Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Bharata, Son of Dusyanta
Śrīmad Bhāgavatam
›
Canto 9
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
पूरोर्वंशं
प्रवक्ष्यामि
यत्र
जातोऽसि
भारत
।
यत्र
राजर्षयो
वंश्या
ब्रह्मवंश्याश्च
जज्ञिरे
2
▾
Meaning
Keep
जनमेजयो
ह्यभूत्
पूरोः
प्रचिन्वांस्तत्सुतस्ततः
।
प्रवीरोऽथ
मनुस्युर्वै
तस्माच्चारुपदोऽभवत्
3
▾
Meaning
Keep
तस्य
सुद्युरभूत्पुत्रस्तस्माद्बहुगवस्ततः
।
संयातिस्तस्याहंयाती
रौद्राश्वस्तत्सुतः
स्मृतः
4
▾
Meaning
Keep
ऋतेयुस्तस्य
कक्षेयुः
स्थण्डिलेयुः
कृतेयुकः
।
जलेयुः
सन्नतेयुश्च
धर्मसत्यव्रतेयवः
5
▾
Meaning
Keep
दशैतेऽप्सरसः
पुत्रा
वनेयुश्चावमः
स्मृतः
।
घृताच्यामिन्द्रियाणीव
मुख्यस्य
जगदात्मनः
6
▾
Meaning
Keep
ऋतेयो
रन्तिभारोऽभूत्त्रयस्तस्यात्मजा
नृप
।
सुमतिर्ध्रुवोऽप्रतिरथः
कण्वोऽप्रतिरथात्मजः
7
▾
Meaning
Keep
तस्य
मेधातिथिस्तस्मात्प्रस्कण्वाद्या
द्विजातयः
।
पुत्रोऽभूत्सुमते
रैभ्यो
र्दुष्मन्तस्तत्सुतो
मतः
8
▾
Meaning
Keep
दुष्मन्तो
मृगयां
यातः
कण्वाश्रमपदं
गतः
।
तत्रासीनां
स्वप्रभया
मण्डयन्तीं
रमामिव
9
▾
Meaning
Keep
विलोक्य
सद्यो
मुमुहे
देवमायामिव
स्त्रियम्
।
बभाषे
तां
वरारोहां
भटैः
कतिपयैर्वृतः
10
▾
Meaning
Keep
तद्दर्शनप्रमुदितः
सन्निवृत्तपरिश्रमः
।
पप्रच्छ
कामसन्तप्तः
प्रहसञ्श्लक्ष्णया
गिरा
11
▾
Meaning
Keep
का
त्वं
कमलपत्राक्षि
कस्यासि
हृदयङ्गमे
।
किं
स्विच्चिकीर्षितं
त्वत्र
भवत्या
निर्जने
वने
12
▾
Meaning
Keep
व्यक्तं
राजन्यतनयां
वेद्म्यहं
त्वां
सुमध्यमे
।
न
हि
चेतः
पौरवाणामधर्मे
रमते
क्वचित्
13
▾
Meaning
Keep
विश्वामित्रात्मजैवाहं
त्यक्ता
मेनकया
वने
।
वेदैतद्भगवान्
कण्वो
वीर
किं
करवाम
ते
14
▾
Meaning
Keep
आस्यतां
ह्यरविन्दाक्ष
गृह्यतामर्हणं
च
नः
।
भुज्यतां
सन्ति
नीवारा
उष्यतां
यदि
रोचते
15
▾
Meaning
Keep
उपपन्नमिदं
सुभ्रु
जातायाः
कुशिकान्वये
।
स्वयं
हि
वृणुते
राज्ञां
कन्यकाः
सदृशं
वरम्
16
▾
Meaning
Keep
ओमित्युक्ते
यथाधर्ममुपयेमे
शकुन्तलाम्
।
गान्धर्वविधिना
राजा
देशकालविधानवित्
17
▾
Meaning
Keep
अमोघवीर्यो
राजर्षिर्महिष्यां
वीर्यमादधे
।
श्वोभूते
स्वपुरं
यातः
कालेनासूत
सा
सुतम्
18
▾
Meaning
Keep
कण्वः
कुमारस्य
वने
चक्रे
समुचिताः
क्रियाः
।
बद्ध्वा
मृगेन्द्रंतरसा
क्रीडति
स्म
स
बालकः
19
▾
Meaning
Keep
तं
दुरत्ययविक्रान्तमादाय
प्रमदोत्तमा
।
हरेरंशांशसम्भूतं
भर्तुरन्तिकमागमत्
20
▾
Meaning
Keep
यदा
न
जगृहे
राजा
भार्यापुत्रावनिन्दितौ
