Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Earth's Appeal, and Kamsa at the Wedding
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
कथितो
वंशविस्तारो
भवता
सोमसूर्ययोः
।
राज्ञां
चोभयवंश्यानां
चरितं
परमाद्भुतम्
2
▾
Meaning
Keep
यदोश्च
धर्मशीलस्य
नितरां
मुनिसत्तम
।
तत्रांशेनावतीर्णस्य
विष्णोर्वीर्याणि
शंस
नः
3
▾
Meaning
Keep
अवतीर्य
यदोर्वंशे
भगवान्
भूतभावनः
।
कृतवान्
यानि
विश्वात्मा
तानि
नो
वद
विस्तरात्
4
▾
Meaning
Keep
निवृत्ततर्षैरुपगीयमानाद्
भवौषधाच्छ्रोत्रमनोऽभिरामात्
।
क
उत्तमश्लोकगुणानुवादात्
पुमान्
विरज्येत
विना
पशुघ्नात्
5
▾
Meaning
Keep
पितामहा
मे
समरेऽमरञ्जयै-
र्देवव्रताद्यातिरथैस्तिमिङ्गिलैः
।
दुरत्ययं
कौरवसैन्यसागरं
कृत्वातरन्
वत्सपदं
स्म
यत्प्लवाः
6
▾
Meaning
Keep
द्रौण्यस्त्रविप्लुष्टमिदं
मदङ्गं
संतानबीजं
कुरुपाण्डवानाम्
।
जुगोप
कुक्षिं
गत
आत्तचक्रो
मातुश्च
मे
यः
शरणं
गतायाः
7
▾
Meaning
Keep
वीर्याणि
तस्याखिलदेहभाजा-
मन्तर्बहिः
पूरुषकालरूपैः
।
प्रयच्छतो
मृत्युमुतामृतं
च
मायामनुष्यस्य
वदस्व
विद्वन्
8
▾
Meaning
Keep
रोहिण्यास्तनयः
प्रोक्तो
रामः
सङ्कर्षणस्त्वया
।
देवक्या
गर्भसम्बन्धः
कुतो
देहान्तरं
विना
9
▾
Meaning
Keep
कस्मान्मुकुन्दो
भगवान्
पितुर्गेहाद्
व्रजं
गतः
।
क्व
वासं
ज्ञातिभिः
सार्धं
कृतवान्
सात्वतांपतिः
10
▾
Meaning
Keep
व्रजे
वसन्
किमकरोन्मधुपुर्यां
च
केशवः
।
भ्रातरं
चावधीत्कंसं
मातुरद्धातदर्हणम्
11
▾
Meaning
Keep
देहं
मानुषमाश्रित्य
कति
वर्षाणि
वृष्णिभिः
।
यदुपुर्यां
सहावात्सीत्पत्न्यः
कत्यभवन्
प्रभोः
12
▾
Meaning
Keep
एतदन्यच्च
सर्वं
मे
मुने
कृष्णविचेष्टितम्
।
वक्तुमर्हसि
सर्वज्ञ
श्रद्दधानाय
विस्तृतम्
13
▾
Meaning
Keep
नैषातिदुःसहा
क्षुन्मां
त्यक्तोदमपि
बाधते
।
पिबन्तं
त्वन्मुखाम्भोजच्युतं
हरिकथामृतम्
14
▾
Meaning
Keep
एवं
निशम्य
भृगुनन्दन
साधुवादं
वैयासकिः
स
भगवानथ
विष्णुरातम्
।
प्रत्यर्च्य
कृष्णचरितं
कलिकल्मषघ्नं
व्याहर्तुमारभत
भागवतप्रधानः
15
▾
Meaning
Keep
सम्यग्व्यवसिता
बुद्धिस्तव
राजर्षिसत्तम
।
वासुदेवकथायां
ते
यज्जाता
नैष्ठिकी
रतिः
16
▾
Meaning
Keep
वासुदेवकथाप्रश्नः
पुरुषांस्त्रीन्
पुनाति
