Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Killing of the Infants
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
बहिरन्तःपुरद्वारः
सर्वाः
पूर्ववदावृताः
।
ततो
बालध्वनिं
श्रुत्वा
गृहपालाः
समुत्थिताः
2
▾
Meaning
Keep
ते
तु
तूर्णमुपव्रज्य
देवक्या
गर्भजन्म
तत्
।
आचख्युर्भोजराजाय
यदुद्विग्नः
प्रतीक्षते
3
▾
Meaning
Keep
स
तल्पात्तूर्णमुत्थाय
कालोऽयमिति
विह्वलः
।
सूतीगृहमगात्तूर्णं
प्रस्खलन्
मुक्तमूर्धजः
4
▾
Meaning
Keep
तमाह
भ्रातरं
देवी
कृपणा
करुणं
सती
।
स्नुषेयं
तव
कल्याण
स्त्रियं
मा
हन्तुमर्हसि
5
▾
Meaning
Keep
बहवो
हिंसिता
भ्रातः
शिशवः
पावकोपमाः
।
त्वया
दैवनिसृष्टेन
पुत्रिकैका
प्रदीयताम्
6
▾
Meaning
Keep
नन्वहं
ते
ह्यवरजा
दीना
हतसुता
प्रभो
।
दातुमर्हसि
मन्दाया
अङ्गेमां
चरमां
प्रजाम्
7
▾
Meaning
Keep
उपगुह्यात्मजामेवं
रुदत्या
दीनदीनवत्
।
याचितस्तां
विनिर्भर्त्स्य
हस्तादाचिच्छिदे
खलः
8
▾
Meaning
Keep
तां
गृहीत्वा
चरणयोर्जातमात्रां
स्वसुः
सुताम्
।
अपोथयच्छिलापृष्ठे
स्वार्थोन्मूलितसौहृदः
9
▾
Meaning
Keep
सा
तद्धस्तात्समुत्पत्य
सद्यो
देव्यम्बरं
गता
।
अदृश्यतानुजा
विष्णोः
सायुधाष्टमहाभुजा
10
▾
Meaning
Keep
दिव्यस्रगम्बरालेपरत्नाभरणभूषिता
।
धनुःशूलेषुचर्मासिशङ्खचक्रगदाधरा
11
▾
Meaning
Keep
सिद्धचारणगन्धर्वैरप्सरःकिन्नरोरगैः
।
उपाहृतोरुबलिभिः
स्तूयमानेदमब्रवीत्
12
▾
Meaning
Keep
किं
मया
हतया
मन्द
जातः
खलु
तवान्तकृत्
।
यत्र
क्व
वा
पूर्वशत्रुर्मा
हिंसीः
कृपणान्
वृथा
13
▾
Meaning
Keep
इति
प्रभाष्य
तं
देवी
माया
भगवती
भुवि
।
बहुनामनिकेतेषु
बहुनामा
बभूव
ह
14
▾
Meaning
Keep
तयाभिहितमाकर्ण्य
कंसः
परमविस्मितः
।
देवकीं
वसुदेवं
च
विमुच्य
प्रश्रितोऽब्रवीत्
15
▾
Meaning
Keep
अहो
भगिन्यहो
भाम
मया
वां
बत
पाप्मना
।
पुरुषाद
इवापत्यं
बहवो
हिंसिताः
सुताः
16
▾
Meaning
Keep
स
त्वहं
त्यक्तकारुण्यस्त्यक्तज्ञातिसुहृत्खलः
।
काँल्लोकान्
वै
गमिष्यामि
ब्रह्महेव
मृतः
श्वसन्
17
▾
Meaning
Keep
दैवमप्यनृतं
वक्ति
न
मर्त्या
एव
केवलम्
।
यद्विश्रम्भादहं
पापः
स्वसुर्निहतवाञ्छिशून्
18
▾
Meaning
Keep
मा
शोचतं
महाभागावात्मजान्
स्वकृतम्भुजः
।
जन्तवो
न
सदैकत्र
दैवाधीनास्तदाऽऽसते
19
▾
Meaning
Keep
भुवि
भौमानि
भूतानि
यथा
यान्त्यपयान्ति
च
।
नायमात्मा
तथैतेषु
विपर्येति
यथैव
भूः
20
▾
Meaning
Keep
यथानेवंविदो
भेदो
यत
आत्मविपर्ययः
।
देहयोगवियोगौ
च
संसृतिर्न
निवर्तते
21
▾
Meaning
Keep
तस्माद्भद्रे
स्वतनयान्
मया
व्यापादितानपि
।
मानुशोच
यतः
सर्वः
स्वकृतं
विन्दतेऽवशः
22
▾
Meaning
Keep
यावद्धतोऽस्मि
हन्तास्मीत्यात्मानं
मन्यतेऽस्वदृक्
।
तावत्
तदभिमान्यज्ञो
बाध्यबाधकतामियात्
23
▾
Meaning
Keep
क्षमध्वं
मम
दौरात्म्यं
साधवो
दीनवत्सलाः
।
इत्युक्त्वाश्रुमुखः
पादौ
श्यालः
स्वस्रोरथाग्रहीत्
24
▾
Meaning
Keep
मोचयामास
निगडाद्विश्रब्धः
कन्यकागिरा
।
देवकीं
वसुदेवं
