Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Line of Puru, Down to the Kings to Come
Śrīmad Bhāgavatam
›
Canto 9
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
मित्रायुश्च
दिवोदासाच्च्यवनस्तत्सुतो
नृप
।
सुदासः
सहदेवोऽथ
सोमको
जन्तुजन्मकृत्
2
▾
Meaning
Keep
तस्य
पुत्रशतं
तेषां
यवीयान्
पृषतः
सुतः
।
द्रुपदो
द्रौपदी
तस्य
धृष्टद्युम्नादयः
सुताः
3
▾
Meaning
Keep
धृष्टद्युम्नाद्धृष्टकेतुर्भार्म्याः
पाञ्चालका
इमे
।
योऽजमीढसुतो
ह्यन्य
ऋक्षः
संवरणस्ततः
4
▾
Meaning
Keep
तपत्यां
सूर्यकन्यायां
कुरुक्षेत्रपतिः
कुरुः
।
परीक्षित्
सुधनुर्जह्नुर्निषधश्च
कुरोः
सुताः
5
▾
Meaning
Keep
सुहोत्रोऽभूत्सुधनुषश्च्यवनोऽथ
ततः
कृती
।
वसुस्तस्योपरिचरो
बृहद्रथमुखास्ततः
6
▾
Meaning
Keep
कुशाम्बमत्स्यप्रत्यग्रचेदिपाद्याश्च
चेदिपाः
।
बृहद्रथात्कुशाग्रोऽभूदृषभस्तस्य
तत्सुतः
7
▾
Meaning
Keep
जज्ञे
सत्यहितोऽपत्यं
पुष्पवांस्तत्सुतो
जहुः
।
अन्यस्यामपि
भार्यायां
शकले
द्वे
बृहद्रथात्
8
▾
Meaning
Keep
ये
मात्रा
बहिरुत्सृष्टे
जरया
चाभिसन्धिते
।
जीव
जीवेति
क्रीडन्त्या
जरासन्धोऽभवत्
सुतः
9
▾
Meaning
Keep
ततश्च
सहदेवोऽभूत्सोमापिर्यच्छ्रुतश्रवाः
।
परीक्षिदनपत्योऽभूत्सुरथो
नाम
जाह्नवः
10
▾
Meaning
Keep
ततो
विदूरथस्तस्मात्सार्वभौमस्ततोऽभवत्
।
जयसेनस्तत्तनयो
राधिकोऽतोऽयुतो
ह्यभूत्
11
▾
Meaning
Keep
ततश्चाक्रोधनस्तस्माद्
देवातिथिरमुष्य
च
।
ऋक्षस्तस्य
दिलीपोऽभूत्
प्रतीपस्तस्य
चात्मजः
12
▾
Meaning
Keep
देवापिः
शान्तनुस्तस्य
बाह्लीक
इति
चात्मजाः
।
पितृराज्यं
परित्यज्य
देवापिस्तु
वनं
गतः
13
▾
Meaning
Keep
अभवच्छान्तनू
राजा
प्राङ्महाभिषसंज्ञितः
।
यं
यं
कराभ्यां
स्पृशति
जीर्णं
यौवनमेति
सः
14
▾
Meaning
Keep
शान्तिमाप्नोति
चैवाग्र्यां
कर्मणा
तेन
शन्तनुः
।
समा
द्वादश
तद्राज्ये
न
ववर्ष
यदा
विभुः
15
▾
Meaning
Keep
शान्तनुर्ब्राह्मणैरुक्तः
परिवेत्तायमग्रभुक्
।
राज्यं
देह्यग्रजायाशु
पुरराष्ट्रविवृद्धये
16
▾
Meaning
Keep
एवमुक्तो
द्विजैर्ज्येष्ठं
छन्दयामास
सोऽब्रवीत्
।
