
कृत्स्नं
ब्राह्मणोऽर्हति
निःस्पृहः
4
▾
Meaning
Keep
इत्ययं
तदलङ्कारवासोभ्यामवशेषितः
।
तथा
राज्ञ्यपि
वैदेही
सौमङ्गल्यावशेषिता
5
▾
Meaning
Keep
ते
तु
ब्राह्मणदेवस्य
वात्सल्यं
वीक्ष्य
संस्तुतम्
।
प्रीताः
क्लिन्नधियस्तस्मै
प्रत्यर्प्येदं
बभाषिरे
6
▾
Meaning
Keep
अप्रत्तं
नस्त्वया
किं
नु
भगवन्
भुवनेश्वर
।
यन्नोऽन्तर्हृदयं
विश्य
तमो
हंसि
स्वरोचिषा
7
▾
Meaning
Keep
नमो
ब्रह्मण्यदेवाय
रामायाकुण्ठमेधसे
।
उत्तमश्लोकधुर्याय
न्यस्तदण्डार्पिताङ्घ्रये
8
▾
Meaning
Keep
कदाचिल्लोकजिज्ञासुर्गूढो
रात्र्यामलक्षितः
।
चरन्
वाचोऽशृणोद्रामो
भार्यामुद्दिश्य
कस्यचित्
9
▾
Meaning
Keep
नाहं
बिभर्मि
त्वां
दुष्टामसतीं
परवेश्मगाम्
।
स्त्रैलो
भी
बिभृयात्सीतां
रामो
नाहं
भजे
पुनः
10
▾
Meaning
Keep
इति
लोकाद्बहुमुखाद्दुराराध्यादसंविदः
।
पत्या
भीतेन
सा
त्यक्ता
प्राप्ता
प्राचेतसाश्रमम्
11
▾
Meaning
Keep
अन्तर्वत्न्यागते
काले
यमौ
सा
सुषुवे
सुतौ
।
कुशो
लव
इति
ख्यातौ
तयोश्चक्रे
क्रिया
मुनिः
12
▾
Meaning
Keep
अङ्गदश्चित्रकेतुश्च
लक्ष्मणस्यात्मजौ
स्मृतौ
।
तक्षः
पुष्कल
इत्यास्तां
भरतस्य
महीपते
13
▾
Meaning
Keep
सुबाहुः
श्रुतसेनश्च
शत्रुघ्नस्य
बभूवतुः
।
गन्धर्वान्
कोटिशो
जघ्ने
भरतो
विजये
दिशाम्
14
▾
Meaning
Keep
तदीयं
धनमानीय
सर्वं
राज्ञे
न्यवेदयत्
।
शत्रुघ्नश्च
मधोः
पुत्रं
लवणं
नाम
राक्षसम्
।
हत्वा
मधुवने
चक्रे
मथुरां
नाम
वै
पुरीम्
15
▾
Meaning
Keep
मुनौ
निक्षिप्य
तनयौ
सीता
भर्त्रा
विवासिता
।
ध्यायन्ती
रामचरणौ
विवरं
प्रविवेश
ह
16
▾
Meaning
Keep
तच्छ्रुत्वा
भगवान्
रामो
रुन्धन्नपि
धिया
शुचः
।
स्मरंस्तस्या
गुणांस्तांस्तान्नाशक्नोद्रोद्धुमीश्वरः
17
▾
Meaning
Keep
स्त्रीपुंप्रसङ्ग
एतादृक्सर्वत्र
त्रासमावहः
।
अपीश्वराणां
किमुत
ग्राम्यस्य
गृहचेतसः
18
▾
Meaning
Keep
तत
ऊर्ध्वं
ब्रह्मचर्यं
धारयन्नजुहोत्प्रभुः
।
त्रयोदशाब्दसाहस्रमग्निहोत्रमखण्डितम्
19
▾
Meaning
Keep
स्मरतां
हृदि
विन्यस्य
विद्धं
दण्डककण्टकैः
।
स्वपादपल्लवं
राम
आत्मज्योतिरगात्ततः
20
▾
Meaning
Keep
नेदं
यशो
रघुपतेः
सुरयाच्ञयाऽऽत्त
लीलातनोरधिकसाम्यविमुक्तधाम्नः
।
रक्षोवधो
जलधिबन्धनमस्त्रपूगैः
