Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Rantideva, and the Line of Ajamidha
Śrīmad Bhāgavatam
›
Canto 9
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
वितथस्य
सुतान्मन्युर्बृहत्क्षत्रो
जयस्ततः
।
महावीर्यो
नरो
गर्गः
सङ्कृतिस्तु
नरात्मजः
2
▾
Meaning
Keep
गुरुश्च
रन्तिदेवश्च
सङ्कृतेः
पाण्डुनन्दन
।
रन्तिदेवस्य
महिमा
इहामुत्र
च
गीयते
3
▾
Meaning
Keep
वियद्वित्तस्य
ददतो
लब्धं
लब्धं
बुभुक्षतः
।
निष्किञ्चनस्य
धीरस्य
सकुटुम्बस्य
सीदतः
4
▾
Meaning
Keep
व्यतीयुरष्टचत्वारिंशदहान्यपिबतः
किल
।
घृतपायससंयावं
तोयं
प्रातरुपस्थितम्
5
▾
Meaning
Keep
कृच्छ्रप्राप्तकुटुम्बस्य
क्षुत्तृड्भ्यां
जातवेपथोः
।
अतिथिर्ब्राह्मणः
काले
भोक्तुकामस्य
चागमत्
6
▾
Meaning
Keep
तस्मै
संव्यभजत्सोऽन्नमादृत्य
श्रद्धयान्वितः
।
हरिं
सर्वत्र
सम्पश्यन्
स
भुक्त्वा
प्रययौ
द्विजः
7
▾
Meaning
Keep
अथान्यो
भोक्ष्यमाणस्य
विभक्तस्य
महीपतेः
।
विभक्तं
व्यभजत्
तस्मै
वृषलाय
हरिं
स्मरन्
8
▾
Meaning
Keep
याते
शूद्रे
तमन्योऽगादतिथिः
श्वभिरावृतः
।
राजन्
मे
दीयतामन्नं
सगणाय
बुभुक्षते
9
▾
Meaning
Keep
स
आदृत्यावशिष्टं
यद्बहुमानपुरस्कृतम्
।
तच्च
दत्त्वा
नमश्चक्रे
श्वभ्यः
श्वपतये
विभुः
10
▾
Meaning
Keep
पानीयमात्रमुच्छेषं
तच्चैकपरितर्पणम्
।
पास्यतः
पुल्कसोऽभ्यागादपो
देह्यशुभाय
मे
11
▾
Meaning
Keep
तस्य
तां
करुणां
वाचं
निशम्य
विपुलश्रमाम्
।
कृपया
भृशसन्तप्त
इदमाहामृतं
वचः
12
▾
Meaning
Keep
न
कामयेऽहं
गतिमीश्वरात्परा-
मष्टर्द्धियुक्तामपुनर्भवं
वा
।
आर्तिं
प्रपद्येऽखिलदेहभाजा-
मन्तःस्थितो
येन
भवन्त्यदुःखाः
13
▾
Meaning
Keep
क्षुत्तृट्श्रमो
गात्रपरिश्रमश्च
दैन्यं
क्लमः
शोकविषादमोहाः
।
सर्वे
निवृत्ताः
कृपणस्य
जन्तोर्जिजीविषोर्जीवजलार्पणान्मे
14
▾
Meaning
Keep
इति
प्रभाष्य
पानीयं
म्रियमाणः
पिपासया
।
पुल्कसायाददाद्धीरो
निसर्गकरुणो
नृपः
15
▾
Meaning
Keep
तस्य
त्रिभुवनाधीशाः
फलदाः
फलमिच्छताम्
।
आत्मानं
दर्शयां
चक्रुर्माया
विष्णुविनिर्मिताः
16
▾
Meaning
Keep
स
वै
तेभ्यो
नमस्कृत्य
निःसङ्गो
विगतस्पृहः
।
वासुदेवे
भगवति
भक्त्या
चक्रे
मनः
परम्
17
▾
Meaning
Keep
ईश्वरालम्बनं
चित्तं
कुर्वतोऽनन्यराधसः
।
माया
गुणमयी
राजन्
स्वप्नवत्प्रत्यलीयत
18
▾
Meaning
Keep
तत्प्रसङ्गानुभावेन
रन्तिदेवानुवर्तिनः
।
अभवन्
योगिनः
सर्वे
नारायणपरायणाः