तन्मन्त्रिप्रहितैर्विप्रैर्वेदाद्विभ्रंशितो
गिरा
17
▾
Meaning
Keep
वेदवादातिवादान्
वै
तदा
देवो
ववर्ष
ह
।
देवापिर्योगमास्थाय
कलापग्राममाश्रितः
18
▾
Meaning
Keep
सोमवंशे
कलौ
नष्टे
कृतादौ
स्थापयिष्यति
।
बाह्लीकात्सोमदत्तोऽभूद्भूरिर्भूरिश्रवास्ततः
19
▾
Meaning
Keep
शलश्च
शान्तनोरासीद्
गङ्गायां
भीष्म
आत्मवान्
।
सर्वधर्मविदां
श्रेष्ठो
महाभागवतः
कविः
20
▾
Meaning
Keep
वीरयूथाग्रणीर्येन
रामोऽपि
युधि
तोषितः
।
शान्तनोर्दाशकन्यायां
जज्ञे
चित्राङ्गदः
सुतः
21
▾
Meaning
Keep
विचित्रवीर्यश्चावरजो
नाम्ना
चित्राङ्गदो
हतः
।
यस्यां
पराशरात्साक्षादवतीर्णो
हरेः
कला
22
▾
Meaning
Keep
वेदगुप्तो
मुनिः
कृष्णो
यतोऽहमिदमध्यगाम्
।
हित्वा
स्वशिष्यान्
पैलादीन्
भगवान्
बादरायणः
23
▾
Meaning
Keep
मह्यं
पुत्राय
शान्ताय
परं
गुह्यमिदं
जगौ
।
विचित्रवीर्योऽथोवाह
काशीराजसुते
बलात्
24
▾
Meaning
Keep
स्वयंवरादुपानीते
अम्बिकाम्बालिके
उभे
।
तयोरासक्तहृदयो
गृहीतो
यक्ष्मणा
मृतः
25
▾
Meaning
Keep
क्षेत्रेऽप्रजस्य
वै
भ्रातुर्मात्रोक्तो
बादरायणः
।
धृतराष्ट्रं
च
पाण्डुं
च
विदुरं
चाप्यजीजनत्
26
▾
Meaning
Keep
गान्धार्यां
धृतराष्ट्रस्य
जज्ञे
पुत्रशतं
नृप
।
तत्र
दुर्योधनो
ज्येष्ठो
दुःशला
चापि
कन्यका
27
▾
Meaning
Keep
शापान्मैथुनरुद्धस्य
पाण्डोः
कुन्त्यां
महारथाः
।
जाता
धर्मानिलेन्द्रेभ्यो
युधिष्ठिरमुखास्त्रयः
28
▾
Meaning
Keep
नकुलः
सहदेवश्च
माद्र्यां
नासत्यदस्रयोः
।
द्रौपद्यां
पञ्च
पञ्चभ्यः
पुत्रास्ते
पितरोऽभवन्
29
▾
Meaning
Keep
युधिष्ठिरात्प्रतिविन्ध्यः
श्रुतसेनो
वृकोदरात्
।
अर्जुनाच्छ्रुतकीर्तिस्तु
शतानीकस्तु
नाकुलिः
30
▾
Meaning
Keep
सहदेवसुतो
राजन्छ्रुतकर्मा
तथापरे
।
युधिष्ठिरात्तु
पौरव्यां
देवकोऽथ
घटोत्कचः
31
▾
Meaning
Keep
भीमसेनाद्धिडिम्बायां
काल्यां
सर्वगतस्ततः
।
सहदेवात्सुहोत्रं
तु
विजयासूत
पार्वती
32
▾
Meaning
Keep
करेणुमत्यां
नकुलो
नरमित्रं
तथार्जुनः
।
इरावन्तमुलूप्यां
वै
सुतायां
बभ्रुवाहनम्
।
मणिपुरपतेः
सोऽपि
तत्पुत्रः
पुत्रिकासुतः
33
▾
Meaning
Keep
तव
तातः
सुभद्रायामभिमन्युरजायत
।
सर्वातिरथजिद्वीर