च
दर्शयन्नात्मसौहृदम्
25
▾
Meaning
Keep
भ्रातुः
समनुतप्तस्य
क्षान्त्वा
रोषं
च
देवकी
।
व्यसृजद्वसुदेवश्च
प्रहस्य
तमुवाच
ह
26
▾
Meaning
Keep
एवमेतन्महाभाग
यथा
वदसि
देहिनाम्
।
अज्ञानप्रभवाहंधीः
स्वपरेति
भिदा
यतः
27
▾
Meaning
Keep
शोकहर्षभयद्वेषलोभमोहमदान्विताः
।
मिथो
घ्नन्तं
न
पश्यन्ति
भावैर्भावं
पृथग्दृशः
28
▾
Meaning
Keep
कंस
एवं
प्रसन्नाभ्यां
विशुद्धं
प्रतिभाषितः
।
देवकीवसुदेवाभ्यामनुज्ञातोऽविशद्गृहम्
29
▾
Meaning
Keep
तस्यां
रात्र्यां
व्यतीतायां
कंस
आहूय
मन्त्रिणः
।
तेभ्य
आचष्ट
तत्सर्वं
यदुक्तं
योगनिद्रया
30
▾
Meaning
Keep
आकर्ण्य
भर्तुर्गदितं
तमूचुर्देवशत्रवः
।
देवान्
प्रति
कृतामर्षा
दैतेया
नातिकोविदाः
31
▾
Meaning
Keep
एवं
चेत्तर्हि
भोजेन्द्र
पुरग्रामव्रजादिषु
।
अनिर्दशान्
निर्दशांश्च
हनिष्यामोऽद्य
वै
शिशून्
32
▾
Meaning
Keep
किमुद्यमैः
करिष्यन्ति
देवाः
समरभीरवः
।
नित्यमुद्विग्नमनसो
ज्याघोषैर्धनुषस्तव
33
▾
Meaning
Keep
अस्यतस्ते
शरव्रातैर्हन्यमानाः
समन्ततः
।
जिजीविषव
उत्सृज्य
पलायनपरा
ययुः
34
▾
Meaning
Keep
केचित्प्राञ्जलयो
दीना
न्यस्तशस्त्रा
दिवौकसः
।
मुक्तकच्छशिखाः
केचिद्भीताः
स्म
इति
वादिनः
35
▾
Meaning
Keep
न
त्वं
विस्मृतशस्त्रास्त्रान्
विरथान्
भयसंवृतान्
।
हंस्यन्यासक्तविमुखान्
भग्नचापानयुध्यतः
36
▾
Meaning
Keep
किं
क्षेमशूरैर्विबुधैरसंयुगविकत्थनैः
।
रहोजुषा
किं
हरिणा
शम्भुना
वा
वनौकसा
।
किमिन्द्रेणाल्पवीर्येण
ब्रह्मणा
वा
तपस्यता
37
▾
Meaning
Keep
तथापि
देवाः
सापत्न्यान्नोपेक्ष्या
इति
मन्महे
।
ततस्तन्मूलखनने
नियुङ्क्ष्वास्माननुव्रतान्
38
▾
Meaning
Keep
यथाऽऽमयोऽङ्गे
समुपेक्षितो
नृभि-
र्नशक्यते
रूढपदश्चिकित्सितुम्
।
यथेन्द्रियग्राम
उपेक्षितस्तथा
रिपुर्महान्
बद्धबलो
न
चाल्यते
39
▾
Meaning
Keep
मूलं
हि
विष्णुर्देवानां
यत्र
धर्मः
सनातनः
।
तस्य
च
ब्रह्मगोविप्रास्तपो
यज्ञाः
सदक्षिणाः
40
▾
Meaning
Keep
तस्मात्सर्वात्मना
राजन्
ब्राह्मणान्
ब्रह्मवादिनः
।
तपस्विनो
यज्ञशीलान्
गाश्च
हन्मो
हविर्दुघाः
41
▾
Meaning
Keep
विप्रा
गावश्च
वेदाश्च
तपः
सत्यं
दमः
शमः
।
श्रद्धा
दया
तितिक्षा
च
क्रतवश्च
हरेस्तनूः
42
▾
Meaning
Keep
स
हि
सर्वसुराध्यक्षो
ह्यसुरद्विड्गुहाशयः
।
तन्मूला
देवताः
सर्वाः
सेश्वराः
सचतुर्मुखाः
।
अयं
वै
तद्वधोपायो
यदृषीणां
विहिंसनम्
43
▾
Meaning
Keep
एवं
दुर्मन्त्रिभिः
कंसः
सह
सम्मन्त्र्य
दुर्मतिः
।
ब्रह्महिंसां
हितं
मेने
कालपाशावृतोऽसुरः
44
▾
Meaning
Keep
सन्दिश्य
साधुलोकस्य
कदने
कदनप्रियान्
।
कामरूपधरान्
दिक्षु
दानवान्
गृहमाविशत्
45
▾
Meaning
Keep
ते
वै
रजःप्रकृतयस्तमसा
मूढचेतसः
।
सतां
विद्वेषमाचेरुरारादागतमृत्यवः
46
▾
Meaning
Keep
आयुः
श्रियं
यशो
धर्मं
लोकानाशिष
एव
च
।
हन्ति
श्रेयांसि
सर्वाणि
पुंसो
महदतिक्रमः
Previous
←
The Birth, and the Exchange of Children
Next
The Festival at Nanda's Camp
→