Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The End of Jamadagni, and the Line of Visvamitra
Śrīmad Bhāgavatam
›
Canto 9
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
पित्रोपशिक्षितो
रामस्तथेति
कुरुनन्दन
।
संवत्सरं
तीर्थयात्रां
चरित्वाऽऽश्रममाव्रजत्
2
▾
Meaning
Keep
कदाचिद्रेणुका
याता
गङ्गायां
पद्ममालिनम्
।
गन्धर्वराजं
क्रीडन्तमप्सरोभिरपश्यत
3
▾
Meaning
Keep
विलोकयन्ती
क्रीडन्तमुदकार्थं
नदीं
गता
।
होमवेलां
न
सस्मार
किञ्चिच्चित्ररथस्पृहा
4
▾
Meaning
Keep
कालात्ययं
तं
विलोक्य
मुनेः
शापविशङ्किता
।
आगत्य
कलशं
तस्थौ
पुरोधाय
कृताञ्जलिः
5
▾
Meaning
Keep
व्यभिचारं
मुनिर्ज्ञात्वा
पत्न्याः
प्रकुपितोऽब्रवीत्
।
घ्नतैनां
पुत्रकाः
पापामित्युक्तास्ते
न
चक्रिरे
6
▾
Meaning
Keep
रामः
सञ्चोदितः
पित्रा
भ्रातॄन्
मात्रा
सहावधीत्
।
प्रभावज्ञो
मुनेः
सम्यक्
समाधेस्तपसश्च
सः
7
▾
Meaning
Keep
वरेणच्छन्दयामास
प्रीतः
सत्यवतीसुतः
।
वव्रे
हतानां
रामोऽपि
जीवितं
चास्मृतिं
वधे
8
▾
Meaning
Keep
उत्तस्थुस्ते
कुशलिनो
निद्रापाय
इवाञ्जसा
।
पितुर्विद्वांस्तपोवीर्यं
रामश्चक्रे
सुहृद्वधम्
9
▾
Meaning
Keep
येऽर्जुनस्य
सुता
राजन्
स्मरन्तः
स्वपितुर्वधम्
।
रामवीर्यपराभूता
लेभिरे
शर्म
न
क्वचित्
10
▾
Meaning
Keep
एकदाऽऽश्रमतो
रामे
सभ्रातरि
वनं
गते
।
वैरं
सिसाधयिषवो
लब्धच्छिद्रा
उपागमन्
11
▾
Meaning
Keep
दृष्ट्वाग्न्यागार
आसीनमावेशितधियं
मुनिम्
।
भगवत्युत्तमश्लोके
जघ्नुस्ते
पापनिश्चयाः
12
▾
Meaning
Keep
याच्यमानाः
कृपणया
राममात्रातिदारुणाः
।
प्रसह्य
शिर
उत्कृत्य
निन्युस्ते
क्षत्रबन्धवः
13
▾
Meaning
Keep
रेणुका
दुःखशोकार्ता
निघ्नन्त्यात्मानमात्मना
।
रामरामेति
तातेति
विचुक्रोशोच्चकैः
सती
14
▾
Meaning
Keep
तदुपश्रुत्य
दूरस्था
हा
रामेत्यार्तवत्स्वनम्
।
त्वरयाश्रममासाद्य
ददृशुः
पितरं
हतम्
15
▾
Meaning
Keep
ते
दुःखरोषामर्षार्तिशोकवेगविमोहिताः
।
हा
तात
साधो
धर्मिष्ठ
त्यक्त्वास्मान्स्वर्गतो
भवान्
16
▾
Meaning
Keep
विलप्यैवं
पितुर्देहं
निधाय
भ्रातृषु
स्वयम्
।
प्रगृह्य
परशुं
रामः
क्षत्रान्ताय
मनो
दधे
17
▾
Meaning
Keep
गत्वा
माहिष्मतीं
रामो
ब्रह्मघ्नविहतश्रियम्
।
तेषां
स
शीर्षभी
राजन्
मध्ये
चक्रे
महागिरिम्
18
▾
Meaning
Keep
तद्रक्तेन
नदीं
घोरामब्रह्मण्यभयावहाम्
।
हेतुं
कृत्वा
पितृवधं
क्षत्रेऽमङ्गलकारिणि
19
▾
Meaning
Keep