।
शृण्वतां
सर्वभूतानां
खे
वागाहाशरीरिणी
21
▾
Meaning
Keep
माता
भस्त्रा
पितुः
पुत्रो
येन
जातः
स
एव
सः
।
भरस्व
पुत्रं
दुष्मन्त
मावमंस्थाः
शकुन्तलाम्
22
▾
Meaning
Keep
रेतोधाः
पुत्रो
नयति
नरदेव
यमक्षयात्
।
त्वं
चास्य
धाता
गर्भस्य
सत्यमाह
शकुन्तला
23
▾
Meaning
Keep
पितर्युपरते
सोऽपि
चक्रवर्ती
महायशाः
।
महिमा
गीयते
तस्य
हरेरंशभुवो
भुवि
24
▾
Meaning
Keep
चक्रं
दक्षिणहस्तेऽस्य
पद्मकोशोऽस्य
पादयोः
।
ईजे
महाभिषेकेण
सोऽभिषिक्तोऽधिराड्विभुः
25
▾
Meaning
Keep
पञ्चपञ्चाशता
मेध्यैर्गङ्गायामनु
वाजिभिः
।
मामतेयं
पुरोधाय
यमुनामनु
च
प्रभुः
26
▾
Meaning
Keep
अष्टसप्ततिमेध्याश्वान्बबन्ध
प्रददद्वसु
।
भरतस्य
हि
दौष्मन्तेरग्निः
साचीगुणे
चितः
।
सहस्रं
बद्वशो
यस्मिन्ब्राह्मणा
गा
विभेजिरे
27
▾
Meaning
Keep
त्रयस्त्रिंशच्छतं
ह्यश्वान्
बद्ध्वा
विस्मापयन्
नृपान्
।
दौष्यन्तिरत्यगान्मायां
देवानां
गुरुमाययौ
28
▾
Meaning
Keep
मृगान्छुक्लदतः
कृष्णान्हिरण्येन
परीवृतान्
।
अदात्कर्मणि
मष्णारे
नियुतानि
चतुर्दश
29
▾
Meaning
Keep
भरतस्य
महत्कर्म
न
पूर्वे
नापरे
नृपाः
।
नैवापुर्नैव
प्राप्स्यन्ति
बाहुभ्यां
त्रिदिवं
यथा
30
▾
Meaning
Keep
किरातहूणान्यवनान्पौण्ड्रान्कङ्कान्खशान्छकान्
।
अब्रह्मण्यनृपांश्चाहन्म्लेच्छान्दिग्विजयेऽखिलान्
31
▾
Meaning
Keep
जित्वा
पुरासुरा
देवान्
ये
रसौकांसि
भेजिरे
।
देवस्त्रियो
रसां
नीताः
प्राणिभिः
पुनराहरत्
32
▾
Meaning
Keep
सर्वान्
कामान्
दुदुहतुः
प्रजानां
तस्य
रोदसी
।
समास्त्रिणवसाहस्रीर्दिक्षु
चक्रमवर्तयत्
33
▾
Meaning
Keep
स
संराड्लोकपालाख्यमैश्वर्यमधिराट्श्रियम्
।
चक्रं
चास्खलितं
प्राणान्मृषेत्युपरराम
ह
34
▾
Meaning
Keep
तस्यासन्
नृप
वैदर्भ्यः
पत्न्यस्तिस्रः
सुसम्मताः
।
जघ्नुस्त्यागभयात्पुत्रान्
नानुरूपा
इतीरिते
35
▾
Meaning
Keep
तस्यैवं
वितथे
वंशे
तदर्थं
यजतः
सुतम्
।
मरुत्स्तोमेन
मरुतो
भरद्वाजमुपाददुः
36
▾
Meaning
Keep
अन्तर्वत्न्यां
भ्रातृपत्न्यां
मैथुनाय
बृहस्पतिः
।
प्रवृत्तो
वारितो
गर्भं
शप्त्वा
वीर्यमुपासृजत्
37
▾
Meaning
Keep
तं
त्यक्तुकामां
ममतां
भर्तुस्त्यागविशङ्किताम्
।
नामनिर्वाचनं
तस्य
श्लोकमेनं
सुरा
जगुः
38
▾
Meaning
Keep
मूढे
भर
द्वाजमिमं
भर
द्वाजं
बृहस्पते
।
यातौ
यदुक्त्वा
पितरौ
भरद्वाजस्ततस्त्वयम्
39
▾
Meaning
Keep
चोद्यमाना
सुरैरेवं
मत्वा
वितथमात्मजम्
।
व्यसृजन्मरुतोऽबिभ्रन्
दत्तोऽयं
वितथेऽन्वये
Previous
←
The Song of the Goat
Next
Rantideva, and the Line of Ajamidha
→