Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Prayers of the Gods in the Womb
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
प्रलम्बबकचाणूरतृणावर्तमहाशनैः
।
मुष्टिकारिष्टद्विविदपूतनाकेशीधेनुकैः
2
▾
Meaning
Keep
अन्यैश्चासुरभूपालैर्बाणभौमादिभिर्युतः
।
यदूनां
कदनं
चक्रे
बली
मागधसंश्रयः
3
▾
Meaning
Keep
ते
पीडिता
निविविशुः
कुरुपञ्चालकेकयान्
।
शाल्वान्
विदर्भान्
निषधान्
विदेहान्
कोशलानपि
4
▾
Meaning
Keep
एके
तमनुरुन्धाना
ज्ञातयः
पर्युपासते
।
हतेषु
षट्सु
बालेषु
देवक्या
औग्रसेनिना
5
▾
Meaning
Keep
सप्तमो
वैष्णवं
धाम
यमनन्तं
प्रचक्षते
।
गर्भो
बभूव
देवक्या
हर्षशोकविवर्धनः
6
▾
Meaning
Keep
भगवानपि
विश्वात्मा
विदित्वा
कंसजं
भयम्
।
यदूनां
निजनाथानां
योगमायां
समादिशत्
7
▾
Meaning
Keep
गच्छ
देवि
व्रजं
भद्रे
गोपगोभिरलङ्कृतम्
।
रोहिणी
वसुदेवस्य
भार्याऽऽस्ते
नन्दगोकुले
।
अन्याश्च
कंससंविग्ना
विवरेषु
वसन्ति
हि
8
▾
Meaning
Keep
देवक्या
जठरे
गर्भं
शेषाख्यं
धाम
मामकम्
।
तत्
संनिकृष्य
रोहिण्या
उदरे
संनिवेशय
9
▾
Meaning
Keep
अथाहमंशभागेन
देवक्याः
पुत्रतां
शुभे
।
प्राप्स्यामि
त्वं
यशोदायां
नन्दपत्न्यां
भविष्यसि
10
▾
Meaning
Keep
अर्चिष्यन्ति
मनुष्यास्त्वां
सर्वकामवरेश्वरीम्
।
धूपोपहारबलिभिः
सर्वकामवरप्रदाम्
11
▾
Meaning
Keep
नामधेयानि
कुर्वन्ति
स्थानानि
च
नरा
भुवि
।
दुर्गेति
भद्रकालीति
विजया
वैष्णवीति
च
12
▾
Meaning
Keep
कुमुदा
चण्डिका
कृष्णा
माधवी
कन्यकेति
च
।
माया
नारायणीशानी
शारदेत्यम्बिकेति
च
13
▾
Meaning
Keep
गर्भसङ्कर्षणात्
तं
वै
प्राहुः
सङ्कर्षणं
भुवि
।
रामेति
लोकरमणाद्
बलं
बलवदुच्छ्रयात्
14
▾
Meaning
Keep
सन्दिष्टैवं
भगवता
तथेत्योमिति
तद्वचः
।
प्रतिगृह्य
परिक्रम्य
गां
गता
तत्तथाकरोत्
15
▾
Meaning
Keep
गर्भे
प्रणीते
देवक्या
रोहिणीं
योगनिद्रया
।
अहो
विस्रंसितो
गर्भ
इति
पौरा
विचुक्रुशुः
16
▾
Meaning
Keep
भगवानपि
विश्वात्मा
भक्तानामभयङ्करः
।
आविवेशांशभागेन
मन
आनकदुन्दुभेः
17
▾
Meaning
Keep
स
बिभ्रत्पौरुषं
धाम
भ्राजमानो
यथा
रविः
।
दुरासदोऽतिदुर्धर्षो
भूतानां
सम्बभूव
ह
18
▾
Meaning
Keep
ततो
जगन्मङ्गलमच्युतांशं
समाहितं
शूरसुतेन
देवी
।
दधार
सर्वात्मकमात्मभूतं
काष्ठा
यथाऽऽनन्दकरं
मनस्तः
19
▾
Meaning
Keep
सा
देवकी
सर्वजगन्निवास-
निवासभूता
नितरां
न
रेजे
।
भोजेन्द्रगेहेऽग्निशिखेव
रुद्धा
सरस्वती
ज्ञानखले
यथा
सती
20
▾
Meaning
Keep
तां
वीक्ष्य
कंसः
प्रभयाजितान्तरां
विरोचयन्तीं
भवनं
शुचिस्मिताम्
।
आहैष
मे
प्राणहरो
हरिर्गुहां
ध्रुवं
श्रितो
यन्न
पुरेयमीदृशी
21
▾
Meaning
Keep
किमद्य
तस्मिन्
करणीयमाशु
मे
यदर्थतन्त्रो
न
विहन्ति
विक्रमम्
।
स्त्रियाः
स्वसुर्गुरुमत्या
वधोऽयं
यशः
श्रियं
हन्त्यनुकालमायुः
22
▾
Meaning
Keep
स
एष
जीवन्
खलु
सम्परेतो
वर्तेत
योऽत्यन्तनृशंसितेन
।
देहे
मृते
तं
मनुजाः
शपन्ति
गन्ता
तमोऽन्धं
तनुमानिनो
ध्रुवम्
23
▾
Meaning
Keep
इति
घोरतमाद्भावात्सन्निवृत्तः
स्वयं
प्रभुः
।
आस्ते
प्रतीक्षंस्तज्जन्म
हरेर्वैरानुबन्धकृत्
24
▾
Meaning
