Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Festival at Nanda's Camp
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
नन्दस्त्वात्मज
उत्पन्ने
जाताह्लादो
महामनाः
।
आहूय
विप्रान्
वेदज्ञान्
स्नातः
शुचिरलङ्कृतः
2
▾
Meaning
Keep
वाचयित्वा
स्वस्त्ययनं
जातकर्मात्मजस्य
वै
।
कारयामास
विधिवत्पितृदेवार्चनं
तथा
3
▾
Meaning
Keep
धेनूनां
नियुते
प्रादाद्विप्रेभ्यः
समलङ्कृते
।
तिलाद्रीन्
सप्त
रत्नौघशातकौम्भाम्बरावृतान्
4
▾
Meaning
Keep
कालेन
स्नानशौचाभ्यां
संस्कारैस्तपसेज्यया
।
शुध्यन्ति
दानैः
सन्तुष्ट्या
द्रव्याण्यात्माऽऽत्मविद्यया
5
▾
Meaning
Keep
सौमङ्गल्यगिरो
विप्राः
सूतमागधवन्दिनः
।
गायकाश्च
जगुर्नेदुर्भेर्यो
दुन्दुभयो
मुहुः
6
▾
Meaning
Keep
व्रजः
सम्मृष्टसंसिक्तद्वाराजिरगृहान्तरः
।
चित्रध्वजपताकास्रक्
चैलपल्लवतोरणैः
7
▾
Meaning
Keep
गावो
वृषा
वत्सतरा
हरिद्रातैलरूषिताः
।
विचित्रधातुबर्हस्रग्वस्त्रकाञ्चनमालिनः
8
▾
Meaning
Keep
महार्हवस्त्राभरणकञ्चुकोष्णीषभूषिताः
।
गोपाः
समाययू
राजन्
नानोपायनपाणयः
9
▾
Meaning
Keep
गोप्यश्चाकर्ण्य
मुदिता
यशोदायाः
सुतोद्भवम्
।
आत्मानं
भूषयाञ्चक्रुर्वस्त्राकल्पाञ्जनादिभिः
10
▾
Meaning
Keep
नवकुङ्कुमकिञ्जल्कमुखपङ्कजभूतयः
।
बलिभिस्त्वरितं
जग्मुः
पृथुश्रोण्यश्चलत्कुचाः
11
▾
Meaning
Keep
गोप्यः
सुमृष्टमणिकुण्डलनिष्ककण्ठ्य-
श्चित्राम्बराः
पथि
शिखाच्युतमाल्यवर्षाः
।
नन्दालयं
सवलया
व्रजतीर्विरेजु-
र्व्यालोलकुण्डलपयोधरहारशोभाः
12
▾
Meaning
Keep
ता
आशिषः
प्रयुञ्जानाश्चिरं
पाहीति
बालके
।
हरिद्राचूर्णतैलाद्भिः
सिञ्चन्त्योऽजनमुज्जगुः
13
▾
Meaning
Keep
अवाद्यन्त
विचित्राणि
वादित्राणि
महोत्सवे
।
कृष्णे
विश्वेश्वरेऽनन्ते
नन्दस्य
व्रजमागते
14
▾
Meaning
Keep
गोपाः
परस्परं
हृष्टा
दधिक्षीरघृताम्बुभिः
।
आसिञ्चन्तो
विलिम्पन्तो
नवनीतैश्च
चिक्षिपुः
15
▾
Meaning
Keep
नन्दो
महामनास्तेभ्यो
वासोऽलङ्कारगोधनम्
।
सूतमागधवन्दिभ्यो
येऽन्ये
विद्योपजीविनः
16
▾
Meaning
Keep
तैस्तैः
कामैरदीनात्मा
यथोचितमपूजयत्
।
विष्णोराराधनार्थाय
स्वपुत्रस्योदयाय
च
17
▾
Meaning
Keep
रोहिणी
च
महाभागा
नन्दगोपाभिनन्दिता
।
व्यचरद्
दिव्यवासः
स्रक्कण्ठाभरणभूषिता
18
▾
Meaning
Keep
तत
आरभ्य
नन्दस्य
व्रजः
सर्वसमृद्धिमान्
।
हरेर्निवासात्मगुणै
रमाक्रीडमभून्नृप
19
▾
Meaning
Keep
गोपान्
गोकुलरक्षायां
निरूप्य
मथुरां
गतः
।
नन्दः
कंसस्य
वार्षिक्यं
करं
दातुं
कुरूद्वह
20
▾
Meaning
Keep
वसुदेव
उपश्रुत्य
भ्रातरं
नन्दमागतम्
।
ज्ञात्वा
दत्तकरं
राज्ञे
ययौ
तदवमोचनम्
21
▾
Meaning
Keep
तं
दृष्ट्वा
सहसोत्थाय
देहः
प्राणमिवागतम्
।
प्रीतः
प्रियतमं
दोर्भ्यां
सस्वजे
प्रेमविह्वलः
22
▾
Meaning
Keep
पूजितः
सुखमासीनः
पृष्ट्वानामयमादृतः
।
प्रसक्तधीः
स्वात्मजयोरिदमाह
विशाम्पते
23
▾
Meaning
Keep
दिष्ट्या
भ्रातः
प्रवयस
इदानीमप्रजस्य
ते
।
प्रजाशाया
निवृत्तस्य
प्रजा
यत्समपद्यत
24
▾
Meaning
Keep
दिष्ट्या
संसारचक्रेऽस्मिन्
वर्तमानः
पुनर्भवः
।
उपलब्धो
भवानद्य
दुर्लभं
प्रियदर्शनम्
25
▾
Meaning
Keep
नैकत्र
प्रियसंवासः
सुहृदां
चित्रकर्मणाम्
।
ओघेन
व्यूह्यमानानां
प्लवानां
स्रोतसो
यथा
26
▾
Meaning
Keep
कच्चित्पशव्यं
निरुजं
भूर्यम्बुतृणवीरुधम्
।
बृहद्वनं
तदधुना
यत्रास्से
त्वं
सुहृद्वृतः
27
▾
Meaning
Keep
भ्रातर्मम
सुतः
कच्चिन्मात्रा
सह
भवद्व्रजे
।
तातं
भवन्तं
मन्वानो
भवद्भ्यामुपलालितः
28
▾
Meaning
Keep
पुंसस्त्रिवर्गो
विहितः
सुहृदो
ह्यनुभावितः
।
न
तेषु
क्लिश्यमानेषु
त्रिवर्गोऽर्थाय
कल्पते
29
▾
Meaning
Keep
अहो
ते
देवकीपुत्राः
कंसेन
बहवो
हताः
।
एकावशिष्टावरजा
कन्या
सापि
दिवं
गता
30
▾
Meaning
Keep
नूनं
ह्यदृष्टनिष्ठोऽयमदृष्टपरमो
जनः
।
अदृष्टमात्मनस्तत्त्वं
यो
वेद
न
स
मुह्यति
31
▾
Meaning
Keep
करो
वै
वार्षिको
दत्तो
राज्ञे
दृष्टा
वयं
च
वः
।
नेह
स्थेयं
बहुतिथं
सन्त्युत्पाताश्च
गोकुले
32
▾
Meaning
Keep
इति
नन्दादयो
गोपाः
प्रोक्तास्ते
शौरिणा
ययुः
।
अनोभिरनडुद्युक्तैस्तमनुज्ञाप्य
गोकुलम्
Previous
←
The Killing of the Infants
Next
Putana
→