हि
।
वक्तारं
पृच्छकं
श्रोतॄंस्तत्पादसलिलं
यथा
17
▾
Meaning
Keep
भूमिर्दृप्तनृपव्याजदैत्यानीकशतायुतैः
।
आक्रान्ता
भूरिभारेण
ब्रह्माणं
शरणं
ययौ
18
▾
Meaning
Keep
गौर्भूत्वाश्रुमुखी
खिन्ना
क्रन्दन्ती
करुणं
विभोः
।
उपस्थितान्तिके
तस्मै
व्यसनं
स्वमवोचत
19
▾
Meaning
Keep
ब्रह्मा
तदुपधार्याथ
सह
देवैस्तया
सह
।
जगाम
सत्रिनयनस्तीरं
क्षीरपयोनिधेः
20
▾
Meaning
Keep
तत्र
गत्वा
जगन्नाथं
देवदेवं
वृषाकपिम्
।
पुरुषं
पुरुषसूक्तेन
उपतस्थे
समाहितः
21
▾
Meaning
Keep
गिरं
समाधौ
गगने
समीरितां
निशम्य
वेधास्त्रिदशानुवाच
ह
।
गां
पौरुषीं
मे
शृणुतामराः
पुन-
र्विधीयतामाशु
तथैव
मा
चिरम्
22
▾
Meaning
Keep
पुरैव
पुंसावधृतो
धराज्वरो
भवद्भिरंशैर्यदुषूपजन्यताम्
।
स
यावदुर्व्या
भरमीश्वरेश्वरः
स्वकालशक्त्या
क्षपयंश्चरेद्भुवि
23
▾
Meaning
Keep
वसुदेवगृहे
साक्षाद्भगवान्
पुरुषः
परः
।
जनिष्यते
तत्प्रियार्थं
सम्भवन्तु
सुरस्त्रियः
24
▾
Meaning
Keep
वासुदेवकलानन्तः
सहस्रवदनः
स्वराट्
।
अग्रतो
भविता
देवो
हरेः
प्रियचिकीर्षया
25
▾
Meaning
Keep
विष्णोर्माया
भगवती
यया
सम्मोहितं
जगत्
।
आविष्टा
प्रभुणांशेन
कार्यार्थे
सम्भविष्यति
26
▾
Meaning
Keep
इत्यादिश्यामरगणान्
प्रजापतिपतिर्विभुः
।
आश्वास्य
च
महीं
गीर्भिः
स्वधाम
परमं
ययौ
27
▾
Meaning
Keep
शूरसेनो
यदुपतिर्मथुरामावसन्
पुरीम्
।
माथुराञ्छूरसेनांश्च
विषयान्
बुभुजे
पुरा
28
▾
Meaning
Keep
राजधानी
ततः
साभूत्सर्वयादवभूभुजाम्
।
मथुरा
भगवान्
यत्र
नित्यं
सन्निहितो
हरिः
29
▾
Meaning
Keep
तस्यां
तु
कर्हिचिच्छौरिर्वसुदेवः
कृतोद्वहः
।
देवक्या
सूर्यया
सार्धं
प्रयाणे
रथमारुहत्
30
▾
Meaning
Keep
उग्रसेनसुतः
कंसः
स्वसुः
प्रियचिकीर्षया
।
रश्मीन्
हयानां
जग्राह
रौक्मै
रथशतैर्वृतः
31
▾
Meaning
Keep
चतुःशतं
पारिबर्हं
गजानां
हेममालिनाम्
।
अश्वानामयुतं
सार्धं
रथानां
च
त्रिषट्शतम्
32
▾
Meaning
Keep
दासीनां
सुकुमारीणां
द्वे
शते
समलङ्कृते
।
दुहित्रे
देवकः
प्रादाद्याने
दुहितृवत्सलः
33
▾
Meaning
Keep
शङ्खतूर्यमृदङ्गाश्च
नेदुर्दुन्दुभयः
समम्
।
प्रयाणप्रक्रमे
तावद्वरवध्वोः
सुमङ्गलम्
34
▾
Meaning
Keep
पथि
प्रग्रहिणं
कंसमाभाष्याहाशरीरवाक्
।
अस्यास्त्वामष्टमो