किं
तस्य
शत्रुहनने
कपयः
सहायाः
21
▾
Meaning
Keep
यस्यामलं
नृपसदःसु
यशोऽधुनापि
गायन्त्यघघ्नमृषयो
दिगिभेन्द्रपट्टम्
।
तं
नाकपालवसुपालकिरीटजुष्ट-
पादाम्बुजं
रघुपतिं
शरणं
प्रपद्ये
22
▾
Meaning
Keep
स
यैः
स्पृष्टोऽभिदृष्टो
वा
संविष्टोऽनुगतोऽपि
वा
।
कोसलास्ते
ययुः
स्थानं
यत्र
गच्छन्ति
योगिनः
23
▾
Meaning
Keep
पुरुषो
रामचरितं
श्रवणैरुपधारयन्
।
आनृशंस्यपरो
राजन्
कर्मबन्धैर्विमुच्यते
24
▾
Meaning
Keep
कथं
स
भगवान्
रामो
भ्रातॄन्
वा
स्वयमात्मनः
।
तस्मिन्
वा
तेऽन्ववर्तन्त
प्रजाः
पौराश्च
ईश्वरे
25
▾
Meaning
Keep
अथादिशद्दिग्विजये
भ्रातॄंस्त्रिभुवनेश्वरः
।
आत्मानं
दर्शयन्
स्वानां
पुरीमैक्षत
सानुगः
26
▾
Meaning
Keep
आसिक्तमार्गां
गन्धोदैः
करिणां
मदशीकरैः
।
स्वामिनं
प्राप्तमालोक्य
मत्तां
वा
सुतरामिव
27
▾
Meaning
Keep
प्रासादगोपुरसभाचैत्यदेवगृहादिषु
।
विन्यस्तहेमकलशैः
पताकाभिश्च
मण्डिताम्
28
▾
Meaning
Keep
पूगैः
सवृन्तै
रम्भाभिः
पट्टिकाभिः
सुवाससाम्
।
आदर्शैरंशुकैः
स्रग्भिः
कृतकौतुकतोरणाम्
29
▾
Meaning
Keep
तमुपेयुस्तत्र
तत्र
पौरा
अर्हणपाणयः
।
आशिषो
युयुजुर्देव
पाहीमां
प्राक्
त्वयोद्धृताम्
30
▾
Meaning
Keep
ततः
प्रजा
वीक्ष्य
पतिं
चिरागतं
दिदृक्षयोत्सृष्टगृहाः
स्त्रियो
नराः
।
आरुह्य
हर्म्याण्यरविन्दलोचन-
मतृप्तनेत्राः
कुसुमैरवाकिरन्
31
▾
Meaning
Keep
अथ
प्रविष्टः
स्वगृहं
जुष्टं
स्वैः
पूर्वराजभिः
।
अनन्ताखिलकोषाढ्यमनर्घ्योरुपरिच्छदम्
32
▾
Meaning
Keep
विद्रुमोदुम्बरद्वारैर्वैदूर्यस्तम्भपङ्क्तिभिः
।
स्थलैर्मारकतैः
स्वच्छैर्भ्राजत्स्फटिकभित्तिभिः
33
▾
Meaning
Keep
चित्रस्रग्भिः
पट्टिकाभिर्वासोमणिगणांशुकैः
।
मुक्ताफलैश्चिदुल्लासैः
कान्तकामोपपत्तिभिः
34
▾
Meaning
Keep
धूपदीपैः
सुरभिभिर्मण्डितं
पुष्पमण्डनैः
।
स्त्रीपुम्भिः
सुरसङ्काशैर्जुष्टं
भूषणभूषणैः
35
▾
Meaning
Keep
तस्मिन्
स
भगवान्
रामः
स्निग्धया
प्रिययेष्टया
।
रेमे
स्वारामधीराणामृषभः
सीतया
किल
36
▾
Meaning
Keep
बुभुजे
च
यथाकालं
कामान्
धर्ममपीडयन्
।
वर्षपूगान्
बहून्
नॄणामभिध्याताङ्घ्रिपल्लवः
Previous
←
The Doings of Rama
Next
The Line of Kusa to Its End
→