Keep
आसीनः
संविशंस्तिष्ठन्
भुञ्जानः
पर्यटन्महीम्
।
चिन्तयानो
हृषीकेशमपश्यत्तन्मयं
जगत्
25
▾
Meaning
Keep
ब्रह्मा
भवश्च
तत्रैत्य
मुनिभिर्नारदादिभिः
।
देवैः
सानुचरैः
साकं
गीर्भिर्वृषणमैडयन्
26
▾
Meaning
Keep
सत्यव्रतं
सत्यपरं
त्रिसत्यंसत्यस्य
योनिं
निहितं
च
सत्ये
।
सत्यस्य
सत्यमृतसत्यनेत्रंसत्यात्मकं
त्वां
शरणं
प्रपन्नाः
27
▾
Meaning
Keep
एकायनोऽसौ
द्विफलस्त्रिमूल-
श्चतूरसः
पञ्चविधः
षडात्मा
।
सप्तत्वगष्टविटपो
नवाक्षो
दशच्छदी
द्विखगो
ह्यादिवृक्षः
28
▾
Meaning
Keep
त्वमेक
एवास्य
सतः
प्रसूति-
स्त्वं
सन्निधानं
त्वमनुग्रहश्च
।
त्वन्मायया
संवृतचेतसस्त्वां
पश्यन्ति
नाना
न
विपश्चितो
ये
29
▾
Meaning
Keep
बिभर्षि
रूपाण्यवबोध
आत्मा
क्षेमाय
लोकस्य
चराचरस्य
।
सत्त्वोपपन्नानि
सुखावहानि
सतामभद्राणि
मुहुः
खलानाम्
30
▾
Meaning
Keep
त्वय्यम्बुजाक्षाखिलसत्त्वधाम्नि
समाधिनाऽऽवेशितचेतसैके
।
त्वत्पादपोतेन
महत्कृतेन
कुर्वन्ति
गोवत्सपदं
भवाब्धिम्
31
▾
Meaning
Keep
स्वयं
समुत्तीर्य
सुदुस्तरं
द्युमन्
भवार्णवं
भीममदभ्रसौहृदाः
।
भवत्पदाम्भोरुहनावमत्र
ते
निधाय
याताः
सदनुग्रहो
भवान्
32
▾
Meaning
Keep
येऽन्येऽरविन्दाक्ष
विमुक्तमानिन-
स्त्वय्यस्तभावादविशुद्धबुद्धयः
।
आरुह्य
कृच्छ्रेण
परं
पदं
ततः
पतन्त्यधोऽनादृतयुष्मदङ्घ्रयः
33
▾
Meaning
Keep
तथा
न
ते
माधव
तावकाः
क्वचि-
द्भ्रश्यन्ति
मार्गात्त्वयि
बद्धसौहृदाः
।
त्वयाभिगुप्ता
विचरन्ति
निर्भया
विनायकानीकपमूर्धसु
प्रभो
34
▾
Meaning
Keep
सत्त्वं
विशुद्धं
श्रयते
भवान्
स्थितौ
शरीरिणां
श्रेय
उपायनं
वपुः
।
वेदक्रियायोगतपःसमाधिभि-
स्तवार्हणं
येन
जनः
समीहते
35
▾
Meaning
Keep
सत्त्वं
न
चेद्धातरिदं
निजं
भवे-
द्विज्ञानमज्ञानभिदापमार्जनम्
।
गुणप्रकाशैरनुमीयते
भवान्
प्रकाशते
यस्य
च
येन
वा
गुणः
36
▾
Meaning
Keep
न
नामरूपे
गुणजन्मकर्मभि-
र्निरूपितव्ये
तव
तस्य
साक्षिणः
।
मनो
वचोभ्यामनुमेयवर्त्मनो
देव
क्रियायां
प्रतियन्त्यथापि
हि
37
▾
Meaning
Keep
शृण्वन्
गृणन्
संस्मरयंश्च
चिन्तय-
न्नामानि
रूपाणि
च
मङ्गलानि
ते
।
क्रियासु
यस्त्वच्चरणारविन्दयो-
राविष्टचेता
न
भवाय
कल्पते
38
▾
Meaning
Keep
दिष्ट्या
हरेऽस्या
भवतः
पदो
भुवो
भारोऽपनीतस्तव
जन्मनेशितुः
।
दिष्ट्याङ्कितां
त्वत्पदकैः
सुशोभनै-
र्द्रक्ष्याम
गां
द्यां
च
तवानुकम्पिताम्
39
▾
Meaning
Keep
न
तेऽभवस्येश
भवस्य
कारणं
विना
विनोदं
बत
तर्कयामहे
।
भवो
निरोधः
स्थितिरप्यविद्यया
कृता
यतस्त्वय्यभयाश्रयात्मनि
40
▾
Meaning
Keep
मत्स्याश्वकच्छपनृसिंहवराहहंस-
राजन्यविप्रविबुधेषु
कृतावतारः
।
त्वं
पासि
नस्त्रिभुवनं
च
यथाधुनेश
भारं
भुवो
हर
यदूत्तम
वन्दनं
ते
41
▾
Meaning
Keep
दिष्ट्याम्ब
ते
कुक्षिगतः
परः
पुमा-
नंशेन
साक्षाद्भगवान्
भवाय
नः
।
माभूद्भयं
भोजपतेर्मुमूर्षो-
र्गोप्ता
यदूनां
भविता
तवात्मजः
42
▾
Meaning
Keep
इत्यभिष्टूय
पुरुषं
यद्रूपमनिदं
यथा
।
ब्रह्मेशानौ
पुरोधाय
देवाः
प्रतिययुर्दिवम्
Previous
←
The Earth's Appeal, and Kamsa at the Wedding
Next
The Birth, and the Exchange of Children
→