गर्भो
हन्ता
यां
वहसेऽबुध
35
▾
Meaning
Keep
इत्युक्तः
स
खलः
पापो
भोजानां
कुलपांसनः
।
भगिनीं
हन्तुमारब्धः
खड्गपाणिः
कचेऽग्रहीत्
36
▾
Meaning
Keep
तं
जुगुप्सितकर्माणं
नृशंसं
निरपत्रपम्
।
वसुदेवो
महाभाग
उवाच
परिसान्त्वयन्
37
▾
Meaning
Keep
श्लाघनीयगुणः
शूरैर्भवान्
भोजयशस्करः
।
स
कथं
भगिनीं
हन्यात्स्त्रियमुद्वाहपर्वणि
38
▾
Meaning
Keep
मृत्युर्जन्मवतां
वीर
देहेन
सह
जायते
।
अद्य
वाब्दशतान्ते
वा
मृत्युर्वै
प्राणिनां
ध्रुवः
39
▾
Meaning
Keep
देहे
पञ्चत्वमापन्ने
देही
कर्मानुगोऽवशः
।
देहान्तरमनुप्राप्य
प्राक्तनं
त्यजते
वपुः
40
▾
Meaning
Keep
व्रजंस्तिष्ठन्
पदैकेन
यथैवैकेन
गच्छति
।
यथा
तृणजलूकैवं
देही
कर्मगतिं
गतः
41
▾
Meaning
Keep
स्वप्ने
यथा
पश्यति
देहमीदृशं
मनोरथेनाभिनिविष्टचेतनः
।
दृष्टश्रुताभ्यां
मनसानुचिन्तयन्
प्रपद्यते
तत्किमपि
ह्यपस्मृतिः
42
▾
Meaning
Keep
यतो
यतो
धावति
दैवचोदितं
मनो
विकारात्मकमाप
पञ्चसु
।
गुणेषु
मायारचितेषु
देह्यसौ
प्रपद्यमानः
सह
तेन
जायते
43
▾
Meaning
Keep
ज्योतिर्यथैवोदकपार्थिवेष्वदः
समीरवेगानुगतं
विभाव्यते
।
एवं
स्वमायारचितेष्वसौ
पुमान्
गुणेषु
रागानुगतो
विमुह्यति
44
▾
Meaning
Keep
तस्मान्न
कस्यचिद्द्रोहमाचरेत्स
तथाविधः
।
आत्मनः
क्षेममन्विच्छन्
द्रोग्धुर्वै
परतो
भयम्
45
▾
Meaning
Keep
एषा
तवानुजा
बाला
कृपणा
पुत्रिकोपमा
।
हन्तुं
नार्हसि
कल्याणीमिमां
त्वं
दीनवत्सलः
46
▾
Meaning
Keep
एवं
स
सामभिर्भेदैर्बोध्यमानोऽपि
दारुणः
।
न
न्यवर्तत
कौरव्य
पुरुषादाननुव्रतः
47
▾
Meaning
Keep
निर्बन्धं
तस्य
तं
ज्ञात्वा
विचिन्त्यानकदुन्दुभिः
।
प्राप्तं
कालं
प्रतिव्योढुमिदं
तत्रान्वपद्यत
48
▾
Meaning
Keep
मृत्युर्बुद्धिमतापोह्यो
यावद्बुद्धिबलोदयम्
।
यद्यसौ
न
निवर्तेत
नापराधोऽस्ति
देहिनः
49
▾
Meaning
Keep
प्रदाय
मृत्यवे
पुत्रान्
मोचये
कृपणामिमाम्
।
सुता
मे
यदि
जायेरन्
मृत्युर्वा
न
म्रियेत
चेत्
50
▾
Meaning
Keep
विपर्ययो
वा
किं
न
स्याद्गतिर्धातुर्दुरत्यया
।
उपस्थितो
निवर्तेत
निवृत्तः
पुनरापतेत्
51
▾
Meaning
Keep
अग्नेर्यथा
दारुवियोगयोगयो-
रदृष्टतोऽन्यन्न
निमित्तमस्ति
।
एवं
हि
जन्तोरपि
दुर्विभाव्यः
शरीरसंयोगवियोगहेतुः
52
▾
Meaning
Keep
एवं
