Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Rama of the Axe and the Haihaya King
Śrīmad Bhāgavatam
›
Canto 9
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
ऐलस्य
चोर्वशीगर्भात्षडासन्नात्मजा
नृप
।
आयुः
श्रुतायुः
सत्यायू
रयोऽथ
विजयो
जयः
2
▾
Meaning
Keep
श्रुतायोर्वसुमान्
पुत्रः
सत्यायोश्च
श्रुतञ्जयः
।
रयस्य
सुत
एकश्च
जयस्य
तनयोऽमितः
3
▾
Meaning
Keep
भीमस्तु
विजयस्याथ
काञ्चनो
होत्रकस्ततः
।
तस्य
जह्नुः
सुतो
गङ्गां
गण्डूषीकृत्य
योऽपिबत्
।
जह्नोस्तु
पुरुस्तत्पुत्रो
बलाकश्चात्मजोऽजकः
4
▾
Meaning
Keep
ततः
कुशः
कुशस्यापि
कुशाम्बुस्तनयो
वसुः
।
कुशनाभश्च
चत्वारो
गाधिरासीत्कुशाम्बुजः
5
▾
Meaning
Keep
तस्य
सत्यवतीं
कन्यामृचीकोऽयाचत
द्विजः
।
वरं
विसदृशं
मत्वा
गाधिर्भार्गवमब्रवीत्
6
▾
Meaning
Keep
एकतः
श्यामकर्णानां
हयानां
चन्द्रवर्चसाम्
।
सहस्रं
दीयतां
शुल्कं
कन्यायाः
कुशिका
वयम्
7
▾
Meaning
Keep
इत्युक्तस्तन्मतं
ज्ञात्वा
गतः
स
वरुणान्तिकम्
।
आनीय
दत्त्वा
तानश्वानुपयेमे
वराननाम्
8
▾
Meaning
Keep
स
ऋषिः
प्रार्थितः
पत्न्या
श्वश्र्वा
चापत्यकाम्यया
।
श्रपयित्वोभयैर्मन्त्रैश्चरुं
स्नातुं
गतो
मुनिः
9
▾
Meaning
Keep
तावत्सत्यवती
मात्रा
स्वचरुं
याचिता
सती
।
श्रेष्ठं
मत्वा
तयायच्छन्मात्रे
मातुरदत्स्वयम्
10
▾
Meaning
Keep
तद्विज्ञाय
मुनिः
प्राह
पत्नीं
कष्टमकारषीः
।
घोरो
दण्डधरः
पुत्रो
भ्राता
ते
ब्रह्मवित्तमः
11
▾
Meaning
Keep
प्रसादितः
सत्यवत्या
मैवं
भूरिति
भार्गवः
।
अथ
तर्हि
भवेत्
पौत्रो
जमदग्निस्ततोऽभवत्
12
▾
Meaning
Keep
सा
चाभूत्सुमहत्पुण्या
कौशिकी
लोकपावनी
।
रेणोः
सुतां
रेणुकां
वै
जमदग्निरुवाह
याम्
13
▾
Meaning
Keep
तस्यां
वै
भार्गवऋषेः
सुता
वसुमदादयः
।
यवीयान्
जज्ञ
एतेषां
राम
इत्यभिविश्रुतः
14
▾
Meaning
Keep
यमाहुर्वासुदेवांशं
हैहयानां
कुलान्तकम्
।
त्रिःसप्तकृत्वो
य
इमां
चक्रे
निःक्षत्रियां
महीम्
15
▾
Meaning
Keep
दृप्तं
क्षत्रं
भुवो
भारमब्रह्मण्यमनीनशत्
।
रजस्तमोवृतमहन्
फल्गुन्यपि
कृतेऽंहसि
16
▾
Meaning
Keep
किं
तदंहो
भगवतो
राजन्यैरजितात्मभिः
।
कृतं
येन
कुलं
नष्टं
क्षत्रियाणामभीक्ष्णशः
17
▾
Meaning
Keep
हैहयानामधिपतिरर्जुनः
क्षत्रियर्षभः
।
दत्तं
नारायणांशांशमाराध्य
परिकर्मभिः
18
▾
Meaning
Keep
बाहून्
दशशतं
लेभे
दुर्धर्षत्वमरातिषु
।
अव्याहतेन्द्रियौजः
श्रीतेजोवीर्ययशोबलम्
19
▾
Meaning
Keep
योगेश्वरत्वमैश्वर्यं
गुणा
यत्राणिमादयः
।
चचाराव्याहतगतिर्लोकेषु
पवनो
यथा
20
▾
Meaning
Keep
स्त्रीरत्नैरावृतः
क्रीडन्
रेवाम्भसि
मदोत्कटः
।
वैजयन्तीं
स्रजं
बिभ्रद्रुरोध
सरितं
भुजैः
21
▾
Meaning
Keep
विप्लावितं
स्वशिबिरं
प्रतिस्रोतःसरिज्जलैः
।
नामृष्यत्तस्य