त्रिःसप्तकृत्वः
पृथिवीं
कृत्वा
निःक्षत्रियां
प्रभुः
।
समन्तपञ्चके
चक्रे
शोणितोदान्ह्रदान्
नव
20
▾
Meaning
Keep
पितुः
कायेन
सन्धाय
शिर
आदाय
बर्हिषि
।
सर्वदेवमयं
देवमात्मानमयजन्मखैः
21
▾
Meaning
Keep
ददौ
प्राचीं
दिशं
होत्रे
ब्रह्मणे
दक्षिणां
दिशम्
।
अध्वर्यवे
प्रतीचीं
वै
उद्गात्रे
उत्तरां
दिशम्
22
▾
Meaning
Keep
अन्येभ्योऽवान्तरदिशः
कश्यपाय
च
मध्यतः
।
आर्यावर्तमुपद्रष्ट्रे
सदस्येभ्यस्ततः
परम्
23
▾
Meaning
Keep
ततश्चावभृथस्नानविधूताशेषकिल्बिषः
।
सरस्वत्यां
महानद्यां
रेजे
व्यब्भ्र
इवांशुमान्
24
▾
Meaning
Keep
स्वदेहं
जमदग्निस्तु
लब्ध्वा
संज्ञानलक्षणम्
।
ऋषीणां
मण्डले
सोऽभूत्सप्तमो
रामपूजितः
25
▾
Meaning
Keep
जामदग्न्योऽपि
भगवान्
रामः
कमललोचनः
।
आगामिन्यन्तरे
राजन्
वर्तयिष्यति
वै
बृहत्
26
▾
Meaning
Keep
आस्तेऽद्यापि
महेन्द्राद्रौ
न्यस्तदण्डः
प्रशान्तधीः
।
उपगीयमानचरितः
सिद्धगन्धर्वचारणैः
27
▾
Meaning
Keep
एवं
भृगुषु
विश्वात्मा
भगवान्
हरिरीश्वरः
।
अवतीर्य
परं
भारं
भुवोऽहन्
बहुशो
नृपान्
28
▾
Meaning
Keep
गाधेरभून्महातेजाः
समिद्ध
इव
पावकः
।
तपसा
क्षात्रमुत्सृज्य
यो
लेभे
ब्रह्मवर्चसम्
29
▾
Meaning
Keep
विश्वामित्रस्य
चैवासन्
पुत्रा
एकशतं
नृप
।
मध्यमस्तु
मधुच्छन्दा
मधुच्छन्दस
एव
ते
30
▾
Meaning
Keep
पुत्रं
कृत्वा
शुनःशेपं
देवरातं
च
भार्गवम्
।
आजीगर्तं
सुतानाह
ज्येष्ठ
एष
प्रकल्प्यताम्
31
▾
Meaning
Keep
यो
वै
हरिश्चन्द्रमखे
विक्रीतः
पुरुषः
पशुः
।
स्तुत्वा
देवान्
प्रजेशादीन्
मुमुचे
पाशबन्धनात्
32
▾
Meaning
Keep
यो
रातो
देवयजने
देवैर्गाधिषु
तापसः
।
देवरात
इति
ख्यातः
शुनःशेपः
स
भार्गवः
33
▾
Meaning
Keep
ये
मधुच्छन्दसो
ज्येष्ठाः
कुशलं
मेनिरे
न
तत्
।
अशपत्तान्
मुनिः
क्रुद्धो
म्लेच्छा
भवत
दुर्जनाः
34
▾
Meaning
Keep
स
होवाच
मधुच्छन्दाः
सार्धं
पञ्चाशता
ततः
।
यन्नो
भवान्
सञ्जानीते
तस्मिंस्तिष्ठामहे
वयम्
35
▾
Meaning
Keep
ज्येष्ठं
मन्त्रदृशं
चक्रुस्त्वामन्वञ्चो
वयं
स्म
हि
।
विश्वामित्रः
सुतानाह
वीरवन्तो
भविष्यथ
।
ये
मानं
मेऽनुगृह्णन्तो
वीरवन्तमकर्त
माम्
36
▾
Meaning
Keep
एष
वः
कुशिका
वीरो
देवरातस्तमन्वित
।
अन्ये
चाष्टकहारीतजयक्रतुमदादयः
37
▾
Meaning
Keep
एवं
कौशिकगोत्रं
तु
विश्वामित्रैः
पृथग्विधम्
।
प्रवरान्तरमापन्नं
तद्धि
चैवं
प्रकल्पितम्
Previous
←
Rama of the Axe and the Haihaya King
Next
The Line of Ksatravrddha
→