विमृश्य
तं
पापं
यावदात्मनिदर्शनम्
।
पूजयामास
वै
शौरिर्बहुमानपुरःसरम्
53
▾
Meaning
Keep
प्रसन्नवदनाम्भोजो
नृशंसं
निरपत्रपम्
।
मनसा
दूयमानेन
विहसन्निदमब्रवीत्
54
▾
Meaning
Keep
न
ह्यस्यास्ते
भयं
सौम्य
यद्
वैसाहाशरीरिणी
।
पुत्रान्
समर्पयिष्येऽस्या
यतस्ते
भयमुत्थितम्
55
▾
Meaning
Keep
स्वसुर्वधान्निववृते
कंसस्तद्वाक्यसारवित्
।
वसुदेवोऽपि
तं
प्रीतः
प्रशस्य
प्राविशद्गृहम्
56
▾
Meaning
Keep
अथ
काल
उपावृत्ते
देवकी
सर्वदेवता
।
पुत्रान्
प्रसुषुवे
चाष्टौ
कन्यां
चैवानुवत्सरम्
57
▾
Meaning
Keep
कीर्तिमन्तं
प्रथमजं
कंसायानकदुन्दुभिः
।
अर्पयामास
कृच्छ्रेण
सोऽनृतादतिविह्वलः
58
▾
Meaning
Keep
किं
दुःसहं
नु
साधूनां
विदुषां
किमपेक्षितम्
।
किमकार्यं
कदर्याणां
दुस्त्यजं
किं
धृतात्मनाम्
59
▾
Meaning
Keep
दृष्ट्वा
समत्वं
तच्छौरेः
सत्ये
चैव
व्यवस्थितिम्
।
कंसस्तुष्टमना
राजन्
प्रहसन्निदमब्रवीत्
60
▾
Meaning
Keep
प्रतियातु
कुमारोऽयं
न
ह्यस्मादस्ति
मे
भयम्
।
अष्टमाद्युवयोर्गर्भान्मृत्युर्मे
विहितः
किल
61
▾
Meaning
Keep
तथेति
सुतमादाय
ययावानकदुन्दुभिः
।
नाभ्यनन्दत
तद्वाक्यमसतोऽविजितात्मनः
62
▾
Meaning
Keep
नन्दाद्या
ये
व्रजे
गोपा
याश्चामीषां
च
योषितः
।
वृष्णयो
वसुदेवाद्या
देवक्याद्या
यदुस्त्रियः
63
▾
Meaning
Keep
सर्वे
वै
देवताप्राया
उभयोरपि
भारत
।
ज्ञातयो
बन्धुसुहृदो
ये
च
कंसमनुव्रताः
64
▾
Meaning
Keep
एतत्कंसाय
भगवाञ्छशंसाभ्येत्य
नारदः
।
भूमेर्भारायमाणानां
दैत्यानां
च
वधोद्यमम्
65
▾
Meaning
Keep
ऋषेर्विनिर्गमे
कंसो
यदून्
मत्वा
सुरानिति
।
देवक्या
गर्भसम्भूतं
विष्णुं
च
स्ववधं
प्रति
66
▾
Meaning
Keep
देवकीं
वसुदेवं
च
निगृह्य
निगडैर्गृहे
।
जातं
जातमहन्
पुत्रं
तयोरजनशङ्कया
67
▾
Meaning
Keep
मातरं
पितरं
भ्रातॄन्
सर्वांश्च
सुहृदस्तथा
।
घ्नन्ति
ह्यसुतृपो
लुब्धा
राजानः
प्रायशो
भुवि
68
▾
Meaning
Keep
आत्मानमिह
सञ्जातं
जानन्
प्राग्विष्णुना
हतम्
।
महासुरं
कालनेमिं
यदुभिः
स
व्यरुध्यत
69
▾
Meaning
Keep
उग्रसेनं
च
पितरं
यदुभोजान्धकाधिपम्
।
स्वयं
निगृह्य
बुभुजे
शूरसेनान्महाबलः
Previous
←
The House of Vrsni, and the Coming of Krsna
Next
The Prayers of the Gods in the Womb
→