तद्वीर्यं
वीरमानी
दशाननः
22
▾
Meaning
Keep
गृहीतो
लीलया
स्त्रीणां
समक्षं
कृतकिल्बिषः
।
माहिष्मत्यां
सन्निरुद्धो
मुक्तो
येन
कपिर्यथा
23
▾
Meaning
Keep
स
एकदा
तु
मृगयां
विचरन्विपिने
वने
।
यदृच्छयाश्रमपदं
जमदग्नेरुपाविशत्
24
▾
Meaning
Keep
तस्मै
स
नरदेवाय
मुनिरर्हणमाहरत्
।
ससैन्यामात्यवाहाय
हविष्मत्या
तपोधनः
25
▾
Meaning
Keep
स
वीरस्तत्र
तद्
दृष्ट्वा
आत्मैश्वर्यातिशायनम्
।
तन्नाद्रियताग्निहोत्र्यां
साभिलाषः
सहैहयः
26
▾
Meaning
Keep
हविर्धानीमृषेर्दर्पान्नरान्
हर्तुमचोदयत्
।
ते
च
माहिष्मतीं
निन्युः
सवत्सां
क्रन्दतीं
बलात्
27
▾
Meaning
Keep
अथ
राजनि
निर्याते
राम
आश्रम
आगतः
।
श्रुत्वा
तत्तस्य
दौरात्म्यं
चुक्रोधाहिरिवाहतः
28
▾
Meaning
Keep
घोरमादाय
परशुं
सतूणं
वर्म
कार्मुकम्
।
अन्वधावत
दुर्मर्षो
मृगेन्द्र
इव
यूथपम्
29
▾
Meaning
Keep
तमापतन्तं
भृगुवर्यमोजसा
धनुर्धरं
बाणपरश्वधायुधम्
।
ऐणेयचर्माम्बरमर्कधामभि-
र्युतं
जटाभिर्ददृशे
पुरीं
विशन्
30
▾
Meaning
Keep
अचोदयद्धस्तिरथाश्वपत्तिभि-
र्गदासिबाणर्ष्टिशतघ्निशक्तिभिः
।
अक्षौहिणीः
सप्तदशातिभीषणा-
स्ता
राम
एको
भगवानसूदयत्
31
▾
Meaning
Keep
यतो
यतोऽसौ
प्रहरत्परश्वधो
मनोऽनिलौजाः
परचक्रसूदनः
।
ततस्ततश्छिन्नभुजोरुकन्धरा
निपेतुरुर्व्यां
हतसूतवाहनाः
32
▾
Meaning
Keep
दृष्ट्वा
स्वसैन्यं
रुधिरौघकर्दमे
रणाजिरे
रामकुठारसायकैः
।
विवृक्णचर्मध्वजचापविग्रहं
निपातितं
हैहय
आपतद्रुषा
33
▾
Meaning
Keep
अथार्जुनः
पञ्चशतेषु
बाहुभि-
र्धनुःषु
बाणान्
युगपत्स
सन्दधे
।
रामाय
रामोऽस्त्रभृतां
समग्रणी-
स्तान्येकधन्वेषुभिराच्छिनत्समम्
34
▾
Meaning
Keep
पुनः
स्वहस्तैरचलान्
मृधेऽङ्घ्रिपा-
नुत्क्षिप्य
वेगादभिधावतो
युधि
।
भुजान्
कुठारेण
कठोरनेमिना
चिच्छेद
रामः
प्रसभं
त्वहेरिव
35
▾
Meaning
Keep
कृत्तबाहोः
शिरस्तस्य
गिरेः
शृङ्गमिवाहरत्
।
हते
पितरि
तत्पुत्रा
अयुतं
दुद्रुवुर्भयात्
36
▾
Meaning
Keep
अग्निहोत्रीमुपावर्त्य
सवत्सां
परवीरहा
।
समुपेत्याश्रमं
पित्रे
परिक्लिष्टां
समर्पयत्
37
▾
Meaning
Keep
स्वकर्म
तत्कृतं
रामः
पित्रे
भ्रातृभ्य
एव
च
।
वर्णयामास
तच्छ्रुत्वा
जमदग्निरभाषत
38
▾
Meaning
Keep
राम
राम
महाबाहो
भवान्
पापमकारषीत्
।
अवधीन्नरदेवं
यत्सर्वदेवमयं
वृथा
39
▾
Meaning
Keep
वयं
हि
ब्राह्मणास्तात
क्षमयार्हणतां
गताः
।
यया
लोकगुरुर्देवः
पारमेष्ठ्यमगात्पदम्
40
▾
Meaning
Keep
क्षमया
रोचते
लक्ष्मीर्ब्राह्मी
सौरी
यथा
प्रभा
।
क्षमिणामाशु
भगवांस्तुष्यते
हरिरीश्वरः
41
▾
Meaning
Keep
राज्ञो
मूर्धाभिषिक्तस्य
वधो
ब्रह्मवधाद्गुरुः
।
तीर्थसंसेवया
चांहो
जह्यङ्गाच्युतचेतनः
Previous
←
Pururava and Urvasi
Next
The End of Jamadagni, and the Line of Visvamitra
→