19
▾
Meaning
Keep
गर्गाच्छिनिस्ततो
गार्ग्यः
क्षत्राद्ब्रह्म
ह्यवर्तत
।
दुरितक्षयो
महावीर्यात्तस्य
त्रय्यारुणिः
कविः
20
▾
Meaning
Keep
पुष्करारुणिरित्यत्र
ये
ब्राह्मणगतिं
गताः
।
बृहत्क्षत्रस्य
पुत्रोऽभूद्धस्ती
यद्धस्तिनापुरम्
21
▾
Meaning
Keep
अजमीढो
द्विमीढश्च
पुरुमीढश्च
हस्तिनः
।
अजमीढस्य
वंश्याः
स्युः
प्रियमेधादयो
द्विजाः
22
▾
Meaning
Keep
अजमीढाद्बृहदिषुस्तस्य
पुत्रो
बृहद्धनुः
।
बृहत्कायस्ततस्तस्य
पुत्र
आसीज्जयद्रथः
23
▾
Meaning
Keep
तत्सुतो
विशदस्तस्य
सेनजित्समजायत
।
रुचिराश्वो
दृढहनुः
काश्यो
वत्सश्च
तत्सुताः
24
▾
Meaning
Keep
रुचिराश्वसुतः
पारः
पृथुसेनस्तदात्मजः
।
पारस्य
तनयो
नीपस्तस्य
पुत्रशतं
त्वभूत्
25
▾
Meaning
Keep
स
कृत्व्यां
शुककन्यायां
ब्रह्मदत्तमजीजनत्
।
योगी
गवि
भार्यायां
विष्वक्सेनमधात्सुतम्
26
▾
Meaning
Keep
जैगीषव्योपदेशेन
योगतन्त्रं
चकार
ह
।
उदक्सेनस्ततस्तस्माद्
भल्लाटो
बार्हदीषवाः
27
▾
Meaning
Keep
यवीनरो
द्विमीढस्य
कृतिमांस्तत्सुतः
स्मृतः
।
नाम्ना
सत्यधृतिर्यस्य
दृढनेमिः
सुपार्श्वकृत्
28
▾
Meaning
Keep
सुपार्श्वात्सुमतिस्तस्य
पुत्रः
सन्नतिमांस्ततः
।
कृती
हिरण्यनाभाद्यो
योगं
प्राप्य
जगौ
स्म
षट्
29
▾
Meaning
Keep
संहिताः
प्राच्यसाम्नां
वै
नीपो
ह्युद्ग्रायुधस्ततः
।
तस्य
क्षेम्यः
सुवीरोऽथ
सुवीरस्य
रिपुञ्जयः
30
▾
Meaning
Keep
ततो
बहुरथो
नाम
पुरुमीढोऽप्रजोऽभवत्
।
नलिन्यामजमीढस्य
नीलः
शान्तिः
सुतस्ततः
31
▾
Meaning
Keep
शान्तेः
सुशान्तिस्तत्पुत्रः
पुरुजोऽर्कस्ततोऽभवत्
।
भर्म्याश्वस्तनयस्तस्य
पञ्चासन्
मुद्गलादयः
32
▾
Meaning
Keep
यवीनरो
बृहदिषु
काम्पिल्लः
संजयः
सुताः
।
भर्म्याश्वः
प्राह
पुत्रा
मे
पञ्चानां
रक्षणाय
हि
33
▾
Meaning
Keep
विषयाणामलमिमे
इति
पञ्चालसंज्ञिताः
।
मुद्गलाद्ब्रह्म
निर्वृत्तं
गोत्रं
मौद्गल्यसंज्ञितम्
34
▾
Meaning
Keep
मिथुनं
मुद्गलाद्भार्म्याद्दिवोदासः
पुमानभूत्
।
अहल्या
कन्यका
यस्यां
शतानन्दस्तु
गौतमात्
35
▾
Meaning
Keep
तस्य
सत्यधृतिः
पुत्रो
धनुर्वेदविशारदः
।
शरद्वांस्तत्सुतो
यस्मादुर्वशीदर्शनात्किल
36
▾
Meaning
Keep
शरस्तम्बेऽपतद्रेतो
मिथुनं
तदभूच्छुभम्
।
तद्दृष्ट्वा
कृपयागृह्णाच्छान्तनुर्मृगयां
चरन्
।
कृपः
कुमारः
कन्या
च
द्रोणपत्न्यभवत्कृपी
Previous
←
Bharata, Son of Dusyanta
Next
The Line of Puru, Down to the Kings to Come
→