उत्तरायां
ततो
भवान्
34
▾
Meaning
Keep
परिक्षीणेषु
कुरुषु
द्रौणेर्ब्रह्मास्त्रतेजसा
।
त्वं
च
कृष्णानुभावेन
सजीवो
मोचितोऽन्तकात्
35
▾
Meaning
Keep
तवेमे
तनयास्तात
जनमेजयपूर्वकाः
।
श्रुतसेनो
भीमसेन
उग्रसेनश्च
वीर्यवान्
36
▾
Meaning
Keep
जनमेजयस्त्वां
विदित्वा
तक्षकान्निधनं
गतम्
।
सर्पान्
वै
सर्पयागाग्नौ
स
होष्यति
रुषान्वितः
37
▾
Meaning
Keep
कावषेयं
पुरोधाय
तुरं
तुरगमेधयाट्
।
समन्तात्पृथिवीं
सर्वां
जित्वा
यक्ष्यति
चाध्वरैः
38
▾
Meaning
Keep
तस्य
पुत्रः
शतानीको
याज्ञवल्क्यात्त्रयीं
पठन्
।
अस्त्रज्ञानं
क्रियाज्ञानं
शौनकात्परमेष्यति
39
▾
Meaning
Keep
सहस्रानीकस्तत्पुत्रस्ततश्चैवाश्वमेधजः
।
असीमकृष्णस्तस्यापि
नेमिचक्रस्तु
तत्सुतः
40
▾
Meaning
Keep
गजाह्वये
हृते
नद्या
कौशाम्ब्यां
साधु
वत्स्यति
।
उक्तस्ततश्चित्ररथस्तस्मात्कविरथः
सुतः
41
▾
Meaning
Keep
तस्माच्च
वृष्टिमांस्तस्य
सुषेणोऽथ
महीपतिः
।
सुनीथस्तस्य
भविता
नृचक्षुर्यत्सुखीनलः
42
▾
Meaning
Keep
परिप्लवः
सुतस्तस्मान्मेधावी
सुनयात्मजः
।
नृपञ्जयस्ततो
दूर्वस्तिमिस्तस्माज्जनिष्यति
43
▾
Meaning
Keep
तिमेर्बृहद्रथस्तस्माच्छतानीकः
सुदासजः
।
शतानीकाद्दुर्दमनस्तस्यापत्यं
महीनरः
44
▾
Meaning
Keep
दण्डपाणिर्निमिस्तस्य
क्षेमको
भविता
यतः
।
ब्रह्मक्षत्रस्य
वै
प्रोक्तोर्वंशो
देवर्षिसत्कृतः
45
▾
Meaning
Keep
क्षेमकं
प्राप्य
राजानं
संस्थां
प्राप्स्यति
वै
कलौ
।
अथ
मागधराजानो
भाविनो
ये
वदामि
ते
46
▾
Meaning
Keep
भविता
सहदेवस्य
मार्जारिर्यच्छ्रुतश्रवाः
।
ततोऽयुतायुस्तस्यापि
निरमित्रोऽथ
तत्सुतः
47
▾
Meaning
Keep
सुनक्षत्रः
सुनक्षत्राद्बृहत्सेनोऽथ
कर्मजित्
।
ततः
सुतञ्जयाद्विप्रः
शुचिस्तस्य
भविष्यति
48
▾
Meaning
Keep
क्षेमोऽथ
सुव्रतस्तस्माद्धर्मसूत्रः
शमस्ततः
।
द्युमत्सेनोऽथ
सुमतिः
सुबलो
जनिता
ततः
49
▾
Meaning
Keep
सुनीथः
सत्यजिदथ
विश्वजिद्यद्रिपुञ्जयः
।
बार्हद्रथाश्च
भूपाला
भाव्याः
साहस्रवत्सरम्
Previous
←
Rantideva, and the Line of Ajamidha
Next
The Sons of Anu, Druhyu and Turvasu, and the Line of Yadu Begun
→